________________
चन्द्रज्ञप्तिप्रकाशिकाटीकाप्रा . ११ सू० १
सवत्सराणामादिस्वरूपनिरूपणम् ४७७
समये च खलु चन्द्रः केन नक्षत्रेण योगं युनक्ति तावत् उत्तराभिराषाढाभिः उत्तराणामाषाढानां चरमसमये, तस्मिन् समये च खलु सूर्यः केन नक्षत्रेण योगं युनक्ति, तावत् पुष्येण, पुष्यस्थ खलु एकोनविंशतिर्मुहूर्त्ताः, त्रिचत्वारिंशच्च द्वाषष्टिभागाः मुहूर्त्तस्थ, द्वाषष्टिभाग सप्तषष्टिधा छित्त्वा त्रयस्त्रिशच्चूर्णिकाभागा शेषाः ॥सू. ११ ॥ एकादशं प्राभृतं समाप्तम् ॥ ११ ॥
व्याख्या--' 'ता कहते' इति 'ता' तावत् 'कह' कथं केन प्रकारेण हे भगवन् ' 'ते' त्वया 'संवच्छराणामाई' संवत्सराणामादिः 'आहिए' आख्यात: : 'तिवएज्जा' इति वदेत् वदतु कथयतु भगवानाह - 'तत्थ खलु' इत्यादि, 'तत्थ खलु तत्र संवत्सराणामादि विषये खलु–निश्चयेन ‘इमे' इमेऽग्रे वक्ष्यमाणाः पंच सवच्छरा' पञ्च संवत्सराः 'पण्णत्ता' प्रज्ञप्ताः कथिताः 'तं जहा ' तद्यथा ते इमे यथा - ' – 'चदे' चान्द्रः चान्द्रः संवत्सरः प्रथमः ? 'चंदे' चान्द्रः पुनरपि चान्द्रसंवत्सरो द्वितीयः २, 'अभिवढिए' अभिवर्द्धितः अभिवर्द्धितः संवत्सरस्तृतीयाः ३, 'चंदे' चान्द्रः पुनश्च चान्द्रः संवत्सश्चतुर्थः ४, 'अभिवढिए' अभिवर्द्धितः अभिवर्द्धितसंवत्सरः पञ्चमः ५, एते पञ्चसंवत्सराः कथिताः । एतेषां स्वरूपं पूर्व प्रदर्शित मेवेति । अथ संवत्सराणामादिं पृच्छति - 'ता एएसिणं' इत्यादि, 'ता' तावत् 'एएसिणं' एतेषां पूर्वोक्तानां खलु 'पंच'हं संवच्छरणं' पञ्चानां संवत्सराणां मध्ये 'पढमस्स' प्रथमस्य 'चंद संवच्छरस्स' चान्द्रसंवत्सरस्य चान्द्राभिधसंवत्सरस्य 'के आई' कः आदि : 'आहिए' आख्यातः १, 'तिवएज्जा' इति वदेत् कथयतु हे भगवन् ! भगवानाह - 'ता जेणं' इत्यादि 'ता' तावत् 'जे णं' यत् खलु पाश्चात्ययुगवर्त्तिनः पञ्चमस्याभिवद्धितसंवत्सरस्य 'पज्जवसाणे' पर्यवसानम् अन्तिम समयः ‘से णं' स खलु समयः 'पढमस्स चंद संवच्छरस्स' प्रथमस्य चान्द्रसंवत्सरस्य 'आई' आदिरस्ति, स कीदृशः समयः : इत्याह- 'अणंतर पुरक्खडे समए' अनन्तरपुरस्कृतः समयः पाश्चात्ययुगवर्तिपञ्चमाभिवर्द्धितः संवत्सरादन्तररहित आगामी यः समयः स इति । अयं प्रथमसंवत्सरस्यादिः कथितः, साम्प्रतं पर्यवसानसमयविषये प्रश्नोत्तरमाह - ' ता से णं' इत्यादि, 'ता से णं' तावत् स खलु प्रथमश्चान्द्रसंवत्सरः किं पर्यवसितः किं पर्यवसानवान् 'आहिए' आख्यातः ? ‘तिवएज्जा' इति वदेत् वदतु । उत्तरमाह - ' ता जेणं' इत्यादि, 'ता' तावत् 'जे णं' यः खलः 'दोच्चस्स चंदसंवच्छरस्स' द्वितीयस्म चान्द्र संवत्सरस्य 'आई' आदि : 'से णं' स खलु 'पढमस्स चंदसंवच्छरस्स' प्रथमस्य चान्द्र संवत्सरस्य 'पज्जवसाणे' पर्यव - सानम् अन्तिमसमयः, कीदृशः 'अणंतरपच्छाकडे समए' अनन्तरपश्चात्कृतः, अनन्तर अन्तररहितः यः पश्चात्कृतः अतीतः समयः स इति । अथ तत्समये चन्द्रयोगं पृच्छति 'तं समयं च णं' इत्यादि, 'तं समयं च णं' तस्मिन् संवत्सरपर्यवसानभूते समये खलु चंदे चन्द्रः 'केणं णक्खत्तेणं जोयं जोएइ' केन नक्षत्रेण सह योगं युनक्ति योगं करोति ? इति प्रश्नः । इह