SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ चन्द्रशप्तिप्रकाशिकाटीका प्रा.१०प्रा.प्रा.२२ सू.११ नक्षत्रक्षेत्रपरिभागनिरूपणम् ४७३ त्राण 'जुत्ता जोगेहिं योगैर्युक्तानि समरूपेणैव भवन्ति । अथ प्राभृतोपसंहारमाह-मंडलं' इत्यादि 'णक्ख त्तविचए' अस्मिन् नक्षत्रविचये नक्षत्रविचयनाम्नि दशमस्य प्राभृतस्य 'पाहुडेत्ति' द्वाविंशतितमे प्राभृतप्राभृते :'इच्चेस' इत्येषः पूर्व प्रतिपादितः ‘णक्खत्तखेत्तपरिभागे' नक्षत्रक्षेत्र पन्भिागः उपलक्षणात् चन्द्रसूर्यग्रहनक्षत्रक्षेत्रपरिभागः 'आहिए' आख्यातः कथितः कथमित्याह'मंडलं' मण्डलं चन्द्रादिमण्डलं स्वेन स्वेन क्षेत्रद्वयसंमिलितैः षट् पञ्चाशता नक्षत्रै विन्मानं क्षेत्रं व्याप्यमानं संभाव्यते तावन्मात्रं क्षेत्रं बुद्धिपरिकल्पितं 'सयसहस्सेणं अट्टाणउयाए सएहिं शत सहस्रेण-लक्षण-अष्टानवत्याच शतैः अष्टानवतिशताधिकेन लक्षेण एकेन लक्षण नव सहस्रैः अष्टशतैः नव सहस्राधिकाष्टाशतोत्तरेणैकेन लक्षणेत्यर्थः (१०९८००) 'छित्ता' छित्त्वा विभज्य व्याख्यातः, एष नक्षत्रक्षेत्रपरिभागः नक्षत्रबियचनामकं प्राभृतप्राभृतमस्तीति ख्यातमिति भावः । 'तिबेमि' इति ब्रवीमि, इति-एतदनन्तरोक्तं सर्वं ब्रवीमि यथा भगबन्मुखाच्छ्रतं तथैव कथयामीति सुधर्मस्वामिवचनमेतत् । अथवा शिष्याणां विश्वासदाढोत्पादनाथं कथयति-एतद् भवगद्वचनं ततः सर्वं सत्यमेति ब्रतीमि ततो भवद्भिः सर्व सत्यमिति प्रत्येतव्यमेवेति ॥ सूत्रम् ११॥ दशमस्य प्राभृतस्य द्वाविंशतितमं प्राभृत प्राभृतं समाप्तम् ॥१०॥२२॥ इति श्री विश्वविख्यात--जगद्वल्लभ-प्रसिद्धवाचक पञ्चदशभाषाकलितललितकलापालापक प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादि-मानमर्दक-श्रीशाहुच्छत्रपति कोल्हापुरराजप्रदत्त 'जैनशास्त्राचार्य' पदभूषित कोल्हापुरराजगुरु बालब्रह्मचारि-जैनशास्त्राचार्य-जैनधर्मदिवाकर श्रीघासीलाल व्रतिविरचितायां 'चन्द्रप्रज्ञप्ति' सूत्रस्य चन्द्रज्ञप्ति प्रकाशिकाख्यायां व्याख्यायाम् दशमं प्राभृतं समाप्तम् ॥१०॥
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy