________________
चन्द्रप्रक्षप्तिसूत्रे ऐरवतक्षेत्रप्रकाशकोऽपि सूर्यः 'गइसमावण्णए भवइ' गतिसमापन्नको गतियुक्तो भवति । 'जया णं' यदा खलु ‘इयरे सरिए इतरः ऐरावतक्षेत्रप्रकाशकारी सूर्यः 'गइसमावण्णए भवई' गतिसमापन्नको गतियुक्तो भबति 'तया णं' तदा तस्मिन् काले खलु विवक्षिते मण्डले 'इमे वि सूरिए' अयमपि भरतक्षेत्रप्रकाशकोऽपि सूर्य: 'गइसमावण्णए भवई' गतिसमापन्नकः गतिमान् भवति । भरतक्षेत्रसूर्यः ऐरवतक्षेत्रसूर्यश्चेत्युभावपि सूर्यो स्वस्व क्षेत्रे स्व स्व विवक्षितमण्डले समकालगव चारं चरत इति भावः । एवं गहावि, एबम्-अनेनैव रीत्या ग्रहा अपि भरतक्षेत्रचारिणः ऐरवतक्षेत्र चारिणश्चे त्युभयेपि ग्रहाः परस्परं समकालमेव स्व स्व क्षेत्रे विवक्षितमण्डले चारं चरन्ति, इतिभावः । तथा एवमेव 'नक्खत्तावि' नक्षत्राण्यपि भरतक्षेत्रचारीणि ऐरवतक्षेत्रचारीणि चेत्युभयान्यपि नक्षत्राणि परस्परं स्व स्व विवक्षितमण्डले गतियुक्तानि भवन्ति, इति भावः । अथैतेषामेव योगविषये प्राह-'ता जया णं इमे चंदे जुत्ते जोगेणं' इत्यादि, 'ता' तावत् 'जया णं' यदा यस्मिन्न काले खलु 'इमे चंदे' अयं भरतक्षेत्र चारी चन्द्रः जुत्ते' जोगेणं' येन योगेन युको भवति 'तया णं' तदा तस्मिन् काले खलु ‘इयरे वि चंदे' इतरोऽपि ऐरवतक्षेत्रस्थोऽपि चन्द्रः 'जुत्ते जोगेणं भवइ' तेनैव योगेन युक्तो भवति । 'जया णं' यदा यस्मिन् काले खलु ‘इगरे चंदे' इतरः ऐरवतक्षेत्रस्थश्चन्द्रः 'जुत्ते जोगेणं भवई' येन योगेन युक्तो भवति 'तया गां' तदा तस्मिन् काले खलु 'इमे वि चंदे' अयमपि भरतक्षेत्रस्थश्चन्द्रः 'जुत्ते जोगेणं भवइ' तेनैव योगेन युक्तो भवति । भरतक्षेत्रस्थश्चन्द्रः ऐरवतक्षेत्र स्थश्चन्द्रश्चेत्युभावपि चन्द्रौ समकालमेव रवस्वक्षेत्रे स्व स्व मण्डले समयेसु युक्तौ भवत इति भावः । ‘एवं' एवम्-अनेनैव रीत्या 'सूरे वि सूर्योऽपि 'गहावि' ग्रहा अपि ‘णक्खत्तावि' नक्षत्राण्यपि सूर्यग्रहनक्षत्राण्यपि भरतैरवतक्षेत्रचारीणि परस्परं स्वक्षेत्रे स्व स्व मण्डले समकालं समानयोगयुक्तान्येव भवन्तीति तात्पर्यम् । अथोपसंहरन सदाकालविषये प्राह–'सया वि णं' इत्यादि, 'सया वि णं' सदापि सर्वकालेऽपि खलु 'चंदा' चन्द्रौ भरतैरवतक्षेत्रवर्तिनौ द्वावपि चन्द्रौ 'जुत्ता जोएहिं युक्तौ योगेः समनार चारिणौ भवतः । एवं 'सया वि णं' सदापि खलु 'सूरिया' सूर्यो 'जुत्ता जोगेहिं' योगै युक्ती समरूपावेव भवतः । 'सयावि गं' सदापि खलु 'गहा' ग्रहाः जुता जोगेहि योगैर्युक्ता समरूपा एव भवन्ति । 'सयावि णं' सदापि खलु ‘णक्खत्ता' नक्षत्राणि 'जुत्ताजोगेहिं योयुतानि समरूपाण्येव भवन्ति । अथ दिशमाश्रित्य प्राह-'दुहओ वि णं' इत्यादि, 'दुहओ वि गं' उभयतोऽपि दक्षिणोत्तरयोः पूर्वपश्चिमयोर्वा खलु 'चंदा' चन्द्रौ 'जुत्ता जोगेहिं योगैर्युक्तौ स्मरूपेणैव भवतः । एवम् ‘दुहओ वि णं' उभयतोऽपि दक्षिणोत्तरयो पूर्वपश्चिमयोर्वा 'सूरिया' सा 'जुत्ता जोगेहिं' य गैर्युक्तौ समरूपेणेव भवतः । 'दुहओ विण' उभयतोऽपि खलु 'गहा' ग्रहाः 'जुत्ताजोगेहिं' योगयुक्ताः समरूपेणैव भवन्ति दुहओ वि णं' उभयतोऽपि खलु ‘णक्खत्ता' नक्ष