SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रशतिसूत्रे वृद्धयपवृद्धिभ्यां रात्रिन्दिवानां वृद्धिमपवृद्धिं च विहाय अन्यत्र न भवति, वृद्धिरपवृद्धिश्च रात्रिन्दिवानां मर्यादया भवति मर्यादामतिक्रम्य वृद्धयपवृद्धी कदापि न भवतः अतो मर्यादया षण्मासद्वयेऽपि न पञ्चदशमुहूर्त्ते दिवसो भवति, न च पञ्चदशमुहूर्त्ता रात्रिर्भवति । ते वृद्ध्यपवृद्धी च कथं भवेताम् ? तत्राह - 'मुहुत्ताणं चओवचएणं' मुहूर्त्तानां पञ्चदशसंख्यकानां चयेन - अधिकत्वेन वृद्धिः, अपचयेन-होनत्वेन अपवृद्धिः कदाचित् किञ्चिद् हीन पञ्चदशमुत्तों दिवसो भवति, कदाचित् किश्चिदधिकपश्चदशमुत्तों दिवसो भवति, एवं रात्रिविषयेऽपि विज्ञेयम्, किन्तु परिपूर्णपञ्चदश. मुहूर्त्तो न दिवसो भवति, न च परिपूर्णपञ्चदशमुहूर्त्ता रात्रिर्भवति दिवसरात्र्योरेवमेव क्रमसद्भावात्, पञ्चदशमुहूर्त्तानां होनाधिकत्वेन दिवसरात्री भवतः । एवम् 'णण्णत्थ वा अणुवायगईए' नान्यत्र वा अनुपातगत्या, अनुपातगतिं विहायान्यत्र न भवति, अनुपातगतिः - अनुसारगतिः, सा चैवम् - सूर्यसंवत्सरस्य सर्वे अहोरात्राः षट्षष्ट्यधिकशतत्रयसंख्यका (३६६) भवन्ति, षण्मासे च तद रात्रिन्दिवानां त्र्यशीत्यधिकशतं (१८३) भवति, त्र्यशीत्यधिकशततमे मण्डले षड् मुहूर्त्ता हानिवृद्धिवेन प्राप्यन्ते तदा तदर्धे कृते त्रयो मुहूर्त्ता हानिवृद्धित्वेन लभ्यन्ते । इतश्व त्र्यशीत्यधिकशतसंख्यकाहोरात्राणामर्ध क्रियते तदा लभ्यते सार्धा एकनवतिः (९१|| ) ततः एकनवतिसंख्यकेषु पूर्णतया समाप्तेषु सत्सु तदुपरि द्विनवतितमस्य मण्डलस्य चार्धे गते पञ्चदश मुहूर्त्ता लभ्यन्ते, अहोरात्रस्य त्रिंशन्मुहूर्तप्रमाणत्वात्, ततो मण्डलस्यार्ध कल्पनायां पञ्चदशमुहूर्त्ता दिवसः पञ्चदशमुहूर्त्ता च रात्रिर्लभ्यते। सा च मण्डलार्धकल्पना कर्त्तुं न शक्यते यतः सूर्यस्य मण्डलान्मण्डलान्तरगमनं शास्त्रसंमतं नत्वर्धमण्डलस्य विवक्षाऽपि । इयमत्र भावना - सूर्यस्य प्रत्यहोरात्रं द्वाभ्यामेकषष्टिभागाभ्यां गतिर्भवति ततः सर्वाभ्यन्तरमण्डले गते सूर्ये अष्टादशमुहूर्त्ती दिवसो भवति, द्वादशमुहूर्त्ता च रात्रिर्भवति, एवं सर्व बाह्यमण्डले गते सूर्ये अष्टादशमुहूर्त्ता रात्रिर्भवति द्वादशमुहूर्त्तश्च दिवसो भवति, तदनन्तरं सूर्यः प्रतिमण्डलमे कषष्टिभागेषु द्विभागपरिमितेन कालेन चारं चरति, एतावत्प्रमाणकालेन मण्डलात् मण्डलान्तरं गच्छति, न त्वर्धमण्डलम् एवं द्वितीयेऽहोरात्रे सर्वाभ्यन्तरमण्डलात् द्वितीयं बाह्य सम्बन्धिमण्डलं गच्छति तदा, तथा सर्व बाह्यमण्डलात् द्वितीयमाभ्यन्तरसम्बधिमण्डलं गच्छति तदा च द्वाभ्यामेकषष्टिभागाभ्यामहोरात्रस्य हानिर्वृद्धिर्वा भवति । एवं क्रमेण कृतायां योजनायां सूर्यस्य सर्वाभ्यन्तरमण्डलाद्वहिर्गमनसमये एकनवतितमे मण्डले गते सूर्ये त्रिभिरेकषष्टिभागैरधिकः पञ्चदशमुहूर्त्तो (१५ ) दिवसो भवति, अष्टपञ्चाशद्भिरेकषष्टि , ६१ ३२ भागैरधिका चतुर्दशमुहूर्त्ता (१४–६३) रात्रिर्भवति । एवं द्विनवतितमे एकेनैकषष्टिभागेनाधिकः पञ्चदशमुहूर्तो (१५-३ दिवसो भवति, 1 मण्डले गते सूर्य षष्टिसंख्य कैरेकषष्टि
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy