SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ ४६८ चन्द्रप्रप्तिसूत्रे इत्यादि, 'ता' तावत् 'जज्ज' अद्य विवक्षिते दिने 'जेणं णक्खत्तेणं' येन नक्षत्रोण 'चंदे' चन्द्रः 'जोयं जोएइ' योगं युनक्ति 'जंसि देसंसि' यस्मिन् देशे 'से णं' स खलु चन्द्रः 'इमाई' मानि वक्ष्यमाणसंख्यकानि, तान्येवाह -'चउप्पण्णमुहुत्तसहस्साई' चतुष्पञ्चाशन्मुहूर्तसहस्राणि णव यमुहुत्तसयाई' नव च मुहूर्तशतानि (५४९००) 'उवाइणावित्ता' उपादाय अतिक्रम्य 'पुरवि' पुनरपि भूयोऽपि 'से चंदे स चन्द्र 'अण्णणं तारिसएणं चेव णक्खत्तेण' अन्येन तादृशेनैव नक्षत्रोण 'जोयं जोएई' योगं युनक्ति करोति, कुत्रोत्याह-'तसि देसंसि तस्मिन्नैव देशे, इति । अत्र वना चेत्थम्-विवक्षिते युगे विवक्षितानामष्टाविंशति नक्षत्राणां मध्ये येन नक्षत्रेण सह यस्मिन् देशे यदा चन्द्रस्य योगो जातस्ततो भूयस्तस्मिन्नेव देशे तदैव तेनैव नक्षत्रेण सह योगो विवक्षितयुगाद रभ्यतृतीये युगे भवति, न तु द्वितीये, कुतः ? इत्याह-इह युगादित आरभ्य प्रथमे नक्षत्रमासे एकानि अष्टाविंशतिनक्षत्राणि समतिक्रान्तानि, द्वितीयेन नक्षत्रमासेन तेभ्योऽपराणि द्वितीयानि, ततो भूयस्तृतीयेन नक्षत्रमासेन तान्येव प्रथमान्यष्टाविंशति नक्षत्राणि, चतुर्थेन भूयस्तान्येव द्वितीयानि अष्टाविंशति नक्षत्राणि समतिक्रान्तानीति । एवं सकलकालम् । युगे च नक्षत्रमासाः सप्तष ष्टः । सा च सप्तषष्टिसंख्या विषमेति विवक्षितयुगपरिसमाप्तिकालेऽन्यस्य युगस्य प्रारम्भे यानि विवक्षितयुगस्यादौ भुक्तानि नक्षत्राणि सन्ति तेभ्योऽपरान्येव द्वितीयानि नक्षत्राणि भोगमुपयान्ति, किन्तु न तान्येव युगद्वये च चतुस्त्रिंशदधिकमेकं शतं (१३४) मासानां भवति । सा च चतुस्त्रिंशदधिकशतसंख्या नक्षत्रमासानां समेति द्वितीय युगपरिसमाप्तिकाले षट्पञ्चाशदपि नक्षत्राणि समाप्तिमुपगच्छन्ति, ततो विवक्षितयुगादारभ्य तृतीये युगे तेनैव नक्षत्रोण तस्मिन्नेव देशे तदा चन्दस्ययोगो भवति । युगे चाहोरात्राणामष्टादशशतानि त्रिंशदधिकानि (१८३०) एकै कस्मिंश्चाहारात्रो मुहर्तास्त्रिशद् भवन्तीत्यतस्त्रिशदधिकानामष्टादशशतानां (१८३०) त्रिंशता गुणने भवति यथोक्तासंख्या चतुष्पञ्चाशद् मुहूर्तसहस्राणि नवशताधिकानि (५४९००), इति । यथोक्ता हूर्तसंख्यातिक्रमे च तादृशेनैव अन्येन नक्षत्रेण सह चन्द्रस्य योगस्तस्मिन्नेव देशे भवति, किन्तु न तेन नक्षत्रेण नान्यस्मिन् वा देशे, इति । पुनरप्याह-'ता जेणं' इत्यादि, 'ता' तावत् 'अज्ज' अद्य 'जे णं णक्खत्तेणं येन नक्षत्रेण 'चंदे' चन्द्रः 'जोयं जोएइ योगं युनक्ति 'जंसि देसि' यस्मिन् देशे 'से गं' स खलु चन्द्रः 'इमाइ इमानि वक्ष्यमाणसंख्यकानि, तान्येव 'प्रदर्यन्ते'एगं मुहूत्तसयसहस्सं' एक मुहूर्तशतसहस्रम् अट्ठाणउइ च मुहत्तसयाई अष्टनवति च हत्तशतानि, अर्थात् एकं लक्ष्य, नवसहस्त्राणि अष्ट शतानि मुहूर्तानामू (१०९८००) 'उवाइणाबित्ता' उपादाय-अतिक्रम्य, 'पुनरवि' पुनरपि 'से चंदे स चन्द्रः 'ते णं णक्खत्तेणं' तेन नक्षत्रोण 'जोयं जोएइ' योगं युनक्ति 'तंसि देसंसि' तस्मिन् देशे । भावनापूर्ववदेव, विशेषस्त्वेतावानेव-अत्र युगद्वयकालः-षष्टयधिक षट्त्रिंशच्छत (३६६९) प्रमिताऽहोरात्राणामस्ति, तत एष राशि कैक
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy