SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ ४८४ चन्द्रप्रशमसुत्रे १३।२७) इति । अथ सूर्येण सह नक्षत्रयोगमाह - 'तं समयं च णं' इत्यादि, 'तं समयं च णं' तस्मिन् चन्द्रस्य पूर्वोक्तनक्षत्रयोगरूपे समये च खलु 'सूरिए, सूर्य: 'केणं णक्खत्तणं' केन नक्षत्रेण सह 'जोयं जोएइ' योगं युनक्ति ?" - भगवानाह - 'ता पुणव्वसुगा' इत्यादि, 'ता' तावत् 'पुणव्वसुणा' पुनर्वसुना पुनर्वसुनक्षत्रेण सह योगं युनक्ति । अथ पुनर्वसोर्मुहूर्त्तादिकं प्रदर्शयति 'पुणव्वसुस्स' इत्यादि, 'पुणव्वसुस्स' पुनर्वसु नक्षत्रस्य 'दो मुहूत्ता' द्वौ मुहूर्त्तो, 'छप्पण्णं च बावट्ठिभागा मुहूत्तस्स' षट् पञ्चाशच्च द्वाष्टि भागाः मुहूर्त्तस्य, तथा ' बावद्विभागं च ' द्वाषष्टिभागं च 'सत्तद्विहा छित्ता' सप्ता छित्त्वा - विभज्य तत्सम्बन्धिनः 'सही' षष्टिः 'चुणिया भागा' चूर्णिका भागाः सप्तष्टि भागाः (२।५६।६०।) 'सेसा' शेषा अवशिष्टास्तिष्टन्ति तस्मिन् समये सूर्यः पुनर्वसु नक्षत्रेण सह योगं युक्तीति । कथमिति, गणितं प्रदर्श्यते - अत्रापि स एव ध्रुवराशि: ( ६६।५ १) पूर्ववदेव सप्तत्रिंशता गुण्यते, जातानि पूर्ववदेव द्वाचत्वारिंशदधिकचतुर्विंशतिशत मुहूर्ताः, पञ्चाशीत्यधिकशत द्वाषष्टिभागाः, सप्तत्रिंशच्च सप्त षष्टिभागाः (२४४२ । १८५ । ३७) । तत एतेभ्यः पूर्वोक्त चन्द्रनक्षत्रयोगवत् सकलनक्षत्रपर्यायपरिमाणं (८१९।२४।६६) द्विगुणं (१६६८। ४९।६५) कृत्वा शोध्यते, स्थितानि पश्चात् चन्द्रनक्षत्रयोगसदृशान्येव चतुरुत्तराणि अष्टौ मुहूर्त्त शतानि, तत्सम्बन्धिनः पञ्चत्रिंशदधिकं शतं द्वाषष्टि भागाः, एकोनचत्वारिंशच्च सप्तषष्टिभागाः (८०४।१३५।३९)। तत एतेभ्यः पुनरपि एकोनविंशतिर्मुहूर्त्ताः, त्रिचत्वारिंशद् द्वाषष्टिभागः, त्रयस्त्रिंशत् सप्तषष्टि भागाश्च (१९ |४३|३३|) पुष्यनक्षत्रस्य शुद्धाः स्थितानि पश्चात् पञ्चार्श त्य धिकसप्तशतमुहूर्त्ताः, एकस्य मुहूर्त्तस्य च द्विनवति द्वषष्टिभागाः, एकस्य च द्वाषष्टि भागस्य प सप्तषष्टि भागाः (७८५। ९२ । ६) । ततो भूयोऽप्येतेभ्यः चतुश्चत्वारिंशदधिकानि सप्त मुहूर्त्तशतानि, एकस्य च मुहूर्त्तस्य चतुर्विंशतिर्द्वाषष्टि भागाः, एकस्य च द्वापष्टिभागस्य पट्टः सप्तषष्टि भागाः (७४४।२४।६६) अश्लेषादीनां आर्द्रापर्यन्तानां नक्षत्राणां शुद्धाः, स्थिताः पश्चात् - द्वाचत्वारिंशन्मुहूर्त्ताः, एकस्य च मुहूर्तस्य पञ्चद्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य सप्त सप्तषष्टिभागाः (४२/५/७ | ) गताः तत अगतम् तृतीयाभिवर्द्धितसंवत्सरपर्यवसानसमये सूर्य: पुनर्वसु नक्षत्रस्य पञ्चचत्वारिंशन्मुहूर्त्तात्मकस्वात्तस्य द्वौ मुहूर्त्तो, एकस्य च मुहूर्त्तव्य षट् पञ्चाशद द्वाषष्टि भागाः एकस्य च द्वाषष्टिभागस्य षष्टिश्चूर्णिकाभागाः ( २/५६ १६० ), एतावत्परिमितेषु मुहूर्त्तादिषु शेषेषु सत्सु सूर्य: पुनर्वसु नक्षत्रेण सह योगं करोतीति । अथ चतुर्थचान्द्रसंवत्सरविषये प्राह — 'ता एएसिणं' इत्यादि 'ता' तावत् 'एएसि णं' एतेषां पूर्वोक्तानां चन्द्रादीनां 'पंच संवच्छरणं' पञ्चानां संवत्सराणां मध्ये 'चउत्थस्स' चतुथेस्य 'चंदसंवच्छरस्स' चन्द्रसंवत्सरस्य 'के आई आहिए' क आदिराख्यातः : 'तिवार -
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy