________________
४७६
चन्द्रप्रज्ञप्तिसूत्रे
susara चूर्णिका भागाः शेषाः । तस्मिन् समये च खलु सूर्यः केन नक्षत्रेण योगं युनक्ति तावत् पुनर्वसुना, पुनर्वसोः षोडश मुहूर्त्ताः अष्ठ च द्वाषष्टिभागा मुहूर्त्तस्य, द्वाष्टिभागं च सप्तषष्टिधा छित्त्वा विंशतिश्चणिकाभागाः शेषाः । तावत् एतेषां खलु पञ्चानां संवत्सराणां द्वितीयस्य चान्द्रसंवत्सरस्य क आदिः आख्यातः १ इति वदेत्, तावत् यत् खलु प्रथमस्य चान्द्र संवत्सरस्य पर्यवसानं तत् खलु द्वितीयस्य चान्द्रसंवत्सरस्य आदि अन म्तरपुरस्कृतसमयः, तावत् स खलु किं पर्यवसितः आख्यातः ? इति वदेत् । तावत् यः खलु तृतीयस्य अभिवर्द्धितसंवत्सरस्य आदिः स खलु द्वितीयस्य चान्द्रसंवत्सरस्य पर्यव - सानम् अनन्तरपश्चात्कृतः समयः । तस्मिन् समये च खलु चन्द्रः केन नक्षत्रेण योगं युनक्ति ? तावन् पूर्वाभिराषाढाभिः पूर्वाणामाषाढानां सप्तमुहूर्त्ताः, त्रिपञ्चाशच्च द्वाषष्टि भागा मुहूर्त्तस्य, द्वाषष्टिभागं च सप्तषष्टिधा छित्त्वा एकचत्वारिंशत् चूर्णिका भागाः शेषाः, तस्मिन् समये च खलु सूर्य केन नक्षत्रेण योगं युनक्ति । तावत् पुनर्वसुना, पुनर्वसोः खलु द्विचत्वारिंशद् मुहूर्त्ताः, पञ्चत्रिंशच्च द्वाषष्टिभागा मुहूर्त्तस्य द्वाषष्टिभागं च सप्तषष्टिधा छित्त्वा सप्त चूर्णिकाभागाः शेषाः । तावत् एतेषां खलु पञ्चानां संवत्सराणं तृतीयस्य अभिवद्वितसंवत्सरस्य क आदिः आख्यातः ? इति वदेत्, तावत् यत् खलु द्वितीयस्य चान्द्र संवत्सस्य पर्यवसानम् तत् खलु तृतोयस्य अभिवर्द्धितसंवत्सरस्य आदिः अनन्तरपुरस्कृतः समयः, तावत् स खलु किं पर्यवसितः आख्यातः इति वदेत् तावत् । यः खलु चतुर्थस्य चान्द्र संवत्सरस्य आदिः स खलु तृतीयस्य अभिवर्द्धितसंवत्सरस्य पर्यवसानम् अनन्तरपश्चाकृतः समयः । तस्मिन् समये च खलु चन्द्रः केन नक्षत्रेण योगं युनक्ति ? तावत् उत्तराभिराषाढाभिः । उत्तराणामापादानाम् त्रयोदशमुहूर्त्ताः त्रयोदश च द्वाषष्टिभागा मुहूर्तस्य द्वाषष्टिभागं च सप्तषष्टिधा छित्त्वा सप्तविंशतिश्चूर्णिका भागाः शेषाः । तस्मिन् समये च खलु सूर्यः केन नक्षत्रेण योगं युनक्ति ? तावत् पुनर्वसुना, पुनर्वसोः द्वौ मुहत्तौ षट्पचा शद् द्वाषष्टिभागा मुहूर्त्तस्य, द्वापष्टभागं च सप्तषष्टिधा छित्त्वा षष्टिश्चणिकाभागाः शेषः । तावत् एतेषां खलु पञ्चानां संवत्सराणां चतुर्थस्य च चान्द्रसंवत्सरस्य क आदिराख्यातः ? इति वदेत् तावत् यत् खलु तृतोयस्य अभिवर्द्धितसंवत्सरस्य पर्यवसानं तत् खलु चतुर्धस्य चान्द्रसंवत्सरस्य आदिः अनन्तरपुरस्कृतः समयः । तावत् स खलु किं पर्यवसितः आख्यातः ? इति वदेत् तावत् यः खलु चरमस्य अभिवर्द्धितसंवत्सरस्य अदिः स खलु चतुर्थस्य चान्द्र संवत्सरस्य पर्यवसानम् अनन्तरपश्चात्कृतः समयः । तस्मिन् समये च खलु चन्द्रः केन नक्षत्रेण योगं युनक्ति ? तावत् उत्तराभिराषाढाभिः उत्तराषाढानाम् एकोनचत्वारिंशद् मुहूर्त्ताः, चत्वारिंशच्च द्वाषष्टिभागा मुहूर्त्तस्य, द्वाषष्टिभागं च नतपष्टिधा छित्त्वा चतुर्दशचूर्णिका भागाः शेषा । तस्मिन् समये च खलु सूर्यः केन नक्षत्रेण योग युनक्ति ?, तावत् पुनर्वसुना पुनर्वसोः एकोनत्रिंशद् मुहूर्त्ताः एकविंशतिद्वषष्टिभागा मुहूर्त्तस्य, द्वाषष्टिभागं च सप्तषष्टिधा छित्त्वा सप्तचत्वारिंशच्चूर्णिका भागाः शेषाः । तावत् एतेषां खलु पञ्चानां संवत्सराणां पञ्चमस्य अभिवर्द्धितसंवत्सरस्य क आदिराख्यातः ? इति वदेत् तावत् यत् खलु चतुर्थस्य चान्द्रसंवत्सरस्य पर्यवसानं तत् खलु पञ्चमस्य अभिवर्द्धितसंवत्सरस्य आदिः अनन्तरपुरस्कृतः समयः तावत् स खलु किं पर्यवसितः आख्यातः इति वदेत्, तावत् यः खलु प्रथमस्य चान्द्र संवत्सरस्यादिः स खलुः पञ्चमस्य अभिवर्द्धितसंवत्सरस्य पर्यवसानम् अनन्तर पश्चात्कृतः समयः । तस्मिन्