SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ चन्द्रज्ञप्तिप्रकाशिकाटीका प्रा.१२ सू. ३ संवत्सराणां समादि समपर्यवसानम् ५१३ सप्तपञ्चाशद् मासाः षट्पञ्चाशदधिकशतेन गुणिताः ये अष्ट सहस्राणि अष्टशतानि द्विनवत्यधिकानि (८८९२) मासानां जातास्तेषु प्रक्षिप्यन्ते जायन्ते अष्टसहस्त्राणि नव शतानि अष्टाविंशत्यधिकानि ( ८९२८ ) द्वादशभिर्भागे हृते जायन्ते, सूत्रोक्ताः 'सत्तसमा चोयाला' चतुश्चत्वारिंशदधिकानि सप्तशतानि (७४४) अभिवर्द्धितसंवत्सरा षट्पञ्चाशद धिकशतसंख्यकेषु (१५६ ) युगेषु इति । ४३ (40 | 223) 1 अथवाऽन्यत्र - एक युगवर्त्तिनोऽभिवर्द्धितमासाः सप्तपञ्चाशत् एकस्य च मासस्य त्रयस्त्रयोदर भागाः - (५७ । एतावत्प्रमाणं लभ्यते, तथाहि - " सत्तावण्णं मासा मासस्स य तिन्नि तेरसभागा" इति । तत एतदनुसारेणापि गणितं प्रदर्श्यते, तथाहि - सप्तपञ्चाशन्मासाः, त्रयस्त्रयोदशभागाः (५७ । एते षट्पञ्चाशदधिकशतेन गुण्यन्ते तत्र पूर्व सप्तपञ्चाशत् षट्पञ्चाशदधिकशतेन गुण्यन्ते, जातानि - अष्ट सहस्राणि अष्टशतानि द्विनवत्यधिकानि ( ८८९ २ ) ततस्त्रयस्त्रयोदशभागाः षट्पञ्चाशदधिकशतेन गुण्यन्ते, जातानि चत्वारि शतानि अष्टषष्टयधिक्ानि (४६८), एषां मासानयनार्थं त्रयोदशभिर्भागो हियते, लभ्यन्ते षट्त्रिंशन्मासाः ( ३६ ), एते पूर्वोक्तमासराशौ ( ८८९२) प्रक्षिप्यन्ते जातानि - अष्टसहस्राणि नवशतानि अष्टाविंशत्यधिकानि (८९२८) । एषा द्वादशभिर्भागो ह्रियते लभ्यन्ते यथोक्ताश्चतुश्चत्वारिंशदधिकसप्तसंख्यकाः (७४४) संवत्सराः षट्पञ्चाशदधिकशत (१५६) युगानाम् । अथादित्यसंवत्सराः प्रदर्श्यन्ते - एकस्य युगस्यादित्यमासाः षष्टिः (६०) एते षट्पञ्चा शदधिकशतेन गुण्यन्ते - जातानि नव सहस्राणि त्रीणि शतानि षष्ट्यधिकानि ( ९३६०) एक द्वादशभिर्भागे हृते लभ्यन्ते - सूत्रोक्ताः 'सत्तसया असीया' अशीत्यधिकानि सप्तशतानि (७८०) षट्पञ्चाशच्छतयुगेषु आदित्य संवत्सरा इति । ऋतुसंवत्सराः प्रदर्श्यन्ते - एकयुगान्तर्वर्त्तिन ऋतुमास्ाः एकषष्टिः (६१) एते षट्पञ्चाशदधिकेन शतेन गुण्यन्ते, जातानि नवसहस्राणि पञ्चशतानि षोडशाधिकानि (९५१६) । एषां द्वादशभिर्भागे हृते लभ्यन्ते सूत्रोक्ताः, 'सत्तसया तेणउया' सप्तः।तानि त्रिनवत्यधिकानि (७९३) ऋतुसंवत्सरा इति । चन्द्रसंवत्सराना ह - एकयुगान्तर्वर्तिनश्चन्द्रमासाः द्वाषष्टिः (६२), एते षट्पञ्चाशदधिकशतेन गुण्यन्ते, जातानि - नवसहस्राणि षट्शतानि द्वास्प्तत्यधिकानि (९६७२), एषां द्वादशभिर्भागे हृते लभ्यन्ते सूत्रोक्ताः 'अट्ठसया छलुत्तरा' अष्टशत नि षडुत्तराणि (८०६) चन्द्रसंवत्सरा इति । नक्षत्र संवत्सरानाह - एकस्मिन् युगे नक्षत्रमासाः सप्तर्षाष्टः (६७), एते षट्पञ्चाशदधिकशतेन गुण्यन्ते, जातानि दशसहस्राणि चत्वारि शतानि ६५
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy