SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रतिसूत्रे व्याख्या – 'ता' तावत् 'अयं णं' अयं खलु प्रत्यक्षोपलभ्यमानः 'जम्बूद्दीवे दीवे' जम्बूद्वीपो द्वीपः जम्बूद्वीपाभिधानो मध्यजम्बूद्वीपः, स कीदृश: ? इत्याह- 'सव्वदीवसमुद्दाणं' सर्वद्वीपसमुद्राणाम् एतदतिरिक्तावशिष्टानां सर्वेषां द्वीपानां समुद्राणां च मध्ये 'सव्बन्धंतराए' सर्वाभ्यन्तरः सर्वथाऽभ्यन्तरवर्ती 'जाव विसेसाहिए' यावत् विशेषाधिकः, अत्र यावत्पदेन "सव्वखुड्डा वट्टे, तेल्लापूय संठाणसंठिए बट्टे, रहचक्कवालसंठाणसंठिए वट्टे, पुक्खरवरकण्णियासंठाणसंठिए बट्टे, पडिपुण्णचंद संठाणसंठिए जोयणसय सहस्समायामविक्खंभेणं तिन्नि जोयणसयसहस्साईं सोलस सहस्साईं दोन्नि य सत्तावी से जोयणसए तिन्नि कोसे अट्ठावीसं च धणुस, तेरस य अगुलाई अद्धगुलं च किंचि" इति पाठः संग्राह्यः । तथा च छायासर्वक्षुल्लको वृत्तः, तैलापूपसंस्थानसंस्थितो वृत्तः, रथचक्रवालसंस्थानसंस्थितो वृत्तः, पुष्करवरकर्णिकासंस्थानसंस्थितो वृत्तः, प्रतिपूर्णचन्द्र संस्थानसंस्थितः योजनशतसहस्रमायामविष्कम्भेन, त्रीणि योजनशतसहस्राणि षोडश सहस्राणि द्वे च सप्तविशतिर्योजनशते (३१६२२७) त्रयः क्रोशाः, अष्टाविंशतिश्च धनुःशतम्, त्रयोदश च अङ्गुलानि, अर्धाङ्गुलं च किञ्चिद् इति विशेषाधिक इति सम्बन्धः 'परिक्खेवेण पण्णत्ते' परिक्षेपेण परिधिना प्रज्ञप्तः । स च - आयामविष्कम्भाभ्यां लक्षयोजनप्रमाणत्वात् सर्वेभ्यो लघुः, 'वट्टे' त्ति वृत्तः गोलाकारः, तत्परिधिश्च - सप्तविंशत्यधिकद्विशतोंतरषोडशसहस्राधिकं लक्षत्रयं (३१६२२७) योजनानाम्, तदुपरि क्रोशत्रयम्, अष्टाविंशत्युत्तरमेकं शतं १२८ धनुषाम् पुनश्च त्रयोदशाङ्गुलानि किञ्चिद्विशेषाधिकमर्धमङ्गुलं चेतिपरिमिता । अस्य विशेषव्याख्याऽन्यत्र विज्ञेया । अस्मिन् जम्बूद्वीपे द्वीपे 'ता' इति तावत् 'जया णं यदा खलु यस्मिन् काले 'सूरिए' सूर्यः 'सव्वमंतरमंडलं' सर्वाभ्यन्तरमण्डलम् सूर्यसंचरणस्य सर्वमण्डलानि चतुरशीत्यधिकशत (१८४) संख्यकानि भवन्ति, तत्र यदा सूर्यः सर्वाभ्यन्तरमिति मेरोः पार्श्वस्य मण्डलं सर्वप्रथमं मण्डलमित्यर्थः 'उवसंकमित्ता' उपसंक्रम्य तत्रागत्य 'चारं चरइ' चारं चरति संचरति सायनकर्क संक्रान्तिपूर्वदिवसे इति भावः 'उत्तमक पत्ते' उत्तमकाष्ठाप्राप्तः पराकाष्ठाप्राप्तः, अत्र काष्ठाशब्दः प्रकर्षार्थवाचकस्तेन परमप्रकर्षप्राप्तः इत्यर्थः, अतएव 'उक्को' उत्कर्षकः उत्कृष्टः यतोऽधिकोऽन्यो दिवसो न भवति स इति भाव: 'अहारसमुहुत्ते' अष्टादशमुहूर्त्तः अष्टादशमुहूर्त्तपरिमितकालयुक्तः षट्त्रिंशद्घ टिकायुक्त इत्यर्थः ' दिवसे भवई' दिवसो भवति ' जहणिया' जघन्यिका सर्वलध्वी 'दुवालसमुहुत्ता' द्वादशमुहूर्त्ता द्वादशमुहूर्त्तपरिमिता चतुर्विंशतिघटिकायुक्तेत्यर्थः ' राई भवर' रात्रिर्भवति जम्बूद्वीपे क्षेत्रविशेषे इति भावः । एष अहोरात्रः पाश्चात्य सूर्य संवत्सरस्य पर्यवसानम् । २६ अथ सूर्यस्य सर्वाभ्यन्तर मण्डलात् निष्क्रमणविषये प्राह-- -' से निक्खममाणे ' इत्यादि, 'से' सः 'निक्खममाणे' निष्क्रामन् सर्वाभ्यन्तररूपप्रथम मण्डलाद्द्बहिर्गमन
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy