SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ चन्द्रशशिप्रकाशिका टीका प्रा० १-१ सू० ४ रात्रिन्दिवयोनि वृद्धिक्रमनिरूपणम् २७ मार्ग प्रति गच्छन् 'सूरिए' सूर्यः 'नव' नवं पूर्वसंवत्सरादन्यं 'सवच्छरं' संवत्सरं 'अयमाणे' अयन् प्राप्नुवन् तत्र प्रवर्त्तमान इत्यर्थः ' पढमे' प्रथमे तद्विषयके आधे 'अहोरच सि' अहोरात्रे 'अभितराणंतरं' अभ्यन्तरानन्तरं सर्वाभ्यन्तरमण्डलात् द्वितीयं 'मंडल' मण्डलम् 'उवसंकमित्ता' उपसंक्रम्य तत्र स्थित्वा 'चार चरई' चारं चरति परिभ्रमति गतिं करोतीत्यर्थः । 'ता' तावत् 'जया णं' यदा खलु 'सूरिए' सूर्यः 'अभितराणंतर मंडलं' अभ्यन्तरानन्तरं मण्डलं पूर्वोक्तं द्वितीयं मण्डलं 'उवसंकमित्ता चार चरइ' उपसंक्रम्य चारं चरति 'तया णं' तदा खलु - 'अद्वारसमुहुत्ते' अष्टादशमुहूर्त्तः 'दिवसे भवइ' दिवसो भवति किन्तु सः 'दोहिं' द्वाभ्यां 'एगसद्विभागमुहुत्ते हि' एकषष्टिभागमुहूर्त्ताभ्यां 'ऊणे' ऊनः न्यूनो भवति (१७ ) तथा 'राई' रात्रिः 'दुवालसमुहुत्ता' द्वादशमुहूर्त्ता भवति, सा च 'दोहिं एसट्टिभागमुहुत्ते अहिया' द्वाभ्यामेकषष्टिभागमुहूर्त्ताभ्यामधिका भवति ( १२ -- ) कथमेत६१ ५९ ६१ दिव्याह-इह चैकं मण्डलमेकेनाहोरात्रेण सूर्यद्वयद्वारा परिसमाप्यते, प्रत्यहोरात्रं मण्डलस्य त्रिंशदधिकाऽष्टादशशतसंख्यका (१८३०) भागाः परिकल्प्यन्ते तेषु एकैकः सूर्य एकैकं भागं दिवस क्षेत्रस्य रात्रिक्षेत्रस्य वा यथाकालं हापयिता वर्धयिता वा भवति, स च मण्डलगत एको भागस्त्रिंशदधिकाष्टादशशततमोऽन्तिमो भागो मुहूर्तै कष्टिभागेषु द्विभागरूपो भवति (2) ६१ तवेत्थम् - मण्डलस्य ते त्रिंशदधिकाष्टादशशत भागा : (१८३०) सूर्यद्वयमाश्रित्य एकेनाहोरात्रेण प्राप्यते, एकोऽहोरात्रश्च त्रिंशन् मुहूर्त्तप्रमाणो भवति, ते च त्रिंशन्मुहूर्त्ता एकैकसूर्याश्रयणेन सूर्य द्वयापेक्षया षष्टिर्मुहूर्त्ता भवन्ति, ततस्त्रैराशिकगणितक्रमावसरः प्राप्तः तथा च- यदि षष्टिभागाः - मुहू. मुहूर्त्तेषु त्रिंशदधिकाष्टादशशतभागा लभ्यन्ते तदा एकस्मिन् मुहूत्तै कति भागा लभ्यन्ते ? एवं भाजक - भाज्य - गुणक रूपराशित्रयस्थापना यथा - ६० | १८३० | १ अत्रान्त्येन एककरूपेण गुणकराशिना मध्यगतभाग्यराशिर्गुण्यते, भाजक भाज्य गुणकजातानि तान्येव त्रिंशदधिकाष्टादशशतानि (१८३०) एषामाद्येन षष्टि- राशि: राशि- राशि: रूपेण भाजकराशिना भागो हियते तदा लब्धाः सार्वत्रिंशद्भागाः (३०|) एतावन्तो भागा एकस्मिन् मुहूर्त्तं लभ्यन्ते । स चैको मुहूर्त्त एकषष्टिभागीक्रियते, ते एकषष्टिभागाः सार्द्धत्रिंशता विभाज्यते तत आगतौ द्वौ । एवमेको भाग आगतः - द्वाभ्यां मुहूर्तैकषष्टिभागाभ्याम् मुहू० ६१ अथ प्रकारान्तरमेतत्-त्र्यशीत्यधिकैकशताहोरात्रैः (१८३ ) षण्णां मुहूर्त्तानां हानिर्वृद्धिर्वा भवति,
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy