SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ चन्द्रशप्तिप्रकाशिकाटीकाप्रा.१०प्रा.प्रा.२२ सू.९ सू.च.योरमावास्यापरिसमाप्तिनिरूपणम् ४६३ तेणं' केन नक्षत्रेण युक्तो भूत्वा 'जोएई' युनक्ति परिसमापयति ! भगवानाह-'ता पुणव्वमुहि' इत्यादि, 'ता' तावत् 'पुणवमुहि' पुनर्वसुभिः पञ्चतारकत्वाद्बहुवचनम् पुनर्वसु नक्षत्रेण सह योगं कुर्वन् चन्द्रश्चरमां द्वाषष्टितमाममावास्यां परिसमापयति । तदेव स्पष्टयति-'पुणव्वसूणं' इत्यादि, 'पुणव्वसूर्ण' पुनर्वसूनां पुनर्वसुनक्षत्रस्य' बावीसं मुहुत्ता' द्वाविंशतिर्मुहूर्ताः 'छायालीसं च बावविभागा मुहुत्तस्स' षट्चत्वारिंशच्च द्वाषष्टिभागा मुहूर्त्तस्य (२२-१६, ‘सेसा' शेषा अवशिष्टाभवेयुस्तदा चन्द्रः पुनर्वसुनक्षत्रस्य पूर्वोक्त शेषभागयुक्तः सन् चरमां द्वाषष्टितमाममावास्यां परिसमापयति । तथा च स एव ध्रुवराशिः ६६ ।५।१। द्वाषष्टितमाऽमावास्याचिन्तायां द्वाषष्टया गुण्यते, जातानि द्विनवत्यधिकानि चत्वारिंशन्मुहूर्त्तानि, एकस्य मुहूर्तस्य दशोत्तराणि त्रीणि शतानि द्वाषष्टि भागानाम् एकस्य च द्वाषष्टि भागस्य द्वाषष्टिः सप्तषष्टि भागाः (१०९२३१० ६७ १२) । तत एतस्मात् चतुर्भिः शतैर्द्विचत्वारिंशदधिकै मुहूर्तानाम् एकस्य च मुहूर्त्तस्य षट्चत्वारिंशताद्वाषष्टि भागः (४४२-४६) प्रथमं शोधनकं शोध्यते, स्थितानि पञ्चाशदधिकानि षट्त्रिंशन्मुइतशतानि, एकस्य च मुहूर्तस्य चतुष्षष्टयधिके द्वे शते द्वाषष्टि भागानाम्, एकस्य च द्वाषष्टिभागस्य द्वाषष्टिः सप्तषष्टिभागाः (३६५० २६४ ६२। ) ततोऽभिजित आरभ्योत्तराषाढापर्यन्त २५ । ६२ ६७ सकलनक्षत्रपर्यायविषयं शोधनकम् एकोनविंशत्यधिकानि अष्ट मुहर्तशतानि, एकस्य च मुहूर्तस्य चतुर्विशति षिष्टिभागाः, एकस्य च द्वाषष्टिभागस्य षट्षष्टिः सप्तषष्टिभागाः (८१९ । २४ । ६६ । ), इत्येवं प्रमाणं चतुर्भिर्गुणयित्वा शोध्यते, स्थितानि पश्चात् चतुः सप्तत्यघिकानि त्रीणि शतानि मुहूर्तानाम्, एकस्य च मुहूर्तस्य चतुष्षष्टयधिकमेकशतं द्वाषष्टिभागानाम्, एकस्य च द्वाष्टिभागस्य षट्षष्टिः सप्तषष्टिभागाः (३७४ । १६४ । ६६) ततो भूयोऽपि नवोत्तरै स्त्रिभिर्मुहूर्तशतैः, एकस्य च मुहूर्तस्य चतुर्विशत्या द्वाषष्टिभागः, एकस्य च द्वाषष्टिभागस्य षट्पष्टया सप्तषष्टिभागैः, (३०९। २५६६) अभिजित आरभ्य रोहिणी पर्यन्तान्येकादश नक्ष २०६७ त्राणि शोध्यानि, स्थिताः पश्चात् सप्तषष्टि मुहूर्ताः, एकस्य च मुहूर्तस्य षोडश द्वाषष्टि भागाः, (६७।१६), तत स्त्रिंशन्मुहर्ता मृगशिरसः, पञ्चदश च आर्द्राया इति पञ्चचत्वारिंशन्मुहूर्ताः
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy