________________
४५८
चन्द्रप्रक्षप्तिसूत्रे रिंशन्मुहूर्ताः, पञ्चत्रिंशद् द्वाषष्टिभागा मुहूर्तस्य, द्वापष्टिभागं च सप्तषष्टिधा छित्त्वा पञ्चषष्टिप्रचूर्णिका भागाः शेषाः तस्मिन् समये च खलु सूर्यः केन नत्रत्रेण युनक्ति ? तावत् उत्तराफल्गुनीभ्यामेब, उत्तराफाल्गुन्योः यथैव चन्द्रस्य । तावत् एतेषां खलु पञ्चानां संवत्सराणां मध्ये तृतीयाममावास्यां चन्द्रः केन नक्षत्रेण युनक्ति १, तावत हस्तः, हस्तानां चत्वारो मुहूर्ताः, त्रिंशच द्वाषष्टि भागा मुहू तस्य द्वाषष्टिभागं च सप्तषष्टिधा छित्त्वा द्वाषष्टिश्चूर्णिका भागाः शेषाः । तस्मिन् समये च खलु सूर्यः केन नक्षत्रेण युनक्ति ? तावत् हस्तैरेव, हस्तानां यथा चन्द्रस्य । तावत् :एतेषां खलु पञ्चानां संवत्सराणां द्वादशीममावास्यां चन्द्रः केन नक्षत्रेण युनक्ति ? आर्द्रया, आर्द्रायाश्चत्वारो मुहूर्ताः, दश च द्वाषष्टिभागा मुहर्त्तस्य, द्वापष्टिभागं च सप्तषष्टिधा छित्त्वा चतुष्पञ्चाशत्चर्णिका भागाः शेषाः । तस्मिन् समये च खलु सूर्यः केन नक्षत्रेण युनक्ति ? तावत्
यैव आाया यथा चन्द्रस्य तावत् एतेषां खल पञ्चानां संवत्सराणां चरमां द्वाषष्टिममावास्यां चन्द्रः केन नक्षत्रेण युनक्ति १ तावत् पुनर्वसुभिः पुनर्वसूनां द्वाविंशति मुहूर्ताः, षट्चत्वारिंशच्च द्वाषष्टिभागा मुहूर्तस्य शेषाः । तस्मिन् समये च खलु सूर्यः केन नक्षत्रेण युनक्ति ?, तावत् पुनर्वसुभिरेव, पुनर्वसूनां खलु यथा चन्द्रस्य । सूत्र ॥९॥
व्याख्या--'ता एएसि णं' इति, गौतमः पृच्छति-'ता' तावत् एएसि णं' एतेषां खलु 'पंचण्हं संवच्छराण' पञ्चानां संवत्सराणां-मध्ये 'पढम' प्रथमा युगस्यादिसमयवर्तिनीम् 'अमावासं' अमावास्यां 'चंदे' चन्द्रः 'केणं णक्सत्तेणं' केन नक्षत्रेण युक्तः 'जोएइ' युनक्ति परिसमापयति ? भगवानाह-'ता अस्सेसाहि' तावत् अश्लेषाभिः सह युक्तश्चन्द्रः प्रथमाममावास्यां परिसमापयतीति भावः ! 'अस्सेसाहिं' इति-अश्लेषानक्षत्रस्य षट्तारकत्वात्तदपेक्षया बहुवचनम् ! प्रथमाममावास्या परिसमाप्तिसमये 'अस्सेसाणं' अश्लेषानाम्-अश्लेषानक्षत्रस्य 'एक्कोमुहुत्तो' एको मुहूर्तः 'चत्तालीसं' च बावद्विभागा मुहुत्तस्स' चत्वारिंशच्च द्वाषष्टिभागा मुहूर्तस्य, 'बावट्ठिभागं च सत्तट्ठिहा छित्ता' द्वाषष्टिभागं च सप्तषष्टिधा छित्वा विभज्य 'छावष्टि' षट्षष्टिः 'चुणिया भागा' चूर्णिकाभागाः (१-१९६६) 'सेसा' शेषा अवशिष्टा भवेयुस्तदा चन्द्रः प्रथमाममावास्यां परिसमापयतीतिभावः । तत्कथमित्याह सएव ध्रुवराशिः ६६ । ५। १ अत्र प्रथमामावास्या चिन्त्येतेऽतो सौ एकेन गुण्यते, एकेन गुणितं तदेव ६६ । ५ । १ भवतीति, ततएतस्मात्-'बावीसं च मुहुत्ता, छायालीसं बिस द्विभागा य एयं पुणव्वसुस्स य, सोहेयव्वं हवइ पुण्णं' ॥ १ ॥ छाया-'द्वाविंशति मुहूर्ता, षट्चत्वारिंशद् द्विषष्टिभागाश्च । एतत् पुनर्वसोश्च शोधयित्वा भवति पूर्णम्” इति वचनाद् द्वाविंशति मुहूर्ताः, एकस्य च मुहूर्तस्य षट्चत्वारिंशद् द्वाषष्टि भागाः ( २२-४६ ) इत्येतत्प्रमाणं पुनर्वसोः शोधनकं शोध्यते, तत्र षट्