SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ चन्द्रज्ञाप्तप्रकाशिकाटोका प्रा.११ सू०१ संवत्सराणामादिस्वरूपनिरूपणम् ४८५ ज्जा' इति वदेत् वदतु हे भगवन् ! भगवानाह– 'ता जेणं' इत्यादि, 'ता' तावत् 'जे णं' यत्खलु तच्चस्स अभिवइढियसंवच्छरस्स' तृतीयस्याभिवर्द्धितसंवत्सरस्य 'पज्जवसाणे' पर्यवसानं 'से णं' तत्खलु 'चउत्थस्स चंदसंवच्छरस्स' चतुर्थस्य चान्द्रसंवत्सरस्य 'आई' आदिः कीदृक् समयः ? इत्याह- 'अणंतरपुरक्खडे समए' अनन्तरपुरस्कृतः पुरोभागरूपः समयः अनन्तरः अन्तररहितः पुरस्कृतः पुरोभागरूपः समयः । पर्यवसानसमयं पृच्छति- 'ता से णं' इत्यादि, 'ता' तावत् 'से णं' स खलु चतुर्थश्चान्द्रसंवत्सरः 'किं पज्जवसिए' किं पर्यवसितः । कीदृक् पर्यवसानवान् 'आहिए' आख्यातः ? 'तिवएज्जा' इति वदेत् वदतु है भगवान् ! भगवानाह-- 'ता जेणं' इत्यादि 'ता' तावत् 'जे णं' यः खलु 'चरिमस्स' घरमस्य पञ्चमस्य 'अभिवइढियसंवच्छरस्स' अभिवर्द्रितसंवत्सरस्य 'आई' आदिः 'सेणं' स वलु 'चउत्थस्स चंदसंवच्छरस्स' चतुर्थस्य चान्द्रसंवत्सरस्य 'पज्जवसाणे' पर्यवसानं भवति, न कोदृक् समयः ? इत्याह- 'अणंतरपच्छाकडे समए' अनन्तर श्चात्कृतः अनन्तरः अन्तररहितः एश्चात्कृतः चतुर्थसंवत्सरस्यान्तभागरूपः समयः । अथ चन्द्रस्य नक्षत्रयोगमाह-- 'तं समयपणं' इत्यादि, 'तं समयं च णं' तस्मिन् चतुर्थचान्द्रसंवत्सरपर्यवसानभूते समये च खलु 'चंदे' चन्द्रः 'केणं णक्खत्तेणं' केन नक्षत्रेण सह 'जोयं' जोएइ' योगं युनक्ति ? भगवागह-'ता उत्तराहि' इत्यादि, 'ता' तावत् 'उत्तराहिं आसाढाहिं' उत्तराभिराषाढाभिः उत्तराषादानक्षत्रेण सह योगं युनक्ति । अथास्य मुहूर्तादिकमाह-'उत्तराणं' इत्यादि, 'उत्तराणं आसाढाणं' उत्तराणामाषाढानां नक्षत्रस्य 'उणयालीस मुहुत्ता' एकोनचत्वारिंशन्मुहूर्ताः, 'मुहुत्तस्स' एकस्य मुहूर्तस्य 'चत्तालीसं च बावद्विभागा' चत्वारिंशच्च द्वाषष्टिभागाः, तद्गतं 'बावद्विभागं च' द्वाषष्टिभागं च 'सत्तढिहा छित्ता' सप्तषष्टिधा छित्त्वा विभज्य तत्सम्बन्धिनः 'चउद्दस' चतुदेश 'चुण्णियाभागा' चूर्णिका भागाः सप्तषष्टि भागाः(३९।४०।१४) 'सेसा' शेषा अवशिप्टास्तिष्ठेयुस्तदा चन्द्रः उत्तराषाढानक्षत्रेण सह योगं युनक्तीति । कथमिति गणितं प्रदर्यते- चतुर्थचान्द्रसंवत्सरपर्यवसानमेकोनपञ्चाशत्तमपौर्णमासी : भिर्भवतीति स एव ध्रुवराशिः (६६।५।१) एकोनपञ्चाशता गुण्यते, जातानि चतुस्त्रिंशदधिकानि द्वात्रिंशन्मुहूर्तशतानि, एकस्य च मुहूर्तस्य पञ्चचत्वारिंशदधिके द्वे शते द्वाषष्टि भागानाम्, एकस्य च द्वाषष्टिभागस्य एकोनपञ्चाशत् सप्तषष्टिभ गाः (३२३४।२४५।४९।) तत एतस्मात् प्रागुक्तं सकलनक्षत्रपर्यायपरिमाणं (८१९।२४।६६) त्रिभिर्गुणितम् (२४५७।७२।१९८) पूर्वस्मादराशेः (३२३४।२४५।४९) शोधिते पश्चात् स्थितानि सप्तसप्तत्यधिकानि सप्तशतानि मुहूर्तानाम् , एकस्य च मुहूर्तस्य सप्तत्यधिकमेकं शतं द्वाषष्टि भागानाम् , एकस्य च द्वाषष्टिभागस्य द्विपञ्चाशत् सप्तषष्टिभागाः (७७७।१७०५२) एतस्माद् राशेः चतुः सप्तत्यधिकसप्तशतमुहर्ताः, एकस्य च मुहूर्तस्य चतुर्विशति षिष्टिभागाः, एकस्य
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy