SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ चन्द्रशतिप्रकाशिका टीका प्रा. ११ सू. १ संवत्सराणामादिस्वरूपनिरूपणम् ४८७ 'उत्तराणं आसाढाणं' उत्तराणामाषाढानां उत्तराषाढा नक्षत्रस्य ' चरमसमए' चरमसमये अन्तिम भागे चन्द्र उत्तराषाढा नक्षत्रेण सह योगं युनक्ति । अस्य गणितप्रकारः - प्रदर्श्यते पञ्चमाभिवर्द्धित संवत्सरपर्यवसानं द्वाषष्टितमपौर्णमासीभिर्भवतीति स एव ध्रुवराशि: ( ६६ | ५ | १) द्वाषष्ट्या गुण्यते, जातानि द्विनवत्यधिकानि चत्वारिंशन्मुहूर्तशतानि, एकस्य च मुहूर्तस्य दशोत्तराणि षष्टिभागाः, एकस्य च द्वाषष्टिभागस्य द्वाषष्टिः सप्तषष्टिभागाः (४०९२ । ३१०/६२।, तत एतस्मादाशेः 'अट्ठसय उगुणवीसा सोहणगं उत्तराणसाढाणं । चउवीसं खल भागा, छावट्टी णियाओ ||१||" इति वचनात् एकोनविंशत्यधिकानि अष्टमुहूर्त्तशतानि एकस्य मुहूर्त्तस्य चतुर्विंशति द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य षट्षष्टिश् चूर्णिका भागाः ( ८१९ । २४।६६ ) इत्येतत्परिमितं सकलनक्षत्रपर्यायपरिमाणमत्र पञ्चभिर्गुण्यते, जातानि पञ्चनवत्यधिकानि चत्वारिंशच्छतानि विंशत्युत्तरं शतं द्वाषष्टिभागाः, त्रिंशदुत्तराणि त्रीणि शतानि सप्तषष्टिभागाः ( ४९५ । १२० । : ३०) एष राशिः शोध्यते, द्वयोः राश्योर्मुहूर्त्तादिकं कृत्वा पूर्वोक्तप्रकारेण शोधने जायते परिपूर्णो राशिः न किञ्चित्तत्पश्चादवतिष्ठते तत आयाति - उत्तराषाढा नक्षत्रचन्द्र योगस्य चरमसमये द्वाषष्टितमपौर्णमासी परिसमाप्तिकाले पञ्चमाभिवर्द्धितसंवत्सरेस्य पर्यवसानं भवतीति । अथ सूर्य नक्षत्रयोगमाह - 'तं समयं च णं' इत्यादि, 'तं समयं च णं' तस्मिन् उत्तराषाढा नक्षत्र चरम स्मयचन्द्रयोगरूपे समये च खल्ल 'सुरिए' सूर्यः 'केणं णक्खत्तेणं' केन नक्षत्रेण सह 'जोयं जोएइ' योगं युनक्ति ? भगवानाह - ' ता पुस्सेणं' इत्यादि, 'ता' तावत् पुस्सेणं' पुष्येण सह य गं युनक्ति । अस्य मुहूर्त्तादिकमाह - ' पुस्सस्स णं इत्यादि, 'पुस्सस्स णं' पुष्यस्य पुष्य नक्षत्रस्य खलु 'एगूणवीसं मुहुत्ता' एकोनविंशतिर्मुहूर्त्ताः 'मुहुत्तस्स' एकस्य मुहूर्त्तस्य च ' तेयालीसं च ट्टिभागा' त्रिचत्वारिंशच्च द्वाषष्टिभागाः, 'बावद्विभागं च सत्तट्ठिहा छित्ता' द्वाषष्टिभागं च सप्तषष्टिधा छित्त्वा 'तेत्तीस चुण्णिया भागा' त्रयस्त्रिंशत् चूर्णिकाभागाः सप्तषष्टिभागाः (१९।४३ ३३) 'सेसा' शेषाः अवशिष्टास्तिष्ठेयुस्तदा सूर्यः पुष्यनक्षत्रेण सह योगं युक्तीति । एतदेव गणितेन प्रदर्श्यते-अत्रापि स एव ध्रुवराशि : ( ६६ | ५|१) द्वाषष्ट्या गुण्यते, जातानि द्विनवत्यधिकनि चत्वारिंशन्मुहूर्त्तशतानि, एकस्य च मुहूर्त्तस्य दशोत्तराणि त्रीणि शतानि द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य द्वाषष्टिः सप्तषष्टिभागाः (४०९२ । ३१०।६२) । अत्र च पाश्चात्ययुगस्य परिसमाप्तिः पुष्यस्य दशसु मुहूर्त्तेषु, एकस्य च मुहूर्त्तस्याष्टादशसु द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य चतुस्त्रिंशति सप्तषष्टिभागेषु (१०।१८। ३४) अतिक्रान्तेषु भवति, तदनन्तरमन्यद् वर्तमान युगं प्रवर्त्तते, तत एतदपि युगं भूयोऽपि पुष्यस्य तावन्मात्रेष्वेव मुहूर्त्तादिष्वतिक्रान्तेषु परिसमाप्तिमेनि तत एतावत्प्रमाण एकः परिपूर्णो नक्षत्रपर्यायो भवति स च - एकोनविंशत्यधिकानि अष्टौ मुहूर्त्त - शतानि एकस्य च मुहूर्त्तस्य चतुर्विंशति द्वषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य षट्षष्टिः सप्त
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy