SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ चन्द्र प्रज्ञप्तिसूत्रे प्रथमस्य चान्द्रसंवत्सरस्य 'पज्जवसाणे' पर्यवसानम् - अन्तभागः 'से णं' तत् खलु 'दोच्चस्स चंदसंवच्छरस्स' द्वितीयस्य चान्द्र संवत्सरस्य 'आई' आदिराख्यातः कीदृश: ? 'अणंतर पुरक्खडेसमए' अन्तरपुरस्कृतसमयः पूर्वसंवत्सराद् अन्तररहितः अनागत संवत्सरात्पूर्वभागस्थितः समय इति । अथ पर्यवसान समय माह - 'तासेणं' इत्यादि, 'ता' तावत् 'सेणं' स खलु समयः “किं पज्जवसिए' किं पर्यवसितः किं पर्यवसानवान् 'आहिए' आख्यातः कथितः ? 'ति वज्जा' इति वदेत् वदतु भगवन् | उत्तरमाह - 'ता जेणं' इत्यादि 'ता' तावत् 'जेणं' यः खलु 'तच्चस्स' तृतीयस्य 'अभिवढिय संवच्छरस्स' अभिवद्धितसंवत्सरस्य 'आई' आदि समयः 'सेणं' स खलु 'दोच्चस्स संवच्छरस्स' द्वितीयस्य चान्द्राभिधानस्य संवत्सरस्य 'पज्जवसाणे' पर्यवसानं भवति, तद्गतसमयः कीदृश: ? इत्याह 'अणंतरपच्चाकडे अनन्तर पश्चाकृतः द्वितीय चान्द्रवसंवत्सरादन्तररहितः पश्चात्कृतः पश्चाद्भागः अतीतभागरूपः 'समए' समय इति । 'तं समयं च णं' तस्मिन् समये च खलु 'चंदे' चन्द्रः 'केणं णक्खत्तेणं जंयं जोए ' केन नक्षत्रेण सह योगं युनक्ति ? उत्तरमाह - ' ता पुव्वाहिं आसाढाहिं' इत्यादि, 'ता' तावत् 'पुव्वाहिं आसाढाहिं' पूर्वाभिरापाढाभिः पूर्वाषाढा नक्षत्रेणेत्यर्थः । तत्रापि कतिषु मुहूर्तेषु शेषेषु चन्द्रः पूर्वाषाढा नक्षत्रेण सह योगं युनक्ति ? तदाह' पुव्वाणं आसाढाणं' पूर्वाणामाषाढानां पूर्वाषाढानक्षत्रस्य चतुस्तारकत्वाद् बहुवचनम्, तत पूर्वाषाढा नक्षत्रस्य 'सत्तमुहुत्ता' सप्त मुहूर्त्ताः, 'मुहुत्तस्स' एकस्य मुहूर्त्तस्य ' तेवणं च बावट्टिभागा' त्रिपञ्चाशच्च द्वापष्टि भागाः, तथा 'बावट्टिभागं च' एकं द्वाषष्टिभागं च 'सत्तट्ठिहा छित्ता' सप्तषष्टिधा छित्त्वा विभज्य तद्गताः 'इगतालीस ' एकचत्वारिंशत् 'चुण्णिया भागा' चूर्णिका भागाः सप्तषष्टिभागा इत्यर्थः (७-५३/४१) इत्येतावत्प्रमाणा मुहूर्त्ता पूर्वाषाढा नक्षत्रस्य यदा 'सेसा' शेणः ६२/६७ ४८० अवशिष्ठास्तिष्ठेयुस्तावत्परिमितं समयं यावत् चन्द्रः पूर्वाषाढानक्षत्रेण सह योगं युनक्तीति भावः अथास्य गणितप्रकारः प्रदर्श्यते द्वितीय चान्द्रसंवत्सरपरिसमाप्तिश्चतुर्विंशत्या पौर्णमासीभिर्भवतीति पूर्वोक्तः स एव ( ६६ । ५ । १) ध्रुवराशिचतुविंशत्या गुण्यते, जातानि - चतुरशीत्यधिकानि पञ्चदशशतानि मुहूर्त्तानां तद्गता विंशत्युत्तरशतसंख्यका द्वाषष्टि भागाः एकस्य १२०२४) च द्वाषष्टि भागस्य सम्बन्धिनश्चतुर्विंशतिः सप्तषष्टिभागाः ( १५८४एतस्मात् राशेः एकोनविंशत्यधिकाष्टशत मुहूर्त्ताः एकस्य च मुहूर्तस्य चतुर्विंशतिर्द्वाषष्टिभागाः, एकस्य च द्वषष्टिभागस्य षट्षष्टिभागाः (८१९–२४/६६ ) एकस्य परिपूर्णनक्षत्रपर्यायस्य शोध्य६२/६७ न्ते ततः पश्चात् स्थितानि मुहूर्त्तानां सप्तशतानि पञ्चषष्ट्यधिकानि तद्गताः पचनवति ६२ ६७
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy