SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ ४८८ चन्द्रप्राप्तिसूत्रे षष्टिभागाः (८१९।२४।६६) एतोवत्परिमित एकः सकलनक्षत्रपर्यायो भवतीति पूर्वमपि च प्रद र्शितः। तत एष सकलनक्षत्रपर्यायः पञ्चभिर्गुणयित्वा प्रागुतात् द्वाषष्टि गुणिताद् ध्रुवराशेः शोध्यते तथाहि-पञ्चभिर्गुणितः सकलनक्षत्रपर्यायो जायते-पञ्चनवत्यधिकानि चत्वारिंशन्मुहर्त्तशतानि, एकस्य मुहूर्तस्य दशोत्तरमेकं शतं द्वाषष्टिभागानाम् एकस्य द्वाषष्टिभागस्य त्रिंशदधिकानि त्रीणि शतानि सप्तषष्टिभागाः (४०९।११०।३३०)। एष राशिः पूर्वप्रदर्शितात् द्वाषष्टिगुणिताद् ध्रुवराशेः (४०९२।३१०६२) पूर्वोक्तेन शोधनकप्रकरेण शोध्यते च परिपूर्ण शुद्धयति, न किञ्चित्पश्चादवतिष्ठते स राशिनिलेपो जायते, तत अगतम्-पुष्यस्य दशसु मुहूर्तेषु, एकस्य मुहूर्तस्य चाष्टा दशसु द्वाषष्टिभागेषु, एकस्य द्वाषष्टिभागस्य त्रयस्त्रिंशति सप्तषष्टिभागेषु (१९।४३॥३३) पुण्यस्य त्रिंशन्मुहूर्तात्मकत्वा देतावत्सु शेषेषु द्वाषष्टितम पौर्णमासी परिसमाप्तिसमये वर्तमान युग परिसमाप्ति समये च सूर्यः पुष्यनक्षत्रेण सह योगं युनक्तीति “ता कहं ते संवच्छराण आई आहिए" तावत् कथं ते संवत्सराणामादिराख्यातः, इति ॥सूत्रम् १॥ इति श्रीजैनाचार्य जैनधर्मदिवाकर घासीलाल व्रति विरचितायां चन्द्रप्रज्ञप्तिसूत्रस्य चन्द्रज्ञप्तिप्रकाशिकाख्यायां व्याख्यायां-एकादशं प्राभृतं समाप्तम् ॥११॥
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy