SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ चन्द्रशतिप्रकाशिका टीकाप्रा. १०प्रा प्रा २२.८ च. सू. वा केन न. पौर्णमासीं परिसमापयति ४५५ ६२ ६७ स्य सप्तचत्वारिंशत् सप्तषष्टिभागाः ( २८- ५३ | ४७ 2) ततः पुनर्वसु नक्षत्रस्य पञ्चचत्वारिंशन्मुहूर्त्तात्मकत्वात्पुनर्वसु नक्षत्र षोडशसु मुहूर्तेषु, एक च मुहूर्तस्याष्टसु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य विंशतौ सप्तषष्टिभागेषु ( १६८ ।२० ) शेषेषु सूर्यो द्वादशीं ६२।६७ पौर्णमासी परिसमापयतीति । अथ युगस्य पर्यन्तवर्त्तिन्यां चरमायां द्वाषष्टितमायां पौर्णमास्यां चन्द्रनक्षत्रयोगमाह--'ता 'एएसि णं' इत्यादि, गौतमः पृच्छति 'ता' तावत् 'एएसि णं' एतेषां खलु 'पंचण्डं संवच्छराणं' पञ्चानां संवत्सराणं मध्ये 'चरमं' 'चरमां' युगपर्यन्तवर्त्तिनीं ' बावडिं' द्वाषष्टि--द्वाषष्टितमां 'पुण्णमा सिणि' पौर्णमासीं 'चंदे' चन्द्रः 'केण णक्खत्तेणं' केन नक्षत्रेणायुक्तः सन् 'जोए ' युनक्ति परिसमापयति ? भगवानाह - 'उत्तरासादाहिं' उत्तराषाढाभ्याम् अत्राप्यस्य द्वितारकत्वाद् द्विवचनम् उत्तराषाढा नक्षत्रेण सह योगं युञ्जन् चन्द्रः चरमां द्वाषष्टितमां पौर्णमासों समापयतीति भावः । तदेव स्पष्टयति 'उत्तरासाढाणं' उत्तराषाढयोः उत्तराषाढानक्षत्रस्य 'चरमसमए' चरम समये सर्वान्तिमवेलायां चन्द्रश्चरमां द्वाषष्टितमां द्वाषष्टितमां पौर्णमासीं परिसमापयतीति तदेव दर्शयति - स एव ध्रुवराशिः ६६ । ५ । १ । चरमद्वाषष्टितमपौर्णमास्या श्चिन्त्यमानत्वात् द्वाषष्ट्या गुण्यते, जाता द्विनवत्यधिक चत्वारिंशच्छतमुहूर्त्ताः, एकस्य च मुहूर्त्तस्य दशोत्तरत्रिशतसंख्यका द्वाषष्टिभागाः, एकस्य च द्वाषष्टि भागस्य द्वाषष्टिः सप्तषष्टिभागाः (४०९२ - ३१० । ६२) ६२ ६७ तत एतस्माद् 'असयउगुणवीसा, सोहणगं उत्तराणसाढाणं । चउवीसं खल भागा छाडी चुणियाओ य ॥१॥ अष्टशतानेि एकोनविंशानि । एकोनविंशत्यधिकाष्टशतानि (८१९) शोधनकम् उत्तराणामाषाढानाम् चतुर्विंशतिः खलु भागाः, षट्षष्टि चूर्णिका ॥ इतिच्छाया | तत्र एकोनविंशत्यधिकाष्टशतमुहूर्त्ताः, एकस्य च मुहूर्त्तस्य चतुर्विंशति द्वाषिष्टिभागाः, एकस्य च द्वाषष्टिभागस्य षट् षष्टिः सप्तषष्टिभागाः (१९–२४ । । इत्येवं प्रमाणमेकं सकल नक्षत्र - ६६ ६२ ६७ पर्यायशोधनकं पञ्चभि र्गुणयित्वा शोध्यते, पूर्वोक्तप्रकारेण शोध्यमानं च तत् परिपूर्णं शुद्धिमु“पैतीति न किञ्चिदवशिष्यते तत आगतम् - उत्तराषाढा नक्षत्रं परिपूर्णं चन्द्रेण सह योगं युञ्जन् चरमसमये चरमां द्वाषष्टितमां पौर्णमासीं परिसमापयतीति । साम्प्रतमस्यामेव चरमायां द्वाषष्टितमायां पौर्णमास्यां सूर्य नक्षत्रयोगमाह - 'तं समयं च णं' इत्यादि, गौतमः पृच्छति यस्मिन् समये चन्द्रश्वरमद्वाषष्टितमपौर्णमासीं परिसमापयति तं समयं
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy