________________
चन्द्रप्रज्ञप्तिसूत्रे शतानि (३६६) दिनानां भवन्ति, एते द्वादशयुगसम्बन्धिनः षष्टिरादित्यसंवत्सरा इति षष्ट्या गुण्यन्ते, गुणिते च लभ्यन्ते-एकविंशतिः सहस्राणि, नवशतानि, षष्टाधिकानि (२१९६०) आदित्यसंवत्सरदिनानीति । एवं द्वादशसु युगेषु ऋतु संवत्सरा एकषष्टिः, एकस्य ऋतुसंवत्सरस्य पष्टयधिकान त्रीणि शतानि (३६०) दिनानि भवन्ति, एषामेक षष्टया - (६१) गुणने कृते लभ्यन्ते तान्येव (२१९६०) ऋतुसंवत्सरदिनानीति एवं द्वादशर युगेषु चन्द्र संवत्सराः द्वापष्टिः (६२), एकात्य चन्द्र संवत्सरस्य चतुष्पञ्चाशदधिकानि त्रीणि शतानि दिनानि, एकस्य दिनस्य च द्वादश द्वापष्टि भागाः ( ३५४।१ ), एषां द्वाषष्टया गुणने
५१
लभ्यन्ते पूर्वोक्त तुल्यानि (२१९६०) चन्द्रसंवत्तरदिनानीति । एवं द्वादशसु युगेषु सप्तषष्टि (६७) नक्षत्रसंवत्सराः, एकस्य नक्षत्रसंवत्सरस्य सप्तविंशत्यधिकानि त्रीणि शतानि दिनानाम् एकम्य च दिनस्य एकपञ्चाशत् सप्तपष्टि भागाः (३२७/- ), एषां सप्तषष्ट्या गुण ने जायन्ते तान्येव (२१९६०) नक्षत्रसंवत्सरदिनानीति । इयत्सु समानेषु दिवसेषु व्या रकान्तेषु चतुर्णामपि संवत्सराणां समानत्वेन पर्यवसानं भवतीति ।
अथाभिवद्धितादि पञ्चसंवत्सरविषये गौतमः पृच्छति-'ता कयाणं' इत्यादि ‘ता तावत 'कया णं' कदा खलु 'एए' एते पञ्च वक्ष्यमाणाः 'अभिवढिय आइच्च-चंद-गक्खत्तसंवच्छरा' अभिवर्द्धितादित्य-ऋतु----चन्द्र-नक्षत्रसंवत्सराः 'समादिया' समादिकाः समानादिमन्तः 'समपज्जनसिया' समपर्यवसिताः समानपर्यवसानवन्तः 'आहिया' आख्याताः क थताः ? 'तिवएज्जा ' इति वदेत् वदतु कथयतु हे भगवन् ! । एवं गौतमेन पृष्टे भगवानाह -'ता'सत्तावणं' इत्यादि, 'ता' तावत् ‘सत्तावण्णं मासा' सप्तपञ्चाशत् मासाः ‘सत्त य अहोरत्ता' सप्तचाहोरात्राः, 'एक्कारम य मुहुत्ता' एकादश च मुहूर्ताः 'तेवीसं बावद्विभागा मुहुत्तरस' एकस्यमुहूर्तस्य त्रयोविंशति पिष्ठिभागाः ( ५७।७।११ । २१ ) 'एए' एते अनुपदं प्रदर्शिताः 'अभिवढियमासा' अभिवर्द्धितमासा एक युगान्तर्वर्तिनः सन्ति । 'सट्ठी' पष्टिः षष्टि संख्यका (६०) 'एए' एते 'आइच्चमासा' आदित्यमासाः । 'एगहि' एकषष्टिः (६१) 'एए' एते 'उउमासा' ऋतुमासाः । 'बावट्ठी' द्वाषष्टिः (६२) 'एए' एते 'चंदमासा' चन्द्रगासाः । 'सत्तट्ठी' सप्तषष्टिः (६७) 'एए' एते ‘णक्खत्तमासा' नक्षत्रमासाः एते एक युगान्तर्वर्तिनोऽभिवद्धितादित्य ऋतुचन्द्रनक्षत्रमासाः प्रत्येकं प्रोक्ताः, साम्प्रतमेषां प्रत्येकं समादिसमपर्यवसान संवत्सरानयनविधिं प्रदर्शयति-'एस णं' इत्यादि, 'एस णं एषा पूर्वप्रदर्शिता 'अद्धा' अद्धा प्रत्येकस्य एक युगान्तर्वेर्तिमासरूपः कालः प्रत्ये कस्ट मासा