SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ ५०८ चन्द्रप्रज्ञप्तिसूत्रे शतानि, द्वादश द्वाषष्टिभागा रात्रिन्दिवस्य आख्याता इति वदेत् । तावत् याथातथ्येन चान्द्रः संवत्सरः त्रीणि चतुष्पञ्चाशानि रात्रिन्दिवशतानि, पञ्चच मुहूर्ताः, पनाशच्च द्वाषष्टिभागा मुहूर्तस्य आख्याता इति वदेत् ॥ सूत्रम् ३॥ व्याख्या--'ता कया णं एए' इति 'ता' तावत् 'कया णं' कदा कस्मिन् काले खलु 'आइच्चचंदसंवच्छरा' आदित्यचन्दसंवत्सरा 'समादिया' समादिकाः समप्रारम्भाः 'समपज्जवसिया' समपर्यवसिताः समानपर्यवसानवन्तः आहिया' आख्याताः कषिताः ? 'ति वएज्जा' इति वदेत् वदतु कथयतु हे भगवन् ? भगवनाह --'ता सट्ठी' इत्यादि 'ता' तावत् 'सही' षष्टिः, 'एए' एते पूर्वोक्ताः षष्टि संख्यका एक युगान्तर्वर्तिनः ‘आइच्च पासा' आदित्यमासाः भवन्ति, तथा 'बावट्ठी' द्वाषष्टिः, 'एए' एते पूर्वोक्ताः द्वाषष्टिसंख्यक एक युगान्तर्वर्तिनः 'चंदमासा' चन्द्रमासा भवन्ति । ततः 'एस णं' एषा खलु प्रत्येकं अद्धा' अद्धा-कालः 'छखुत्तकडा' षटूकृत्वः कृता षड्वारं कृता अत्र षण्णां युगानां विवक्षा, इह पड्सु युगेषु समानपर्यसानसद्भावात् , अतः षड्भिर्गुणिता ततः 'दुवालसभइया' द्वादः भक्ता द्वादशभागहृता द्वादशभिर्भागे हृते 'तीसं एए' त्रिंशदेते (३०) 'आइच्च संवच्छरा' आदित्य संवत्सरा भवन्ति 'एक्कतीसं एए' एकत्रिंशच्च (३१) एते 'चंद संवच्छरा' चन्द्र संवत्सरा भवन्ति । सूर्यस्य त्रिंशत्संवत्सरपरिपूर्णकाले चन्द्रस्य एकत्रिंशत् संवत्सराः परिपूर्णा वन्तीत्यतआह-'तया गं' इत्यादि 'ता' तावत् 'तया णं' तदा तस्मिन् एतावतिकालेऽतिक्रान्त खलु 'एए' एते 'आइच्चचंदसंवच्छरा' आदित्यचन्द्रसंवत्सराः 'समादिया' समादिकाः समं समानः आदिः प्रारम्भो येषां ते समादिकाः समानादिमन्तः तथा 'समपज्जव सया' समपर्यवसिताः समपर्यवसानवन्तो भवन्ति । अयं भावः-एते आदित्यचन्द्रसंवत्सरा विवशतस्य युगस्यादौ समप्रारम्भ प्रारब्धा सन्तस्तत आरभ्य षष्ठयुगपर्यवसाने समपर्यवसानवन्तो भवन्ति । तथाहि-एकस्मिन् युगे त्रयश्चन्द्रसंवत्सराः, द्वौ चाभिवद्धितसंवत्सरौ, तौ च प्रत्येकं त्रयोदश मासात्मकौ, ततः प्रथमयुगे पञ्च चन्द्रसंवत्सराः, द्वौ च चन्द्रमासौ, द्वतीये युगे दशचन्द्रसंवत्सराः, चत्वारश्च चन्द्रमासाः, एवं प्रतियुगं मास द्विकवृद्धया षष्ठे युगे द्वादशमासात्मक एकः संवत्सरो वर्धते तेन षष्ठयुगपर्यन्ते परिपूर्णा एकत्रिंशच्चन्द्रसंवत्सरा लभ्यन्ते । तथाहि-एकस्मिन् युगे आदित्यमासाः षष्टिः प्रोक्ताः तेषां षड्भिर्गुणने जातानि षष्टयधिकानि त्रीणि शतानि (६०) मासानाम् । एषां द्वादशमासैरेकः संवत्सरो भवतीति, द्वादशभिर्भागे हृते त्रिंशत् संवत्सरा लम्यन्ते । तत एकस्यादित्यसंवत्सरस्य घटूषष्टयधिकानि त्रीणि शतानि (३६६) दिनानि भवन्तीत्यत एषां त्रिंशता गुणने जायन्ते दशसहस्राणि अशीत्यधिकानि नवशतानि (१०९८०) दिनानामिति । तथा चन्द्रमासा द्वाषष्टिः (६२), एते षड्भिर्गुण्यन्ते जाता द्वासप्तत्यधिक शतत्रयमासाः (३७२, एषां संवत्सरानयनार्थ द्वादशभिर्भागो हियते लब्धा एकत्रिंशत् (३१) संवत्सराः । कस्य
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy