SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ ६७ चन्द्राप्ति काशिकाटीका प्रा.१२ सू. १ नक्षत्रादिसंवत्सरसंख्यादिकम् ४९३ मुहूर्ता इत्यर्थः 'आहिए' आख्यातः कथितः ‘ति वएज्जा' इति वदेत् कथयतु हे भगवन् ! । भगवानाह-'ता अट्ठसयाई' इत्यादि, 'ता' तावत् 'अट्ठसयाई' अष्टशतानि 'एगूणवीसाई' एकोन विंशानि एकोनविंशत्यधिकानि 'मुहुत्ताणं' मुहूर्तानाम्, एकोन विंशत्यधिकाष्टशतमुहूर्ताः, 'मुहुत्तस्स' एकस्य च मुहूर्त्तस्य ‘सत्तावीसं च सहिभागा' सप्तविंशतिश्च सप्तषष्टिभागाः (८१९२७) 'मुहुत्तग्गेणं' मूहूर्ताग्रेण मुहूर्तपरिमाणेन नक्षत्रमा सः 'आहिए' आख्यातः कथितः 'ति वएज्जा' इति वदेत् वदतु स्वशिष्येभ्य इति । तथाहि-नक्षत्रमासपरिमाणं सप्तविंशतिरहोरात्राः, एकस्य चाहोरात्रस्य एकविंशतिः सप्तषष्टि भागाः (२७२१) इति पूर्व प्रदर्शितम् तत एते सप्तविंशतिरहोरात्राः सवर्णनार्थ सप्तषष्टया गुण्यन्ते, जातानि नवाधिकानि अष्टादशशतानि (१८०९), एषु चोपरितना एकविंशति सप्तषष्टिभागाः प्रक्षिप्यन्ते, जातानि त्रिंशदधिकानि अष्टादशशतानि (१८३०) सप्तपष्टिभागाः, एते मुहूर्तानयनाथै त्रिंशता गुण्यन्ते जाताः चतुष्पञ्चाशत्सहस्राणि नवशतानि (५४९००) मुहूर्तगतसप्तषष्टिभागाः, तत एतेषां सध्तषष्टया भागे हृतेलब्धानि-एकोनविंशत्यधिकानि अष्टौ शतानि मुहूर्तानाम्, एकस्य च मुहूर्तस्य सप्तविंशतिः सप्तषष्ठि १) सूत्रोक्ता लभ्यन्ते इति । 'ता' तावत् ‘एस णं' एषा खलु 'अद्धा' अद्धा भागाः काल एव 'दुवालसखुत्तकडा' द्वादश कृत्वः कृता अत्र संवत्सरमासानां द्वादशात्मकत्वाद् द्वादशवारं कृता सती अद्धा 'णक्खत्ते संवच्छरे' एको नाक्षत्रः संवत्सरो भवति । अस्य रात्रिन्दिवानि पृच्छति-'ता से णं' इत्यादि, 'ता' तावत् ‘से णं' स खलु नक्षत्रसंवत्सरः 'केवइए' कियत्कः कियत्परिमितः 'राइंदियग्गेणं' रात्रिन्दिवाग्रेण रात्रिन्दिवपरिमाणेन अस्य नक्षत्रसंवत्सरस्य कियन्तिरात्रिन्दिवानि भवन्तीत्यर्थः 'आहिए' आख्यातः 'तिवएज्जा' इति वदेत् वदतु । भगवानाहता 'तिणि सत्तावीसाइ राइंदियसयाई' त्रीणि सप्तविंशानि सप्तविंशत्यधिकानि रात्रिन्दिवश तानि, 'एक्कावन्नं च सत्तट्ठिभागा' एक पञ्चाशञ्च सप्तपष्टि भागाः (३२७८) 'राईदियस्स' एकस्य रात्रिन्दिवस्य, 'राइंदियग्गेणं' रात्रिन्दिवाग्रेण 'आहिए' आख्यातः 'तिवएज्जा' इति वदेत् । अत्र नक्षत्रमासरात्रिन्दिवपरिमाणं द्वादशभिर्गुणितं यथोक्तम् (३२७-१) नक्षत्रमासस्य रात्रिन्दिवानां परिमाणं भवतीति । अथास्य मुहूर्तसंख्यां पृच्छति-'ता से णं' इत्यादि, 'ता' तावत् से णं' सः नक्षत्रसंवत्सरः खलु 'केवइए' कियत्कः कियत्परिमितः 'मुहुत्तग्गेणं' मुहूर्ताग्रेण मुहूर्तपरिमा
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy