SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ ४६० चन्द्रप्रज्ञप्तिसूचे। एकस्य च द्वाषष्टिभागस्य सप्तषष्टिधा विभक्तस्य द्वौ चूर्णिकाभागौ ( १३२-१०२अस्मात् प्रथमं पुनर्वसु शोधनकं शोध्यते, तथाहि द्वत्रिंशदधिका मुहूर्त्तशतात् द्वाविंशतिर्मुहूर्ताः शोध्यन्ते, स्थितं पश्चाद्दशोत्तरं शतधिकम्, अस्मात् एक रूपं गृहीत्वा तस्य द्वाषष्टिभागाः क्रियन्ते, ते च द्वाषष्टिभागाः दशकरूपे द्वाषष्टिभागराशौ प्रक्षिप्यन्ते, जाता द्विसप्ततिषिष्टिभागाः, तेभ्यः षट्चत्वरिंशत् शोध्यन्ते, स्थिताः पश्चात् षड्विंशतिः, नवोत्तरात् मुहूर्तशतात् त्रिंशन्मुहूर्ताः पुष्यस्य शोध्यन्ते, स्थिता पश्चादेकोनाशीतिः, अस्मादपि राशेः पञ्चदशमुहूर्त्ता अश्लेषायाः शोध्यन्ते, स्थिता पश्चाच्चतुष्षष्टिः, ततोऽपि. त्रिंशन्मुहर्ताः मधाया शोध्यन्ते स्थिताश्चतुर्विंशत् पुनरपि . ततस्त्रिंशन्मुहर्ताः पूर्वाफाल्गुन्याः, शोध्यन्ते, स्थिताः पश्चाच्चत्वारो मुहूर्ताः । ४ । २६ । २ तत उत्तराफाल्गुनीनक्षत्रं द्वयबर्धक्षेत्रमिति पञ्चचत्वारिंशन्मुहूर्तात्मकम्, तत इदमागतम्-- उत्तराफल्गुनीनक्षत्र चन्द्रयोगयुक्तं स्वस्य चत्वारिंशतिमुहूर्तेषु, एकस्य च मुहूर्तस्य पञ्चत्रिंशतिषिष्टिभागेषु, एकस्य च द्वाषष्टि भागस्य सप्तषष्टिधा विभक्तस्य पञ्चषष्टौ चर्णिकाभागेषु ( ४०-२५/६५ शेषेषु द्वितीयाममावास्यां परिसमापयतीति । ६२६७ साम्प्रतमस्यामेव द्वितीयस्याममावास्याया सूर्यनक्षत्रयोगमाह-गौतमः पृच्छति-'तं समय च ण' इत्यादि, 'त समयं च णं' तस्मिन् समये च खलु द्वितीयाममावास्यायां चन्द्रयोगसमये 'सरिए' सूर्यरतां द्वितीयाममावास्यां 'केणं णक्खत्तेणं' केन नक्षत्रेण सार्ध भूत्वा 'जोएइ' युनक्ति परिसमापयति ? । भगवानाह-'उत्तराफग्गुणीहिं चेव' उत्तराफाल्गुनीभ्यामेव सह योगं कुर्वन् सूर्यो द्वितीयाममावास्यां परिसमापयतीति-उत्तराफरगुणीणं उत्तराफल्गुन्योः 'जहेव चदम्स' यथैब चन्द्रस्य यथा द्वितीयाममावास्यायामुत्तराफाल्गुनीनक्षत्रेण सह चन्द्रयोगविषये मुहूर्तादिकं प्रतिपादितं तथैवात्रापि द्वितीयाममावास्यायां सूर्ययोगविषयेऽपि वक्तव्यम् यथा उत्तराफाल्गुनोनक्षत्रस्य चत्वारिंशन्मुहूर्ताः, एकस्य च मुहूर्तस्य पञ्चषष्टि चर्णिकाभागा (४०।३५।६५) यदा शेषा भवेयुस्तदा द्वितीयाममावास्यां सूर्योऽपि परिसमापयति । अत्रामावास्याप्रकरणे चन्द्रयोगसदृशमेव सूर्ययोगविषयेऽपि सर्वं वक्तव्यम् करणस्य समानत्वात्, एवमग्रेऽपि ज्ञातव्यमिति ।२। अथ तृतीयाममावास्याविषयकं सूत्रमाह—'ता एएसिणं' इत्यादि, गौतमः पृच्छति- 'ता' तावत् ‘एएसिणं' एतेषां खलु 'पंचण्हं संवच्छराणं' पञ्चानां संवत्सराणां मध्ये 'तच्चं अमावासं' तृतीयाममावास्यां 'चंदे' चन्द्रः 'केणं णक्खत्तेणं' केन नक्षत्रेण युक्तः सन् 'जोएई' युनक्ति परिसमापयति ? भगवानाह-'ता हत्थेहिं' इत्यादि, 'ता' तावत् 'हत्थेहिं हस्तैः पञ्चतारकात्मकेन
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy