SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ૨૮ चन्द्र प्रज्ञप्तिसूत्रे अत्र पृच्छ्यते-यदि त्र्यशीत्यधिकैकशताहोरात्रैः षड् मुहूर्त्ता हानौ वृद्धौ वा भवन्ति तदा एकेनाहोरात्रेण अहो ० | मु० अहो ० |१८३ ६ १ || किं लभ्यते ! अत्रापि राशित्रयं भवति, स्थापनाच अत्रापि अन्त्येन राशिना जातास्त एव षट्, एते त्र्यशीत्यधिकशतेन भागह्रियते ततो भाज्यभाजक एककरूपेण मध्यराशिः षट्संख्यारूपो गुण्यते हरणं प्राप्यते किन्त्वत्रोपरितनस्य भाग्यराशेः स्तोकत्वेन भागों न राश्योखि केनापवर्त्तना क्रियते तेन जात उपरितनो राशिर्द्विकरूपः २, अधस्तनो राशिश्व --एकषष्टिरूपः। भगतौ द्वौ मुहूर्तैकषष्टिभागौ २ तौ चैकस्मिन्नहोरात्रे वृद्धिरूपेण हानिरूपेण वा ६१ प्राप्यते इति । 'से' सः 'णिक्खममाणे' निष्क्रामन् बहिर्निस्सरन् 'सूरिए' सूर्यः 'दोच्चंसि द्वितीये प्रथमस्यायनस्य द्वितीये 'अहोरत्तंसि' अहोरात्रे 'अब्भंत रं' आभ्यन्तरं 'तच्चं ' तृतीयं सर्वाभ्यन्तरमण्डलापेक्षया तृतीयं 'मंडल' मण्डलम् 'उवसंकमित्ता' उपसंक्रम्य प्राप्य 'चारं चरई' चारं चरति । 'ता' तावत् 'जया णं' यदा खलु 'सूरिए' सूर्यः 'अभितरं तच्चं मंडलं' आभ्यन्तरं तृतीयं मण्डलं 'उवसंकमित्ता' उपसंक्रम्य 'चारं चरई' चारं चरति 'तया णं' तदा खलु 'अहारसमुहुत्ते' अष्टादमुशहूर्त: 'दिवसे भवइ' दिवसो भवति किन्तु सः 'चउहिं एगसट्ठिभागमुहुत्तेर्हि' चतुभिरेकषष्टिभागमुहूर्तैः 'ऊणे' ऊनः हीनो भवति, तथा 'दुवालसमुहुत्ताराई भवः' द्वादशमुहूर्त्ता रात्रिर्भवति किन्तु सा च ' चउहिं एगसट्टिभागमुहुत्तेर्हि' चतुर्भिरेकषष्टिभागमुहूतैः 'अहिया' अधिका भवति, प्रत्यहोरात्रं प्रतिमण्डलं द्वाभ्यामेकषष्टिभागाभ्यां हीनत्वाधिकत्वसद्भावात् ' एवं खलु' एवं खलु एवम् अनेनैव प्रकारेण खलु निश्चितम् 'एएणं' एतेन पूर्वप्रदर्शितेन प्रत्यहोरात्रं प्रतिमण्डलमेकषष्टिभागेषु द्विभागरूपहानिवृद्धिरूपेण 'उवाएणं' उपायेन अनया रीत्या इत्यर्थः 'णिक्खममाणे ' ' निष्क्रामन् मण्डलपरिभ्रमणगत्या शनैः शनैः सर्वबाह्यमण्डलरूपदक्षिणाभिमुखं गच्छन् ' म्ररिए' सूर्यः ' तयाणंतराओ' तदनन्तरात् विवक्षितात् पूर्वस्थानरूपात् 'मंडलाओ' मण्डलात् 'तयाणंतरं' तदनन्तरं तदग्रेतनं 'मंडल' मण्डलं 'संकममाणे' संक्रामन् प्राप्नुवन, प्रत्यहोरात्रं 'दो दो' द्वौ द्वौ 'एगसद्विभागमुहुत्ते' एकषष्टिभागमुहूर्त्तो 'एगमेगे मंडले' एकैकस्मिन् मण्डले प्रतिमण्डलमित्यर्थः ' दिवसखेत्तस्स' दिवसक्षेत्रस्य दिवस भागस्य 'निब्बुड्ढेमाणे २' निर्वर्धयन् २ हापयन् २ दिवस न्यूनं कुर्वन्नित्यर्थः, तथा 'रयणिखेत्तस्स' रजनीक्षेत्रस्य रात्रिभागस्य 'अभिवुड्ढेमाणे २' अभिवर्धयन् २ रात्रिभागमधिकं कुर्वन्नित्यर्थः क्रमेण 'सव्वबाहिरं' सर्व बाह्यं चतुरशीत्यधिकशततमम् यत् त्र्यशीत्यधिकशततमें अहोरात्रे प्रथमषण्मास
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy