SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रतिप्रकाटीका प्रा. १२ सु. ४ ऋतु वक्तव्यताप्रतिपादनम् ५२३ तत्र 'सोझा अभिइम्मि बायाला' इति वचनात् अभिजितो द्वाचत्वारिंशत् शोध्यते, शोधिते च स्थिते पश्चात् त्रिषट्यधिके द्वेशते (२६३) ततश्चतुस्त्रिंशदधिकेन शतेन (१३४) श्रवणः शोध्यते, स्थितं शेषमेकोन त्रिंशदधिकं शतम् (१२९) एभ्यश्च धनिष्ठा न शुद्धयति ततः 'छेओ सयं च चोत्तीसं' इति वचनात् चतुस्त्रिंशदधिकशत (१३४) भागना मेकोनत्रिंशं शतं धनिष्ठासत्कमवगाह्य चन्द्रः प्रथमं सूर्यर्त्तं परिसमापयति, चतुस्त्रिंशदधिकशतभागेषु धनिष्ठा नक्षत्रस्य एकोनत्रिंशदधिकशतभागातिक्रमणानन्तरं चन्द्रः प्रथमसूर्यर्तुपरिसमापको भवतीति भावः । यदि द्विती सूर्यजिज्ञासा भवेत्तदा स एव पब्चोत्तर शतत्रयप्रमाणो ध्रुवराशिस्त्रिभिर्गुण्यते भयं भावः'एगा बिउत्तरगुणो इति वचनात् एकआरभ्य तत उर्ध्वं द्वयुत्तरवृद्धया, इति प्रथमसूर्यर्तु प्रकररणे एकेन ध्रुवराशिःर्गुणितः अत्र द्वितीयसूर्यर्तु जिज्ञासायामुत्तरोत्तर द्विकवृद्धया ध्रुवराशिस्त्रिभिर्गुण्यते इति । त्रिभिर्गुणितो ध्रुवराशिजायते पञ्चदशोत्तरनवशतसंख्यकः ( ९१५ ) तत्राभिजितो द्वाचत्वारिंशच्छुद्धया स्थितानि शेषाणि - अष्टौ शतानि त्रिसप्तत्यधिकानि (८७३) ततश्चतुस्त्रिशेन शतेन श्रवणे शोधिते स्थितानि शेषाणि एकोनचत्वारिंशदधिकानि सप्तशतानि (७३९), अत्र धनिष्ठा शुद्धयते इति तस्माद् राशेर्धनिष्ठानक्षत्रस्य चतुस्त्रिंशधिकशतसंख्यका भागाः शोध्यन्ते स्थितानि-शेषाणि पश्चोत्तराणि षट् शतानि (६०५ ) एतस्माद्राशेरपि सप्तषष्टिः शत भिषजः शोध्यते, स्थितानि अष्टात्रिंशदधिकानि पश्च शतानि (५३८), एभ्योऽपि चतुस्त्रिंशदधिकं शतं (१३४) पूर्वभाद्रपदायाः शोध्यते, स्थितानि चतुरधिकानि चत्वारिशतानि (४०४), एभ्योऽपि एकोत्तरशतद्वयेन (२०१ ) उत्तरभाद्रपदा शोध्यते, स्थिते शेषे त्र्युत्तरे द्वे शते (२०३), एतस्माद्राशेश्चतुस्त्रिशदधिकं शतं (१३४) रेवत्याः शोध्यते, स्थिता पश्चादेकोनसप्ततिः (६९) । तत आगतम् — अश्विनीनक्षत्रस्ये कोनसप्तति भागान् चतुस्त्रिंशदधिकशत भागानामवगाह्य चन्द्रो द्वितीयं सूर्यर्त्तु परिसमापयतीति एवं शेषेष्वपि ऋतुषु भावना कार्येति । अथान्तिमत्रिंशतमसूर्यर्त्त जिज्ञासायां स एव ध्रुवराशिः (३०५ ) एकोनपष्ट्या गुण्यते, जातानि सप्तदश सहस्राणि पञ्चनवत्यधिकानि नवशतानि ( १७९९५), तत्र षष्ट्यधिकैः षट् त्रिंशच्छतैः (३६६०) एको नक्षत्रपर्यायः शुद्धयति, ततः षष्ट्यधिकानि षट्त्रिंशच्छतानि चतुर्भिर्गुणयित्वा तत शोध्यन्ते, एष नक्षत्रपर्यायश्चतुर्भिगुणने जायन्ते - चतुर्दश सहस्राणि चत्वारिंशदधिकानि षट् शतानि (१४६४०) तत एकोनषष्ट्या गुणिताया ध्रुवराशि संख्यायाः ( १७९९५) चतुर्भिगुणितोनक्षत्र पर्यायः (१४४६०४) शोध्यते स्थितानि पश्चात् पञ्च पञ्चाशदधिकानि त्रयस्त्रिंशच्छतानि (३३५५) । एभ्यः पञ्चविंशत्यधिकैर्द्वात्रिंशच्छतैः (३२२५) अभिजिदादीनि मूलपर्यन्तानि नक्षत्राणि शोध्यन्ते, स्थितं पश्चात् त्रिंशदधिकमेकं शतम् (१३०) तेन च पूर्वाषाढा न शुद्धयति, तत आगतम् - त्रिंशदधिकं शतं चतुस्त्रिंशदधिकशतभागानां पूर्वाषाढासत्कमवगाह्य चन्द्रस्त्रिंशत्तमं सूर्यर्त्तं परिसमापयतीति ।
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy