SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ ४९६ चन्द्र प्रज्ञप्तिसूत्रे 'गणिमाणे' गण्यमानः 'केवइए' कियत्कः कियत्परिमितः 'राईदियग्गेणं' रात्रिदिवाग्रेण रात्रिन्दिवपरिमाणेन. 'आहिए' अख्यातः 'ता तीस' इत्यादि ' ता तावत् 'ती' त्रिंशत् 'राई दियाणं' रात्रिन्दिवानां 'राईदियग्गेणं रात्रिन्दिवाग्रेण रात्रिन्दिवपरिमाणेन 'आहिए' आख्यातः त्रिंशद्वात्रिन्दिवप्रमाणो ऋतुमासो भवतीति कथितः । 'तिवएज्जा' इति वदेत् स्वशिष्येभ्न इति । तथाहि ऋतु मासा युगे एकषष्टि र्भवन्ति ततो युगगतानां त्रिंशदधिकाष्टादशतानाम् अहोरात्राणाम् ( १८३० ) एकषष्ट्या भागो हियते, लब्धास्त्रिंशदहोरात्रा यथोक्ता इति । अथ ऋतुमासस्य मुहूर्त्तसंख्यां पृच्छति 'ता से णं' इत्याति, 'ता' तावत् 'से णं' स खलु ऋतुमासः ‘केवइए' कियत्कः कियत्परिमितः 'मुहुत्तग्गेणं' मुहूर्त्ताग्रेण मुहूर्त्तपरिमाणेन 'आहिए' आख्यातः कथितः 'ति वएज्जा' इति वदेत् वदतु हे भगवान् - ' ता णव' इत्यादि 'ता' तावत् 'णव मुहुत्तसयाई' नवमुहूर्त्तशतानि 'मुहुत्तग्गेण' मुहूर्त्ताग्रेण 'आहिए' आख्यातः कथितः 'ति वएज्जा' इति वदेत् स्वशिष्याय । तथाहि - त्रिंशन्मुहूर्त्तात्मकं रात्रिद्भिवम्, त्रिंशद्वात्रिन्दिवात्मकच ऋतुमास इति त्रिंशत् त्रिंशता गुण्यते जातानि यथोक्तानि नव मुहूर्त्तशतानीति । 'ता' तावत् 'एस णं' एषा खलु 'अद्धा' अद्धा त्रिंशद्वात्रिन्दिवात्मकः नवरात मुहूर्त्तात्मकश्च काल: 'दुवालस खुत्तकडा' द्वादशकृत्वः कृता द्वादशभिर्गुणिता 'उ उसवच्छरे' आर्त्तवः ऋतु सम्बन्धी संवत्सरो भवतीति । अथास्य ऋतु संवत्सरस्य रात्रिन्दिवपरिमाणं पृच्छति - 'ता से णं' इत्यादि. 'ता' तंवत् 'से णं' स खछु ऋतुसंवत्सरः 'केवइए' कियत्कः 'राईदियग्गेणं' रात्रिद्विवाग्रेण रात्रिन्दिपरिमाणेन 'आहिए' आख्यातः ऋतुसंवत्सरस्य कति रात्रिन्दिवानि कथितानि : 'ति एज्जा' इति वदेत् वदतु । भगवानाह - 'ता तिष्णि' इत्यादि, 'ता' तावत् 'तिणि सहाई राईदियसयाई' त्रीणि षष्टानि षष्ट्यधिकानि रत्रिन्दिवशतानि ( ३६० ) 'राईदियग्गेणं' रत्रि दवाग्रेण 'आहिए' आख्यातः 'तिवएज्जा' इति वदेत् स्वशिष्येभ्यः । तथाहि - एकस्मिन् ऋतुमासे त्रिंशद् रात्रिन्दिवानि ते च मासा एकस्मिन् ऋतुसंवत्सरे द्वादशेति त्रिंशतो द्वादशभिर्गुणने भवन्ति यथोक्तानि षष्ट्यधिकानि त्रीणि शतानि रात्रिन्दिवानीति । अथास्य मुहूर्त्तसंख्यां पृच्छनि- 'ता सेणं' इत्यादिना, 'ता' तावत् 'से णं' स खलु ऋतुसंवत्सरः 'केवइए' कियत्कः कियत्परिमितः 'मुहुत्तग्गेणं' आख्यातः कथितः एकस्य ऋतुसंवत्सरस्य कति मुहूर्त्ता भवन्ति ? 'ति वएज्जा' इति बंदेत् वदतु-हे भगवान् ! भगवानाह 'ता दस' इत्यादि 'ता' तावत् 'दसमुहुत्तसहस्साई' दशमुहूर्त्त सहस्त्राणि 'अट्ठय सयाई' अष्ट च शतानि (१०८००) 'मुहुत्तग्गेणं' मुहूर्त्ताग्रेण 'आहिए' आख्यातः कथितः 'ति वएज्जा' इति वदेत् स्वशिष्येभ्यः । तथाहि - एकस्य ऋतुमासस्य नवमुनेशतानि - भवन्तीति तानि द्वादशभिर्मासै गुणने भवति यथोक्ता संख्येति ३ । अथ चतुर्थादित्यसंवत्सरविषये प्रश्ननिर्वचनसूत्राण्याह- 'ता एए सि णं' इत्यादि, 'ता' तावत् 'एएसि णं' एतेषां नाक्षत्रादीनां खलु 'पंचण्डं संवच्छराणं' पञ्चानां संवत्सराणां मध्ये 'चड़त्थस्स' चतुर्थस्य 'आइच्च संवच्छ
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy