SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ चन्द्रज्ञप्तिप्रकाशिकाटीका प्रा.११ सू.१ . संवत्सराणामादिस्वपनिरूपणम् ४८३ अभिवढिय संवच्छरस्स' तृतीयस्याभिवर्द्धितसंवत्सरस्य ‘पज्जवसाणे' पर्यवसानम्-अन्तः, स कीदृशः समयः इत्याह-'अणंतरपच्छा कडे समए' अनन्तरपश्चात्कृतः-अन्तररहितो पश्चाद् भागरूपः समयः अथ चन्द्रयोगमाह-'तं समयं च णं' इत्यादि, 'तं समयं च णं' तस्मिन् तृतीयाभिवद्धिसंवत्सरस्य पर्यवसानरूपे समये च खलु 'चंदे' चन्द्रः 'केणं णक्खत्तेणं' केन नक्षत्रेण सह 'जोयं जोएइ' योगं युनक्ति ! । भगवानाह-'ता उत्तराहिं' इत्यादि 'ता' तावत् 'उत्तराहि आसाढ़ाहि' उत्तराभिराषाढाभिः, उत्तराषाढानक्षत्रेण सह चन्द्रो योगं युनक्ति । तत्रापि मुहूर्त्तादिकमाह-'उत्तराणं' इत्यादि, 'उत्तराणं आसाढाणं' उत्तराणामाषाढानाम् उत्तराषाढानक्षत्रस्य 'तेरस मुहुत्ता ।' त्रयोदश मुहूर्ताः 'मुहुत्तस्स' एकस्य मुहूर्त्तस्य 'तेरस य बावद्विभागा' त्रयोदश च द्वाषष्टिभागाः, 'बावद्विभागं च' द्वाषष्टि भागं च 'सत्तट्टिहा छित्ता' सप्तषष्टिधा छित्त्वा विभज्य 'सत्तावीसं चुणिया भागा' सप्तविंशतिश्चूर्णिका भागा (१३।१३।२७।) 'सेसा' शेषा अवशिष्टाः तिष्ठेयुस्तदा चन्द्र उत्तराषाढानक्षत्रेण सह योगं युनक्तीति भावः । अस्य गणितप्रकारः प्रदर्श्यतेतृतीयाभिवर्द्धितसंवत्सरस्य परिसमाप्तिः सप्तत्रिंशता पौर्णमासी भिर्भवतीति स एव ध्रुवराशिः-- (६६।५।१।) सप्तत्रिंशता गुणनीयः, ततो जातानि द्वाचत्वारिंशदधिकानि चतुर्विशतिमुहूर्तशतानि, एकस्य मुहूर्तस्य पञ्चाशीत्यधिकशतसंख्यका द्वाषष्टिभागाः एकस्य च द्वाषष्टिभागस्य सप्तत्रिंशत् सप्तषष्टिभागाः (२४४२।१८५।३७) । तत एतस्माद्राशेः एकोन विंशत्यधिकानि अष्टौ मुहूर्तशतानि, एकस्य च मुहूर्तस्य चतुर्विशति षिष्टि भागाः, एकस्य च द्वाषष्टिभागस्य षट्षष्टिः सप्तषष्टि भागाः (८१९।२४।६६) इति सकलनक्षत्रपर्यायपरिमाणं द्वाभ्यां गुणयित्वा शोध्यते, तो द्वाभ्यां गुणितो जातो राशि:-अष्टत्रिंशदधिकानि षोडश शतानि मुहूर्तानाम् एकस्य मुहूर्तस्य एकोन पञ्चाशद् द्वापष्टिभागाः, एकस्य च द्वाषष्टिभागस्य पञ्चषष्टिः सप्तषष्टिनागाः (१६३८ । ४९ । ६५)। एष राशिः पूर्वप्रदर्शितराशेः ( २४४२।१८५३७।) गोध्यते, शोधिते च स्थितः पश्चाद् राशि:- चतुरधिकानि अष्टौ मुहर्तशतानि, तत् सम्बन्धिनः ८ञ्चत्रिंशदधिकमेकं शतं द्वाषष्टिभागाः, एकस्य च द्वाष्टिभागस्य एकोनचत्वारिंशतत्सप्त ष्टिभागाः (८०४।१३५।३९) एतावद्रूपः । तत एतस्माद्राशेः चतुः सप्तत्यधिकसप्तशतमुहूर्ताः, एकस्य च मुहूर्तस्य चतुर्विशति-षिष्टिभागाः एकस्य च द्वाषष्टिभागस्य षट्षष्टिः सप्तषष्टि भागाः (७७४।२४।६६) अभिजित आरभ्य पूर्वाषाढा पर्यन्तानां नक्षत्राणां शोध्यन्ते, स्थिताः पश्चाद्-एकत्रिंशन्मुहूर्ताः, एकस्य च मुहर्तस्याष्टचत्वारिंशद् द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य चत्वारिंशत् सप्तषष्टिभागाः (३१।४८।४०) तत आगतम्-तृतीयाभिवर्द्धितसंवत्सर पर्यवसानसमये उत्तराषाढानक्षत्रस्य पञ्च चत्वारिशन्मुहूर्त्तात्मकत्वात्तस्य त्रयोदश मुहूर्ताः, एकस्य च मुहूर्तस्य त्रयोदश द्वाषष्टि भागाः, एकस्य च द्वाषष्टिभागस्य सप्तविंशतिः सप्तषष्टिभागाः (१३॥
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy