________________
चन्द्रशतिप्रकाशिकाटीकाप्रा. १०प्रा. प्रा. २२सू. ९ सू.च. योरमावास्यापरिसमाप्तिनिरूपणम् ४५९ षष्टे मुहूर्त्तेभ्यो द्वाविंशति र्मुहूर्त्ताः शोध्यन्ते, स्थिताः पश्चाच्चतुश्चत्वारिंशत् (४४) तेभ्य एकं मुहूर्त्तं गृहीत्वा तस्य द्वाषष्टिभागाः क्रियन्ते, ते च द्वाषष्टिभागराशौ पञ्चकरूपे प्रक्षिप्यन्ते, जाताः सप्तषष्टिः (६७) एतेभ्य षट्चत्वारिंशत् शोध्यन्ते, तिष्ठन्ति शेषा एकविंशतिः, तृतीयो राशिः स एव एककरूपः (४३- २१ - १), अत्र त्रिचत्वारिंशन्मुहूर्त्तेभ्यस्त्रशन्मुहूर्त्ताः पुष्यस्य शोध्याः, स्थिता पश्चात् त्रयोदशमुहूर्ताः, अश्लेषा नक्षत्र चार्धक्षेत्रत्वात् पञ्चदशमुहूर्तात्मकम्, तत आगतम्अश्लेषानक्षत्रस्य एकस्मिन् मुहूर्त्ते, एकस्य च मुहूर्त्तस्य चत्वारिंशति द्वाषष्टिभागेषु, एकं च द्वाषष्टिभागं सप्तषष्टिधा छित्त्वा तत्सम्बन्धिषु षट्षष्टिभागेषु शेषेषु चन्द्रः प्रथमाममावास्यां परिसमापयतीति । अथामावास्यया सह सूर्यनक्षत्रयोगमाह - 'तं समयं च णं' इत्यादि, 'तं समयं च णं' तस्मिन् समये च खलु यदा चन्द्रः प्रथमाममावास्यां परिसमापयति तदेत्यर्थः, 'सूरिए ' सूर्य: 'के णं णक्खत्तेणं' केन नक्षत्रेण युक्तः सन् 'जोएइ' युनक्ति - परिसमापयति ? भगवानाह - - ' ता अस्से साहिं' इत्यादि, 'ता' तावत् 'अस्से साहिं चेव' अश्लेषाभिरेव अश्लेषानक्षत्रणैव सह योगं कुर्वन् सूर्य : प्रथमाममावास्यां परिसमापयति । तदेव स्पष्टयति 'अस्सेसणं' अश्लेषानाम्-अश्लेषानक्षत्रस्य 'एक्को मुहूत्तो' एको मुहूर्त्तः ' चत्तालीसं च वावट्टिभागा मुहुत्तस्स' चत्वारिंशच्च द्वाषष्टिभागा मुहूर्त्तस्य' 'वावट्टिभागं' द्वाषष्टिभागं 'सत्तट्ठिहा छित्ता' _४०६६ सप्तषष्टिधा छित्वा-विभज्य 'छावट्ठी चुण्णियाभागा' षट्षष्टि चूर्णिकाभागाः (१ >
---
६२/६७
'सेसा' शेषा अवशिष्टास्तिष्ठेयुस्तदा सूर्याऽपि प्रथमाममावास्यां परिसमापयति ।
गौतमः पृच्छति - - ' ता एससिणं' इत्यादि, 'ता' तावत् एएसिणं' एतेषां 'पंचाई संवच्छराणं' पञ्चानां संवत्सराणां मध्ये 'दोच्चं अमावासं' द्वितीयाममावास्यां 'चंदे' चन्द्रः 'केणं णक्खत्तेणं जोएइ' केन नक्षत्रेण सह योगं कुर्वन् युनक्ति परिसमापयति ? भगवानाह - 'ता उत्तराफग्गुणीहिं' इत्यादि 'ता ' तावत् उत्तराफाग्गुणीहिं' उत्तराफाल्गुनीभ्याम् सूत्रे प्राकृतत्वाद् द्विवचनस्थाने बहुवचनम् उत्तराफाल्गुनीनक्षत्रेण युक्तः सन् चन्द्रः द्वितीयाममावास्यां परिसमापयति । तदेव स्पष्टयति-उत्तराफग्गुणीणं' उत्तरा फल्गुन्योः 'चत्तालीसं मुहूत्ता' चत्वारिंशन्मुहूर्त्ताः, ' पणती बावट्टिभागा मुहुत्तस्स' पश्चत्रिंशद्वाषष्टिभागा मुहूर्त्तस्य, 'बावद्विभागं च ' द्वाषष्टिभागं च 'सत्तडिहा छित्ता' सप्तषष्टिधा छिन्त्वा 'पण्णट्टीचुणिया भागा' पञ्चषष्टिश्चूर्णिकाभागाः (80-) _३५६५ ‘सेसा' शेषाः अवशिष्टा भवेयुस्तदा चन्द्रो द्वितीयामावास्यां परिसमापयतीति
६२ ६७
भावः तथाहि — स एव ध्रुवराशिः ६६ । ५ । १ । द्वितयाममावास्याश्चिन्त्यमानत्वाद् द्वाभ्यां गुण्यते, जातं द्विगुणम् – द्वात्रिंशदधिकं मुहूर्त्तशतम् एकस्य च मुहूर्त्तस्य दश द्वाषष्टिभागाः,