SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिकाटीकाप्रा.१०मा प्रा.२२सू.१० सू.च. नक्षत्रेण सह योगकालनिरूपणम् ४६९ रिमन्नहोरात्रे त्रिंशन्मुहूर्ता भवन्तीति त्रिंशता गुण्यते, गुणिते च जायन्ते यथोक्तम्-एकं लक्षम् नवसहस्राणि, अष्ट च शतानि (१०९८००) मुहूर्तानामिति । एवं तादृशेन तेन वा नक्षत्रोण सह तस्मिन् देशे, अन्यस्मिन् वा देशे चन्द्रस्य योगकालयमाणमभिहितम्, साम्प्रतं सूर्यविषये तदेवाह-'ता जे णं इत्यादि । 'ता जे णं' इति 'ता' तावत् 'अज्ज' अद्य विवक्षिते दिवसे 'जे णं णक्खत्तेणं' येन नक्षत्रोण सह 'सूरिए' सूर्यः 'जोयं जोएई' योगं युक्ति 'जसि देसंसि' यस्मिन् देशे, 'से णं' स ख-स एव सूर्यः 'इमाई' इमानि वक्ष्यमाणसंख्यकानि रात्रिन्दिवानि तान्येवाह-'तिण्णि छावट्ठाई रादियसयाई त्रीणि षट्पष्टयधिकानि रात्रिदिवशतानि (३६६) षट्पष्टयधिक त्रिशत संख्यका होरात्राणि 'उवाइणावित्ता' उपादाय-अतिक्रम्य 'पुणरवि से सूरिए' पुनरपि स सूर्यः 'आणेण तारिसएणं चेब णक्खत्तंण' अन्येन तादृशेनैव तत्सदृशेणैव नक्षत्रण सह 'जोयं जोएइ' योगं युनक्ति किन्तु न तेनैव पूर्वमुक्तेन नक्षत्रोण सह योगं युनक्ति, कुत्र देशे ? इत्याह'तसि देसंसि' तस्मिन्नेव देशे, नान्यस्मिन् देशे इति भावः । कथमिति चेदाह इह चन्द्र एकेन नक्षमासेनाष्टविंशति नक्षत्राणि भुङ्क्ते, सूर्यस्तु षटूषष्टयधिकैस्त्रिभिरहोरात्रशतैरष्टाविंशति नक्षत्राणि भुङ्क्तेऽतः षट्पष्टयधिकत्रिशताहोरात्रप्रमित एकः सूर्यसंवत्सरो भवति, एवं षट्पष्टयधिकैस्त्रिभिरहोरात्रशतैरन्यान्यपि द्वितीयान्यष्टाविंशतिं नक्षत्राणि सूर्यः परिभुङ्क्ते । तत्पश्चाद् भूयोऽपि ताशव प्रथमान्यष्टाविंशति नक्षत्राणि तावद्भिरेवाहोरात्रैः क्रमेण सूर्यो योगं युनक्ति, एवं षट्षष्टयधिक स्त्रिभिशतैरहोरात्रैरतिक्रान्तैः सूर्यस्य तस्मिन्नेव देशे तादृशेनैवापरेण नक्षत्रेण सह योंगो भवति किन्तु न तेनैव नक्षत्रेणेति । 'ता जेणं' इत्यादि, 'ता' तावत् 'अज्ज' अद्य विवक्षितदिने 'जे गं नक्खत्तेण' येन नक्षत्रेण सह 'सूरिए' सूर्यः 'जोयं जोएइ' योगं युनक्ति 'तंसि देसंसि' तस्मिन् देशे ‘से णं स खलु सूर्यः 'इमाई' इमानि वक्ष्यमाणानि, तान्येवाह-'सत्तदुत्तीसाइंराईदियसयाई' द्वात्रिंशद धिकानि सप्तरात्रिन्दिवशतानि (७३२) 'उवाइणावित्ता' उपादायअतिव्राम्य 'पुणरवि' पुनरपि भूयोऽपि ‘से सूरिए' स सूर्यः ‘ते णं चेव णक्खत्तण' तेनैव नक्षत्रेण सह “नोयं जोएइ' योगं युनक्ति 'तंसि देसंसि तस्मिन् देशे । भावना प्राक्कृता, तदनुसारेणात्रापि कर्त्तव्येति । 'ता जेणं' इत्यादि 'ता' तावत् 'अज्ज' अद्य विवक्षितदिने 'जे ण णक्खत्तेणं' येन नःसत्रोण सह 'सूरिए' सूर्यः 'जोयं जोएई' योगं युक्ति कुत्रेत्याह-जंसि देसंसि' यस्मिन् देशे से णं' स खलु सूर्यः ‘इमाई' इमानि-वक्ष्यमाणानि, कतिसंख्यानीत्याह-'अट्ठारसतीसाईराइंदियसयाई' त्रिंशदधिकानि अष्टादशरात्रिन्दिवशतानि त्रिंशदधिकाष्टादशशत (१८३०) संख्यकाहोगत्रान् 'उवाइणावित्ता' उपादाय व्यतिक्रम्य पुणरवि पुनरपि भूयोऽपि 'से सूरिए' स सूर्य : 'अण्णेणं तारिसेणं चेव णक्खत्तणं' अन्येन--अपरेण तादृशेनैव नक्षत्रण 'जोयं जोएइ'
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy