________________
चन्द्रज्ञप्तिप्रकाशिकाटीका प्रा.१२ सू. ३ संवत्सराणाम् समादिसमपर्यवसानम् ५०९ चन्द्रसंवत्सरस्य दिनानि चतुष्पञ्चाशदधिकानि त्रिशतानि एकस्य दिनस्य द्वादश द्वाषष्टिभागा ( ३५४।१२ ) एषामेकत्रिंशता गुणने जायन्ते दशसहस्राणि अशीत्यधिकानि नवशतानि दिना
न म् (१०९८०) एवं जाता आदित्यचन्द्रसंवत्सरयोदिवसानां समानता । इयत्सु दिवसेषु व्यतिक्रान्तेषु द्विप्रकाराणां संवत्सराणां पर्यवसानं भवतीति ते समपर्यवसिता भवन्तीति । अथादिर ऋतु चन्द्र नक्षत्रेति संवत्सरचतुष्टयविषये पृच्छति-'ता कयाणं एए आइच्च' इत्यादि 'ता' तावत् 'कयाणं' कदा खलु 'एए' एते वक्ष्यमाणा: 'आइच्च-उउ-चंद-णक्खत्तसंवच्छरा'
आदित्य ऋतुचन्द्रनक्षत्रसंवत्सराः चत्वारोऽपि 'समादिया' समादिकाः समानादिमन्तः 'समपज्जवसिया' समपर्यवसिताः समानपर्यवसानवन्तः 'आहिया' आख्याताः ? 'तिवएज्जा' इति वदेत् वदतु हे भगवन् ? । भगवानाह-'ता सहि' इत्यादि, 'ता' तावत् 'सट्ठी' षष्टिः (६०) 'एए' एते एकयुगान्तर्वर्तिनः ‘आइच्चमासा' आदित्यमासाः । 'एगढि' एकषष्टिः (६१) 'एए' एते एकयुगान्तर्वर्तिनः 'उउमासा' ऋतुमासाः । 'बावट्ठी' द्वाषष्टिः (६२) एते । कयुगान्तर्वर्तिनः 'चंदमासा' चन्द्रमासाः ‘सत्तट्टि' सप्तषष्टिः (६७) ६०-षष्टिरादित्यगमाः । ६१-एकषष्टि ऋतुमासाः। ६२-द्वाषष्टिश्चन्द्रमासाः । ६७-सप्तषष्टिनक्षत्रमासाः। 'एए' एते । कयुगान्तत्तिनः 'नक्खत्तमासा' नक्षत्रमासाः ‘एसणं' एषा प्रत्येकं खलु अद्धाकालरूपा 'दुवालमखुत्तकडा' द्वादशकृत्वः कृता अत्र द्वादशभिर्युगैः समानपर्यवसानसद्भावात् द्वादशभिर्गुणिते। यर्थः, ततश्च 'दुवालसभइया द्वादशभक्ता द्वादशभागता 'सट्ठी' षष्टिः षष्टिसंख्यकाः 'एए' एते द्वादशयुगसम्बन्धिनः 'आइच्च संवच्छरा' आदित्यसंवत्सराः । एवं 'एगहि' एकषष्टिः एए' एते 'उउसंवच्छरा' ऋतुसंवत्सराः । एवं 'बावट्ठी' द्वापष्टिः ‘एए' एते 'चंदसंवच्छरा' चन्द्रसंवच्छराः । 'सत्तट्ठी' सप्तषष्टिः 'एए' एते 'नक्खत्तसंवच्छरा' नक्षत्रसंवत्सराः एषा संवत्सरसंख्या प्रत्येकं द्वादशयुगातिक्रमे भवतीत्यर्थः । अयं भावः-एते चत्वारोऽपि संवत्सराः ववक्षित युगस्यादौ समादिकाः समारब्धप्रारम्भाः सन्तस्तत आरभ्य द्वादशयुगपर्यन्ते समपर्यवासाना भवन्ति, द्वादशयुगेभ्योऽर्वाक् एषां चतुर्णा संवत्सराणां मध्यादन्यतमस्य कतिपयमासानामधिक तयाऽवश्यम्भावेन सर्वेषां युगपत् समपर्यवसानत्वासंभवात् । अथैषां प्रत्येकं दिनसमानता गणितेन प्रदर्श्यते -पूर्व चतुणी संवत्सराणामेक युगान्तर्वर्तिमाससंख्याप्रदर्शिता एषा प्रत्येकमाससंख्या द्वादशभिर्गुणिता पुनश्च द्वादशभिर्विभक्ता क्रियते ततः संवत्सरा आयान्ति, तत्र द्वादशसु युगेषु पष्टिगदित्य संवत्सराः (६०), एकषष्टि ऋतुसंवत्सराः (६१), द्वाषष्टिश्चन्द्रसंवत्सराः (६२) सप्तषष्टिश्चनक्षत्रसंवत्सराः (६७) लभ्यन्ते । तत्रैकस्मिन् युगे आदित्यमासाः षष्टिः (६०), एषां द्वादशभिर्गुणने विंशत्यधिकानि सप्तशतानि (७२०), एषां द्वादशभिर्भागे हत्ते द्वादशसु युगेषु पाष्टरादित्यसंवत्सराः (६०) लब्धाः । तत एकस्यादित्यसंवत्सरस्य षषष्टयधिकानि त्रीणि