SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिकाटीका प्रा.१२ सू. ४ ऋतुवक्तव्यता प्रतिपादनम ५१७ जं लद्धं तस्स पुणो, छहि हिय सेस उऊ होइ ॥२॥ सेसाणं अंसाणं, बहिउ भागेहि तेसिं जं लद्धं । ते दिवसा नायव्वा, होति पवत्तस्स अयणस्स ॥३॥" छाया- सूर्यौरानयने पर्व पश्चदश संगुणं नियमात् । तत्र संक्षिप्तं सत् द्वाषष्टि भागपरिहीनम् ॥१॥ द्विगुणम् एकषष्टियुतं, द्वाविंशशतेन भाजिते नियमात् । यल्लब्धं तस्य पुनः षड्भि ते शेष ऋतुर्भवति ॥२।। शेषाणा मंशानां द्वाभ्यां तु भागाभ्यां तेषां यल्लब्धम् । ते दिवसा ज्ञातव्याः, भवन्ति प्रवृत्तस्यायनस्य ।।३।। इति । आसां व्याख्या क्रियते .. -'बरउउस्सा.' इत्यादि, 'सूरउउस्साणयणे' सूर्यत्तॊः सूर्यसम्बन्धिन ऋतोरानयने 'पर' सर्व-पर्व संख्यानं 'नियमा' नियमात् 'पण्णरसं गुणं' पञ्चदशसंगुणं पञ्चदशभिर्गुणितं कर्त्तव्यम् पर्वाणां पञ्चदशतिथ्यात्मकत्वात् । अत्रेयं भावना--यद्यपि ऋतव आ वाढादि प्रभवास्तथापि युगं श्रावण-कृष्णपक्ष प्रतिपदात आरभ्य प्रवर्त्तते ततो युगादितः प्रवृत्तानि यानि पर्वाणि भवन्ति तेषां संख्याऽत्र गृह्यते, सा संख्याऽत्र पञ्चदशभिर्गुण्यते इति । तां संख्यां गुणयित्वा च पर्वाणामुपरि विवक्षितं दिनमभिव्याप्य या तिथयस्ताः 'तहिं संखित्तं तत्रपञ्चदशभिर्गुणिते राशौ संक्षिप्यन्ते इत्यर्थः तदेवाह-संखित्तं संत' संक्षिप्तं सत् 'बावटिभागपरिहीणं' द्वापष्टिभागपरिहीनं कर्त्तव्यम् । अयं भावः-प्रत्यहोरात्रमेकैकेन द्वाष्टिभागेन पन्हिीयमाणे ये निष्पन्ना अवमरात्रा न्यूनदिवस रात्रिरूपास्तेऽप्युपचाराद् द्वाषष्टिभागाः कथ्यन्ते, तैः परिहीनं पर्वसंख्यानं कर्तव्यमिति ॥१॥ 'दुगुणे' इत्यादि, 'दुगुणेगट्ठीए जुयं' द्विगुणमेकषष्ट्यायुतं पूर्वोक्तं द्वाषष्टिभागपरिहीनं संख्यानं द्विगुणितं कृत्वा एकषष्टया युक्तं क्रियते तत 'बावीससएण भाइए' द्वाविंशशतेन द्वाविंशत्यधिकेन शतेन भाजिते सति 'नियमा' नियमात् — जं लद्ध' यल्लब्धं 'तस्स पुणो छहि हिय' तस्य पुनः षड्भिर्हते पभिर्भागे हृते 'सेस' यच्छेषं सः अनन्तरातीतः 'उऊहोइ' ऋतुर्भवति ॥२॥ 'सेसाणं' इत्यादि 'सेसाणं अंसाणं' येऽपिचांशाः शेषा उद्घारितास्तेषां 'वेहिउभागेहिं' द्वाभ्यां भागो हृते 'तेसिं जं लद्ध' तेषा तत्सम्बन्धिनां यल्लब्धं, 'ते दिवसा नायव्वा होति' त दिवसा ज्ञातव्या भवन्ति, कस्येत्याह'पवत्तस्स अयणस्स' प्रवृत्तस्य प्रवर्त्तमानस्य अयनस्य ऋतोर्ज्ञातव्या इति ॥३॥ एष करणगाथा त्रयस्याक्षरार्थः ।। सम्प्रत्यासां भावना क्रियते-तस्मिन् युगे प्रथमे दीपो. त्सवे केनापि पृष्टम्-अद्यतोऽनन्तरं गतकाले कः सूर्यतुरतीतः ? को वा साम्प्रतं वर्तते ? इति प्रश्न यत् क्रियते तदाह-तत्र युगादितः सप्त पर्वाणि व्यतीतानीति सप्त स्थाप्यन्ते, तानि 'पण्णरसगुणं'
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy