SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ ४९८ चन्द्रप्रज्ञप्तिसूत्रे स खलु आदित्यः संवत्सरः 'केवइए' कियत्कः कियत्परिमितः 'मुहुत्तग्गेणं' मुहूर्ताग्रेण मुहूर्त परिमाणेन 'आहिए' आख्यातः कथितः एकस्यादित्यसंवत्सरस्य कति मुहूर्ता भवन्ति ? 'ति वएज्जा' इति वदेत् वदतु कथयतु हे भगवान् ? भगवानाह 'ता दस' इत्यादि, 'ता' तावत् 'दसमुहुत्तसहस्साई' दशमुहूर्तसहस्राणि 'नवअसीयाइं मुहुत्तसयाई' नव अशीतानि अशीत्यधिकानि नव मुहूर्तशतानि (१०९८०) 'मुहुत्तग्गेणं' मुहूर्ताग्रेण मुहूर्तपरिमाणेन 'आहिए' अख्यातः कथित: 'तिवएज्जा' इति वदेत् कथयतु स्वशिष्येभ्यः । तथाहि- एकस्यादित्यमासस्य पञ्चदशाधिकानि नवमुहूर्तशतानि (९१५) भवन्ति एकस्यादित्यसंवत्सर स्य द्वादश मासा भवन्तीति पञ्चदशाधिकनवशतमुहूर्ता द्वादशभिर्गुण्यन्ते जाता यथोक्ता मुहूर्त्तसंख्येति ।४। अथ पञ्चमाभिवतिसंवत्सरविषये प्राह-'ता एएसिणं इत्यादि, 'ता' तावत् 'एएमिणं' एतेषां खलु नाक्षत्रादीनां 'पंचण्हं संवच्छराणं' पञ्चानां संवत्सराणां मध्ये पंचमस्स अभिवढियसंवच्छरस्स' पञ्चमस्याभिवर्द्धितसंवत्सरस्य 'अभिवढिए मासे' अभिवड़ितो मासः 'तीसइतीसइ मुहुत्तेणं' त्रिंशत्रिंशन्मुहूर्त्तकेन 'गणिज्जमाणे' गण्यमानः 'केवइए' कियत्कः कियत्परिमितः 'राइंदियग्गेणं' रात्रिन्दिवाग्रेण रात्रिन्दिवपरिमाणेन 'आहिए' आख्यातः कथित: 'तिवएज्जा' इति वदेत् वदतु हे भगवन् । भगवानाह-'ता एक्कतीसं राइंदियाई' एकत्रिंशदात्रिन्दिवानि, 'एगूणतीसं च मुहुत्ता' एकोनत्रिंशच्च मुहूर्ताः, 'मुहुत्तस्स' एकस्य मुहूर्तस्य 'सत्तरसबावट्ठिभागा' सप्तदश द्वाषष्टि भागाः (एम.१७) 'राइंदिग्गेणं' रात्रेन्दिवाग्रेण ३१२९६२ रात्रिन्दिवपरिमाणेन 'आहिए' आख्यातः कथितः 'ति वएज्जा' इति वदेत् स्वशिष्येभ्यः । तथाहिअभिवर्द्धितसंवत्सरश्च त्रयोदशभिश्चान्द्रमासैभवति, चान्द्रमासपरिमाणम् एकोनत्रिंशद् रात्रिद्विवानि एकस्य च रात्रिद्भिवस्य द्वात्रिंशद् द्वाषष्टिभागा (२९) एष राशिरभिवतिसंवत्सरस्य त्रयोदशमासात्मकत्वात् त्रयोदश भिर्गुण्यते, ततो यथासंभवं द्वाषष्टिभागै रात्रिन्दिवेषु जातेषु जातमिदम त्र्यशीत्यधिकानि त्रीण्यहोरात्रशतानि, एकस्याहोरात्रस्य च चतुश्चत्वारिंशद् द्वाषष्टिभागः (३८३। 82) अभिवर्द्धितसंवत्सरपरिमाणम्। तत एतस्य राशे दशभिर्भागो हियते, तत्र प्रथमं त्र्यशोत्य धिकत्रिंशताहोरात्राणां द्वादशभिर्भागो हियते लब्धा एकत्रिंशदहोरात्राः (३१), शेषा स्तिष्ठन्तिएकादश, ते च मुहूर्तानयनार्थं त्रिंशता गुण्यन्ते जातानि त्रिंशदधिकानि त्रीणि शतानि (३३०) येऽपिचोपरितनाश्चत्वारिंशद् द्वाषष्टि भागा रात्रिन्दिवस्य, तेऽपि मुहूर्तानयनाथ त्रिंशता गुण्यन्ते, जातानि विंशत्यधिकानि त्रयोदश शतानि (१३२०) एषां द्वाषष्टया भागो हियते, लब्धा एकविंशति
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy