________________
४६२
.. ६०१२.
चन्द्रप्रज्ञप्तिसूत्रे स्यां परिसमापयतीति भावः तथाहि-अत्रापि स एव ध्रुवराशि:--६६।५।१। द्वादश्यमावास्यायाश्चिन त्यमानत्वाद् द्वादशभिर्गुण्यते जातानि द्विनवत्यधिकानि मुहूर्तशतानि, एकस्य च मुहूर्तस्य द्वाषष्टिभागा ( ७९२-१८-)एतस्माद् राशेः द्विचत्वारिंशदधिकानि चत्वारि मुहूर्तशतानि, एकस्य च मुहूर्त्तस्य षट्चत्वारिंशद् द्वाषष्टिभागाः (४४२-४६) अश्लषात आरभ्य उत्तराषाढ़ापर्यन्तानां त्रयोदशानां नक्षत्राणां शोध्यन्ते, स्थितानि पश्चात् पञ्चाशदधिकानि त्रीणि मुहूर्तशतानि, एकस्य च मुहूर्तस्य चतुर्दश द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य द्वादश सप्तषष्टि भागाः (३५०।५४१-२) पुनरेतस्माद् राशेः नवोतराणित्रीणि मुहर्तशतानि, एकस्य मुहूर्तस्य चतुर्विशति
६२६७
1६२६७
पिष्टि भागाः, एकस्य च द्वाषष्टिभागस्य षट्षष्टिः सप्तष्टिभागाः (३०९।२४६६ ) अभिजित आरभ्य रोहिणी पर्यन्तानामेकादशानां नक्षत्राणां शोध्यन्ते, स्थिताः पश्चात् चत्वारिंशन्मुहूर्ताः, एकस्य च मुहूर्तस्य एकपञ्चाशद् द्वाषष्टि भागाः, एकस्य च द्वाषष्टिभागस्य त्रशोदश सप्तषष्टि भागाः (४०५१/१३) एतस्मात्-मृगशीर्षस्य त्रिंशन्मुहर्ताः शोध्यन्ते, स्थिताः पश्चाद् दश मुहूर्ताः
६
शेषास्त एवेति (१०५११३ ) तत आ नक्षत्रस्य पञ्चदशमुहूर्तात्मकत्त्वात्तस्य चन्द्रेण सह युक्तस्य चतुर्दा मुहूर्तेषु, एकस्य च मुहूत्र्तस्य दशसु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य चतुष्पञ्चाशति सप्तषष्टि भागेषु (४१.०५४) शेषेषु द्वदशी अमावास्या परिसमाप्तिमुपयातीति ।
अथ सूर्यनक्षत्रयोगमाह-'तं समयं च णं' इत्यादि, तं समयं च णं' तस्मिन् समये च द्वादशामावास्या चन्द्रयोगसमये खलु 'सूरिए' सूर्यः 'केणं णक्खत्तणं' केन नक्षत्रण युक्तः सन् दादशोममावास्याँ 'जोएई' युनक्ति परिसमापयति ? भवगवानाह'ता अदाए चेव' इत्यादि, 'ता' तावत् 'अदाए चेव' आर्द्रायैव सूर्योऽपि आर्द्रानक्षत्रेणैव युक्तो भूत्वा चन्द्रवत् द्वादशीममावास्यां परिसमापयति । तदेवाह-'अदाए' आर्द्रायाः, इत्यादि सर्व मुहूर्त्तादि प्रमाणं 'जहा' यथा येन प्रकारेण 'चंदस्स' चन्द्रस्य चन्द्रसूत्रे कथितं तथैवात्रापि विज्ञेय मिति ।।
अथ चरमद्वाषष्टितमाममावास्याविषयं सूत्रमाह-'ता एएसिणं' इत्यादि, गौतमः पृच्छति 'ता' तावत् 'एएसिगं' एतेषां खलु 'पंचण्हं संवच्छाराणं' पञ्चानां संवत्सराणां मध्ये 'चरिम' चरमां युगपर्यन्तवर्तिनीं 'बावढि अमावासं' द्वाषष्टिं द्वाषष्टितमाममावास्यां 'चंदे' चन्द्रः 'केण णक्ख