________________
चन्द्रज्ञप्तिसूत्रे
मुहूर्त्ताग्रेण आख्यातः ? इति वदेत् तावत् एकादश मुहूर्त्तसहस्राणि पञ्चपकादशानि मुह शतानि, अष्टादश च द्वाषष्टिभागा मुहूर्त्ताग्रेण आख्यात इति वदेत् ॥ १ ॥
४९२
>
यतु
व्याख्या – गौतमः पृच्छति - 'ता कइ णं संवच्छरा' इति, 'ता' तावत् 'कइ णं' क ते कियत्संख्यकाः खलु 'संवच्छरा' संवत्सराः, 'आहिया' आख्याताः 'ति व एज्जा' इति वदेत् वक्तु कथहे भगवन् ? गौतमेन एवं पृष्टे भगवानाह - 'तत्थ खलु' इत्यादि, 'तत्थ खलु' तत्र संवत्नरविषये खलु ‘इमे' इमे-वक्ष्यमाणाः 'पंच संवच्छरा पण्णत्ता' पञ्च संवत्सराः प्रज्ञप्ता, तद्यथा- 'णक्खत्ते नाक्षत्र: नक्षत्रचारसम्बन्धी 'संवच्छ रे' संवत्सरः प्रथमः १, 'चंदे' चान्द्रः चन्द्रचारसम्बन्धी 'संवच्छ रे' संवत्सरो द्वितीयः २, ‘उऊ’ आत्तवः ऋतु सम्बन्धी ऋतुजन्यः 'संवच्छरे' संवत्सरस्तृतीयः ३ 'आइच्चे' आदित्यः-आदित्यचारजन्यः 'संवच्छ रे' संवत्सरश्चतुर्थः ४, 'अभिवइढिए' अभिवतः यत्र संवत्सरेऽधिको मासः स तादृशः अभिवर्द्धितः 'संवच्छ रे' संवत्सरः पञ्चमः एते पञ्च संवत्सरा आख्याता इति । तत्र पञ्चानामपि संवत्सराणां मास मुहूर्त्तादिकमाह - ' ता एएसिणं' : त्यादि, 'ता' तावत् 'एएसि णं' एतेषां नाक्षत्रादीनां 'पंच' पश्चानां 'संवच्छरणं' संवत्सराणां मध्ये 'पढमस्स' प्रथमस्य 'णक्खत्त संवच्छरस्स' नाक्षत्र संवत्सरस्य संबंधो यो 'णक्खत्ते मासे' नाक्षत्री मासः 'तीसइ तीसइ मुहुत्तेणं' त्रिंशत् त्रिंशन्मुहूर्त्तकेन त्रिंशत् त्रिंशन्मुहूर्त्तात्मकेन 'अहोरत्तेणं' अहोरात्रेण रात्रिन्दिवेन अहोरात्रस्य सर्वदा त्रिंशन्मुहूर्त्तात्मकत्वात् 'गणिज्जमाणे' गण्यमानः नक्षत्रमासः 'has' कियत्कः कियत्संख्यकाहोरात्रकः कियदहोरात्रवान् एकस्मिन् नक्षत्रमासे कियन्तोऽहोरात्रा इत्यर्थः 'राईदियग्गेणं' रात्रिन्दिवाग्रेण रात्रिन्दिवपरिमाणेन अहोरात्रप्रमाणेन 'आहिए' आख्यातः ? 'तिवएज्जा' इति एतत्परिमाणं वदेत् वदतु कथयतु हे भगवन् ? । एवं गौतमेन पृष्टे तत्प्रमाणं भगवानाह - 'ता सत्तावीसं' इत्यादि, 'ता' तावत् 'सत्तावीस राईदियाई' सप्तविंशतिः रात्रि-दवानि 'राईदियस्स' एकस्य रात्रिन्दिवस्य 'एकवीसं च सत्तद्विभागा' ऐकविंशतिश्च सप्तर्षाणिभागाः (२७- २१) 'राईदियग्गेणं' रात्रिन्दिवाग्रेण अहोरात्रपरिमाणेन 'आहिए' आख्यातः कथितो
६७
नक्षत्रमासः, 'तिवएज्जा' इति एवं वदतु कथयतु हे गौतम ! स्वशिष्येभ्यः इति । अथ नक्षत्रमासस्य रात्रिन्दिवपरिमाणे गणितं प्रदर्श्यते युगे हि नक्षत्रमासाः सप्तषष्टिरिति पूर्वं प्रदर्शितभेव । युगे चाहोरात्राः – त्रिंशदधिकानि अष्टादशशतानि (१८३०) तत एषां युगगत नक्षत्रमासरांख्यया सप्तषष्ट्या भागो हियते, लब्धाः सप्तविंशतिरहोरात्राः एकस्य चाहोरात्रस्य एकविंशति सप्तषष्टि भागाः (२७ २१) सूत्रोक्ता आगता इति । अथ नक्षत्रमासस्य मुहूर्तपरिमाणं पृच्छति—
६७
'ता सेणं' इत्यादि, 'ता' तावत् 'से णं' स खलु नक्षत्रमासः 'केवइए' कियत्कः कियत्परिमितः 'मुहुत्तग्गेणं' मुहूर्त्ताग्रेण मुहूर्तपरिमाणेन, एकस्य नक्षत्र मासस्य क्रियन्तो