SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रज्ञप्तिसूत्रे च द्वाषष्टिभागस्य षट्षष्टिः सप्तषष्टिभागाः (७७४।२४।६६) भूयोऽप्यभिजिदादि ढिापर्यन्तानां नक्षत्राणां शोध्यन्ते स्थिताः पश्चात् पञ्च मुहूर्ताः, एकस्य च मुहूर्तस्य एकविश तषिष्टि भागाः, एकस्य च द्वाषष्टिभागस्य त्रिपञ्चाशत् सप्तषष्टि भागाः (५।२१।५३) गत : । तत आगतम्--चतुर्थचान्द्रसंवत्सरपर्यवसानसमये उत्ताराषाढानक्षत्रस्य पञ्चचत्वारिंशन्मुहूर्तात्मकभागस्य एकोन विंशतिः सप्तषष्टिभागाः (७५८।१२७।१९) ततश्चतुश्चत्वारिंशदधिकसप्तशतमुहूर्ताः, एकस्य च मुहूर्तस्य चतुर्विशति षिष्टिभागाः, एकस्य च द्वाषष्टि भागस्य षट्षष्टिः सप्तष्टिभागाः (७४४।२४।६६) अश्लेषादीनामा मा॑पर्यन्तानां नक्षत्राणां शोध्यन्ते, स्थिताः पश्चात् पञ्चदश मुहूर्ताः, एकस्य च मुहूर्तस्य चत्वारिंशद् द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य विशतिः सप्तषष्टिभागाः (१५।४०।२०) पुनर्वसुनक्षत्रस्य गताः, तत आगतम् पुनवसोनक्षत्रस्य पञ्चचत्वारिंशन्मुहूर्तात्मकत्वात्तस्य चतुर्थचान्द्रसंवत्सरपर्यवसानसमये एकोन त्रिंशन्मुहूर्तेषु एकस्य च मुहूर्तस्य एकविंशतौ द्वाषष्टिभागेषु, एकस्य च द्वाषष्टि भागस्य सप्तचत्वारिंशति सप्तषष्टि भागेषु (२९।२१।४७) शेषेषु सूर्यः पुनर्वसुनक्षत्रेण सह योगं करोतीति सिद्धम् । अथ पञ्चमाभिवर्द्धितसंवत्सरविषये प्रा:- 'ताएएसिणं' इत्यादि 'ता' तावत् ‘एएसिणं' एतेषां चन्द्रादीनां 'पंचण्हं संवच्छराणं' पञ्चानां संवत्सराणां मध्ये 'पंचमस्स अभिवढियसंवच्छरस्स' पञ्चमस्याभिवर्द्धितसंवत्सरस्य 'के आई' क आदिः 'आहिए' आख्यातः कथितः ? तिवएज्जा' इति वदेत् वदतु हे भगवन् ! भग्वानाह'ता जे णं' इत्यादि, 'ता' तावत् 'जे णं' यत्खलु 'चउत्थस्स चंदसंवच्छस्स' चतुर्थस्य चान्द्र संवत्सरस्य ‘पज्जवसाणे' पर्यवसानं 'से णं' तत्खलु 'पंचमस्स अभिवढियसंवच्छरस्स' पञ्चमस्याभिवतिसंवत्सरस्य 'आई' आदिरस्ति स कीकू समयः ? इत्याह-'अणंतरपुरक्खडे' अनन्तरपुरस्कृतः अनन्तरः अन्तररहितः पुरस्कृतः पुरोवर्ती भावी 'समए' समयः । अथ पर्यवसान माह--'ता से णं' इत्यादि 'ता' तावत् ‘से णं' स खल पञ्चमाभिर्द्धितसंवत्सरः 'किं पज्जवसिए' किं पर्यवसितः किं पर्यवसानवान् 'आहिए' आख्यातः ? 'तिवएज्जा' इति वदेत् वदतु हे भगवन् । भगवानाह- ‘ता जेणं' इत्यादि, 'ता' तावत् 'जेणं' यः खलु-'पढमस्स' प्रथमस्य पुरोवर्ति युगस्य यः प्रथमस्तस्य 'चंदसंवच्छरस्स' चान्द्रसंवत्सरस्य 'आई' आदिः ‘से ण' स खल 'पंचमस्स' पञ्चमस्य वर्तमानयुगसम्बन्धिनः 'अभिवइढियसंवच्छरस्स' अभिवद्धितसंवत्सरस्य 'पज्जवसाणे' पर्यवसानम्-अन्तिमः समयः, कीदृशः ? इत्याह—'अणंतर पच्छाकडे समए' अनन्तरपश्चात्कृतः समयः अनन्तरः अन्तररहितः पश्चात्कृतः अतीतः समयः । चन्द्रेण सह नक्षत्रयोगमाह-'तं समयं च णं' इस्यादि, 'तं समयं च णं' तस्मिन् समये पञ्चमाभिवदितसंवत्सरपर्यवसानसमये च खलु 'चदे' चन्द्रः 'केणं णक्खत्तेणं जोयं जोएइ' केन नक्षत्रे सह योगं युनक्ति : उत्तरमाह-'ता उत्तराहिं' इत्यादि, 'ता' तावत् "उत्तराहिं आसाढाहिं उत्तराभिराषाढाभिः उत्तराषाढ़ानक्षत्रेण सह योगं युनक्ति । तस्य मुहूर्त्तादिकमाह-'उत्तराणं' इत्यादि
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy