SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ ६२६ चन्द्राप्तिप्रकाशिकाटीकाप्रा.१०प्रा.प्रा २२सू. ९ सू च.योरमावास्यापरिमाप्तिनिरूपणम् ४६१ हस्तनक्षत्रेण सह युक्तश्चन्द्रस्तृतीयाममावास्यां परिसमापयति । तदेव स्पष्टयति--'हत्थस्स' इत्यादि 'हत्थस्स' हस्तनक्षत्रस्य 'चत्तारि मुहुत्ता' चत्वारो मुहर्ताः 'तीसं च बावद्विभागा मुहुत्तस्स' त्रिंशच्च द्वाषष्टिभागा मुहूर्तस्य, तथा 'बावट्ठिभाग च' द्वाषष्टिभागं च 'सत्तढिहा छित्ता' सप्तषष्टिधा सप्तषष्टिभागैः छित्त्वा विभज्य तत्सम्बन्धिनः 'बावट्ठीचुण्णियाभागा' द्वाषष्टिश्चर्णिकाभागाः (४-२०)यदा 'सेसा' शेषा अवशिष्टास्तिष्ठेयुस्तदा चन्द्र स्तृतीयाममावास्यां परिसमा पयति । तथाहि स एव ध्रुवराशिः ६६।५।१। तृतीयाममावास्याऽ चिन्त्यतेऽतस्त्रिभिर्गुण्यते तदा जातम्--अष्टानवत्यधिकं मुहूर्तशतम् , एकस्य च मुहूर्तस्य पञ्चदशद्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य त्रयः सप्तषष्टिभागाः (१९८।१५।३), एतस्माच्च राशेः द्विसप्तत्यधिकेन मुहूर्त्तशतेन, एकस्य च मुहूर्तस्य षट्चत्वारिंशता द्वाषष्टिभागैः (१७२ -४६) अश्लेषात आरभ्य उत्तराफाल्गुनी पर्यन्तानि चत्वारि नक्षत्राणि शोध्यन्ते, शोधिते च पश्चादवतिष्ठन्ते पञ्चविंशतिर्मुहूत्ताः, एकस्य मुहूर्तस्य एकत्रिंशद् द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य त्रयः सप्तषष्टिभागाः (२५।३१।३) तत आगतम् हस्तनक्षत्र चन्द्रेण सह योग युञ्जन् सत् स्वस्य त्रिंशन्मुहूर्तात्मकत्वात् चतुएं मुहूर्तेषु, एकस्य च मुहर्तस्य त्रिंशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य चतुःषष्टौ सप्तषष्टिभागेषु शेषेषु (४।३०।६४) तृतीयाममावास्यां परिसमापयतीति ।। ___अथ सूर्येण सह नक्षत्र योगमाह--'तं समयं च णं' इत्यादि 'तं.समयं च णं' तस्मिन् समये च खलु चन्द्रस्य तृतीयाममावास्या परिसमाप्तिवेलायां 'सूरिए' सूर्यः 'केणं णक्खत्तेणं' केन नक्षत्रेण युक्तो भूत्वा तृतीयाममावास्यां 'जोएइ' युनक्ति परिसमापयति ? भगवानाह-- 'ता हत्थेणं चेव' तावत् हस्तेनैव, सूर्योऽपि चन्द्रवत् हस्तनक्षत्रेणैव युक्तो भूत्वा तृतीयाममावास्यां परिसमा पयति । तदेवाह--'हत्थस्स' हस्तस्य हस्तनक्षत्रस्य इत्यादि सर्व 'जहा चंदस्स' यथा चन्द्रस्य कथितं तथैवात्राप्यवसेयमिति यत उभयोरपि चन्द्रसूर्ययोः करणस्यात्र समानार्थत्वमिति । अथ द्वादश्या अमावास्याया विषये चन्द्रसूर्यनक्षत्र योगसूत्रमाह-'ता एएसिणं' इत्यादि, 'ता' तावत् ‘एएसिणं' एतेषां खलु पंचण्हं संघच्छराणं' पञ्चानां संवत्सराणां मध्ये 'दुवालसं' द्वादशीम् 'अमाघासं' अमावास्यां 'चंदे' चन्द्रः 'केण णक्खत्तेणं' केन नक्षत्रेण युक्तः सन् 'जोएई' युनक्ति परिसमापयति ? भगवानाह-'अदा' आर्द्रया आर्द्रानक्षत्रेण सह युक्तो भूत्वा चन्द्रो द्वादशीममवास्यां परिसमापयति । तदेव स्पष्टयति--'अदाए' आर्द्रायाः 'चत्तारि मुहुत्ता' · चत्वारो मुहूर्ता, 'दसय बावद्विभागा मुहुत्तस्स' दश च द्वापष्टिभागा मुहूर्तस्य 'बावट्ठिभागं च' द्वाप्टिभाग च 'सत्तटिहा छित्ता' सप्तषष्टिधा छित्त्वा विभज्य तत्सम्बन्धिनः 'चउप्पण्णं चुण्णियाभागा' चतुष्पञ्चा शच्चूर्णिकाभागाः (४- - यदा 'सेसा' शेषा अवशिष्टा भवेयुस्तदा चन्द्रो द्वादशीममावा २०६७
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy