________________
चन्द्राप्तिप्रकाशिका टीका प्रा० १-२ सू० ५ दाक्षिणात्यार्द्धमण्डलसंस्थितिस्वरूपम् ३३ भागैरधिका चतुर्दशमुहूर्ता (१४-६०) रात्रिर्भवति, एवं सर्वबाह्यमण्डालात् सर्वाभ्यन्तरमण्डलाभिमुखगमनसमये दिवसस्य वृद्धिः, रात्रेश्च हानिः कर्तव्या । तथा च सूर्यस्य बाह्यादभ्यन्तरगमनसमये एकनवतितमे मण्डले गते सूर्य अष्टपञ्चाशद्भिरेकषष्टिभागैरधिकश्चतुर्दशमुहूत्तों (१४-१८) दिवसो भवति, रात्रिश्च त्रिभिरेकषष्टिभागैरधिका पञ्चदशमुईत (१५-६३) भवति एवं द्विनवतितमे मण्डले गते सूर्ये षष्टिसंख्यकैरेकषष्टिभागैरधिकश्चतुर्दशमुहूत्तों । दिवसो भवति, रात्रिश्च एकेनैकषष्टिभागेनाधिका पञ्चदशमुहूर्त्ता (१५ . १) भवति । एवं करणे पञ्चदशमुहूर्तो दिवसः पञ्चदशमुहूर्ता रात्रिश्च कदापि न लभ्यते । एकनवतितममण्डलादुपरि द्विनवतितमं मण्डलमधं स्थाप्यते तदा दिवसस्य रात्रेश्च पञ्चदशमुहूर्तात्मकं समानत्वं लभ्यते नान्यथा, तच्च भगवता न विवक्षितम् अतः पञ्चदशमुहूत्तों दिवसः, पञ्चदशमुहर्ता च रात्रिः परिपूर्णत्वेन कदापि न भवतीत्यवधारणीयमिति । 'पाहुडियागाहाओ' प्राभृतिका गाथाः पर्वोक्तार्थसंग्राहिका गाथाः अत्र 'भाणियवाओ' भणितव्याः वक्तव्याः । एता गाथाः साम्प्रतं कापि पुस्तके न लभ्यन्तेऽतो व्युच्छिन्ना जाता इत्यनुमीयते ॥ सू० ४ ॥
इति प्रथमस्य प्राभृतस्य प्रथमं प्राभृतमाभृतं समाप्तम् ॥१-१॥ पूर्व प्रथमस्य प्राभृतस्य प्रथमं मुहूर्त्तवृद्धयपवृद्धिप्रतिपादकं प्राभृतप्राभृतं प्रतिपादितम् ,साम्प्रतमर्द्धमण्डलसंस्थितिनिरूपकं द्वितीयं प्राभृतप्राभृतं प्रतिपादयन्नाह-'ता कहं ते अद्धमंडलसंठिई' इत्यादि ।
मूलम्-'ता कहं ते अद्धमंडलसंठिई आहितेति वदेज्जा ? तत्थ खलु इमा दुविहा अद्धमंडलसंठिई पण्णत्ता, तं जहा-दाहिणा-चेव अद्धमंडलसंठिई, उत्तरा चेव अद्धमंडलसंठिई २ । ता कहं ते दाहिणा अद्धमंडलसंठिई आहितेति वदेज्जा ? ता अयण्णं जंबुद्दीचे दीवे सव्वदीवसमुदाणं जाव परिक्खेवेणं पण्णत्ते । ता जया णं सरिए सव्वभंतरं दाहिणं अद्धमंडलसंठिई उवसंकमित्ता चारं चरइ तया णं उत्तमकट्ठपत्ते उकोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ । से निक्खममाणे सरिए णवं संवच्छरं अयमाणे पढमंसि अहोरत्तंसि दाहिणाए अंतराए भागाए तस्सादिपएसाए अभितराणंतरं उत्तरं अद्धमंडलसंठिइं उवसंकमित्ता चारं चरइ : ता जया णं सूरिए अभितराणंतरं उत्तरं अदमंडलसंठिई उक्संकमित्ता चारं चरइ तयाणं अट्ठारसमुहुत्ते दिवसे भवइ दोहिं एगटिभागमहुत्तेहिं ऊणे, दुवालसमुहुत्ता राई भवइ दोहिं एगट्ठिभागमुहुत्तेहिं अहिया ।