________________
चन्द्राप्तिप्रकाशिका टीका प्रा०१-१ सू०४ परिपूर्ण पञ्चदशमुहूर्तरात्रिन्दिवयोरभावनि० ३१
कशतत्रयसंख्यकमुहूर्त्तकषष्टिभागान् (३६.६) राइखेत्तस्स' रात्रिक्षेत्रस्य रात्रिभागस्य निव्वुड्ढित्ता' निर्वर्थ्य हापयित्वा तथा 'दिवसखेत्तस्स' दिवसक्षेत्रस्य दिवसभागस्य 'अभिवुढित्ता' अभिवर्ध्य 'चारं चरइ चारं चरति 'तया णं' तदा खलु 'उत्तमकट्ठपत्ते' उत्तमकाष्ठाप्राप्तः परमप्रकर्ष प्राप्तः अत एव 'उक्कोसए' उत्कर्षकः सर्वोत्कृष्टः ततः परमाधिक्याभावात् 'अट्ठारस मुहुत्ते' अष्टादशमुहूर्तः 'दिवसे भवई' दिवसो भवति, तथा 'जहणिया' जवन्यिका सर्वलध्वी ततः परं लघुत्वाभावात् 'दुवालसमुहुत्ता' द्वादशमुहूर्ता 'राई भवइ रात्रिर्भवति, 'एस गं' एतत् खल्- 'दोच्चे छम्मासे' द्वितीयं षण्मासं जातम् । 'एस णं' एतत् खलु 'दोच्चस्स उम्मासस्स' हि तीयस्य षण्मासस्य 'पज्जवसाणं' पर्यवसानम् अन्तिममहोरात्रमिति । साम्प्रतमुपसंहरति- इइ खलु' इत्यादि । 'इइ' इति--यस्मादेवं तस्मात् कारणात् 'खलु' निश्चितं 'तस्स' तस्य षट्पष्टयधिकशतत्रयाहोरात्रपरिमितस्य 'आइच्चसंवच्छरस्स' आदित्यसंवत्सरस्य मध्ये ‘एवं' इनि अनेन पूर्वोक्तप्रकारेण 'सई' सकृत् एकवारं 'अट्ठारसमुहुत्ते दिवसे भवई' अष्टादशमुहूर्तो दिवसो भवति, तथा ‘सई' सकृत् एकवारं 'अट्ठारसमुहुत्ता राई भवइ' अष्टादशमुहुर्ता रात्रिर्भवति । 'सई' सकृत् एकवारं 'दुवालसमुहुत्ते दिवसे भवइ' द्वादशमुहूतों दिवसो भवति सई सकृन एकवारं 'दुवालसमुहुत्ता राई भवई' द्वादशमुहूर्त्ता रात्रिर्भवति । तथा 'पदमे छम्मासे' प्रथमे षण्मासे 'अस्थि अट्टारसमुहुत्ता राई' अस्ति अष्टादशमुहूर्ता रात्रिः सर्वाभ्यन्तरमण्डलाद्वाह्यमण्डलं प्राप्ते सूर्ये रात्रेर्वृद्धिसद्भावात् , सा च प्रथमषण्मासस्य अन्तिमेऽहोरात्रे भवति किन्तु 'नत्थि अट्ठारस मुहुत्ते दिवसे भवइ' नत्वष्टादशमुहुर्तो दिवसो भवति तदा दिवसस्य हानिसद्भावात् । तथा तस्मिन्नेव षण्मासे 'अस्थि दुवालसमुहुत्ते दिवसे' अस्ति द्वादशमुहुत्तों दिवसः, स च प्रथमषण्मासस्य अन्तिमेऽहोरात्रे भवति, किन्तु 'नत्थि दुवालसमुहुत्ता राई भवई' न तु द्वादशमुहर्ता रात्रिर्भवति । एवम्-'दोच्चे छम्मासे' द्वितीयस्मिन् षण्मासे सूर्यस्य पुनः सर्वबाह्य मण्डलात सर्वाभ्यन्तामण्डलं प्रति गमनलक्षणे 'अस्थि अट्ठारमुहुत्ते दिवसे' अस्ति अष्टादशमुहुत्तों दिवसः सदा दिवसस्य वृद्धिसद्भावात् , किन्तु 'णथि अट्ठारसमुहुत्ता राई भवई' न त्वष्टादश मुहुर्ता रात्रिर्भवति तदा रात्रैर्वृद्ध्यसद्भावात् । तथा 'अस्थि दुवालसमुहुत्ता राई' अस्ति द्वादश मुहूर्ता रात्रिः तदा रात्रेानिसद्भावात् , किन्तु 'नस्थि दुवालसमुहुत्ते दिवसे भवई' न तु द्वादश मुहूर्तो देवसो भवति तदा दिवसस्य हान्यसद्भावात् । तथा 'पढमे वा छम्मासे दोच्चे वा छम्मासे' प्रथमे वा षण्मासे द्वितीये वा षण्मासे प्रथमद्वितीयरूपोभयोरपि षण्मासयोः 'णत्थि पण्णरसमुहुत्ते दिवसे' नास्ति पञ्चदशमुहूर्तो दिवसः, एवमेव ‘णत्थि पण्णरसमुहुत्ता राई भवइ' नैव पश्चदशमुहूर्ता रात्रिभवति, ‘णणत्थ' नान्यत्र 'राईदियाणं वड्दोवड्ढीए' रात्रिन्दिवानां