SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ ५०० चन्द्रप्रज्ञप्तिसूत्रे दियसयाई त्रीणि त्र्यशीतानि त्र्यशीत्यधिकानित्रीणि रत्रिन्दिवशतानि, 'एक्कवीसं च मुहुत्ता' एक विंशतिश्च मुहूर्ताः, 'अद्वारसबावद्विभागा' अष्टादशद्वाषष्टिभागाः 'मुहुत्तस्स' एकस्य मुहूर्तस्य ( रा. : ) 'राइंदियग्गेणं' रात्रिन्दिवाग्रेण रात्रिन्दिवपरिमाणेन 'आहिए' आख्यातः । ३८३।२१६२ 'तिवएज्जा' इति वदेत् स्वशिष्येभ्यः । तथाहि-अभिवर्द्धितमासस्य परिमाणं (३१।२९।७) संवत्सरस्य द्वादशसौरमासात्मकत्वाद् द्वादशभिर्गुण्यते, तत्र प्रथममेकत्रिंशदहोरात्र द्वादशभिर्गुण्यन्ते जातानि द्विसप्तत्यधिकानि त्रीणि शतानि (३७२) अहोरात्राणाम्, तत एकोनत्रिंशन्मुहूर्ता द्वादशभिर्गुण्यन्ते, जातानि अष्टचत्वारिंशदधिकानि त्रीणि शतानि (३४८) मुहूत्त नाम्, तत एकस्याहोरात्रस्य त्रिंशन्मुहूर्तात्मकत्वा दहोरात्रानयनार्थमेषां त्रिंशता भागो हियते, लब्धा एकादश अहोरात्राः एते पूर्वोक्तायाम् (३७२) अहोरात्रसंख्यायां प्रक्षिप्यन्ते जातं त्र्यशीत्यधिकं शतत्रयमहोरात्राणाम् (३८३), पूर्व त्रिंशता भागे हृते शेषाः स्थिता अष्टादश मुहूर्ताः, अथ च मे सप्तदश द्वाषष्टिभागा मुहूर्तस्य, तेऽपि द्वादशभिर्गुण्यते, जाते चतुरुत्तरे द्वे शते (२०४), एतस्य राशे षिष्टया भागो हरणीयः, हृते च भागे लन्धास्त्रयो मुहूर्ताः, ते प्राक्तनेषु शेषत्वेन स्थितेषु अष्टादशसु प्रक्षिप्यन्ते, तेन जाता एकविंशतिर्मुहूर्ताः (२१), द्वाषष्टया भागे हृते ये शेषा अष्टादश ते (१८) एकस्य मुहूर्तस्य द्वाषष्टिभागाः सन्ति, तत आगता यथोक्ता (३८३।२१।१८) सभिवद्धितसंवत्सरस्य रात्रिन्दिवानां संख्येति । अथास्य मुहूर्तान् पृच्छति 'ता से णं' इत्यादि 'ना' तावत् 'सेणं' स खलु अभिर्द्धितसंवत्सरः 'केवइए' कियत्कः कियत्परिमितः 'मुहुत्तग्गेणं' मुहूर्ताग्रेण मुहूर्तपरिमाणेन 'आहिए' आख्यातः । 'तिवएज्जा इति वदेत् वदतु हे भगवन् : । भगवानाह-'ता एक्कारस' इत्यादि, 'ता' तावत् 'एक्कारस मुहुत्तसहस्साई' एकादश मुहूर्त सहस्राणि, 'पंच य एक्कारसाइं मुहुत्तसयाई' पञ्च च एकादशानि एकादशाधिकानि पञ्च मुहर्तशतानि, 'अट्ठारसबावद्विभागा' अष्टादश द्वाषष्टि भागाः 'मुहुत्तस्स' एकस्य मुहूर्तस्य(११५१११८) 'मुंहुत्तग्गेणं' मुहूर्ताग्रेण 'आहिए' आख्यातः कथितः ‘तिवएज्जा' इति वदेत् स्वामध्येभ्यः । तथाहि-अभिवतिसंवत्सरस्याहोरात्रादिपरिमाणम् (३८३।२१।१८) एकस्याहोरात्रस्य त्रिंश ६२ न्मुहूर्तात्मकत्वात् त्र्यशीत्यधिकं शतत्रयं त्रिंशता गुण्यते गुणयित्वा चोपरितना एकविंशति मुहूर्ता स्तत्र प्रक्षिप्यन्ते, ततो जायते यथोक्ता (११५१११६) मुहूर्त्तसंख्येति ॥ सूत्रम् १ ॥
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy