SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ चन्द्र क्षप्तिप्रकाशिकाटीका प्रा. १२ सु. १. ६२ नक्षत्रादिसंवत्सर संख्यादिकम् ४९५ कोनत्रिंशदहोरात्रान् द्वाषष्ट्या गुणयित्वा उपरितना द्वात्रिंशद्वाषष्टिभागास्तेषु प्रक्षेपणीयाः, जातानि त्रिंशदधिकानि अष्टादशशतानि (१८३०) तत एतानि - त्रिंशता गुण्यन्ते, जातानि - चतु' पञ्चाशत् सहस्राणि तदुपरि नव च शतानि मुहूर्त्तगत द्वाषष्टिभागाः ( ५४९००) तत एते द्वाषष्ट्या भागे हृते लब्धानि यथोक्तानि अष्टौ शतानि पञ्चाशीत्यधिकानि मुहूर्तानाम्, एकस्य च मुहर्त्तस्य त्रिशद द्वाषष्टि भागाः (८८५ ३०) इत्येतत्परिमिता द्वितीयचन्द्रमासस्य मुहूर्तसंख्या भवतीति सिद्धम् । अथास्य चान्द्र संवत्सरस्य कालमानमाह - ' ता एस णं' इत्यादि, 'ता' तावत् 'एसणं' एषा खलु 'अद्धा' अद्धा चान्द्रमासकालरूपा 'दुवालस खुत्तकडा' द्वादशकृत्वः द्वादशवारैः कृता 'चंदे संवच्छ रे' एकश्चान्द्रः संवत्सरो । अस्य रात्रिन्दिवानि पृच्छति 'ता से णं' तावत् स खलु चान्द्रः संवत्सरः 'केवइए' कियत्कः कि यत्प रेमितः 'राईदियग्गेणं' रात्रिन्दिवा ग्रेण 'आहिए' आख्यातः कथितः ! 'ति वएज्जा' इति वदेत् वदतु । भगवानाह - 'ता तिन्नि' इत्यादि 'ता' तावत् 'तिन्नि उपपन्ना राईदियसयाई' त्रीणि चतुष्पञ्चाशानि चतुष्पञ्चाशदधिकानि रात्रिन्दिवशतानि 'राईदियस्स' एकस्य रात्रिन्दिवस्य 'दुवालसय' द्वादश च ' बवडिभागा' द्वाषष्टिभागाः (३०४ १२) 'राइदियग्गेणं' रात्रिन्दिवाग्रेण रात्रिन्दिवपरिमाणेन 'आहिए' अख्यातः कथितः ६२ 'ति एज्जा' इति वदेत् स्वशिष्येभ्य । चन्द्रमासस्य रात्रिन्दिवपरिमाणं द्वादशभिर्गुणितं यथोकं चन्द्रसंवत्सररात्रिन्दिवपरिमाणं भवतीति भावः । अथास्य मुहूर्त्त संख्यां पृच्छति - ता से इत्यदि, 'ता' तावत् ' से णं' स खलु चन्द्रसंवत्सरः 'केवइए' कियत्कः कियत्परिमितः 'मुहृत्तग्गेणं' मुहूर्त्ताग्रेण मुहूर्त्तपरिमाणेन 'आहिए' आख्यातः ? 'तिवएज्जा' इतिवदेत् वदत् । भगवानाह - 'ता दस' इत्यादि, 'ता' तावत् 'दसमुहुत्तसहस्साई' दशमुहूर्त्तस्राणि 'पणवीसं च मुहुत्तसयं' पञ्चविंशत्यधिकं मुहूर्त्तशतम् ' मुहुत्तस्स' एकस्य मुहूर्तस्य 'पण्णासं च वावट्ठिभागा' पञ्चाशच्च द्वाषष्टिभागाः ( १०१२५५९) 'मुहुत्तग्गेणं' मुहूर्त्ता ६२ ग्रेण मुहूर्त्त परिमाणेन 'आहिए' आख्यातः कथितः 'तिवएज्जा' इतिवदेत् कथयेत् स्वशिष्येभ्यः । अत्र चन्द्रमासमुहूर्त्तपरिमाणं द्वादशभिर्गुणितं यथोक्तं चान्द्र संवत्सरमुहूर्त्तपरिमाणं भवतीति २ । अथ तृतीयस्य ऋतु संवत्सरस्य विषये प्रश्ननिर्वचनसूत्राण्याह 'ता एएसिणं' इत्यादि 'ता' तावत् 'एएस' एतेषां नक्षत्रादीनां खलु 'पचन्हं संवच्छरणं' पच्चानां संवत्सराणां मध्ये ‘तच्चस्स' तृतीयस्य 'उउसंवच्छरस्स' ऋतुसंवत्सरस्य 'उऊमासे' आर्त्तवः ऋतु सम्बन्धी मासः 'तीस तीस मुडुत्तेणं' त्रिंशत् त्रिंशन्मुहूर्तकेन 'राईदिएणं' रात्रिन्दिवेन
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy