SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ ४५६ चन्द्रप्रक्षप्तिसूत्रे च णं' तस्मिन् समये च खलु 'सूरिए' सूर्यः 'केणं णक्खत्तेणे' केन नक्षत्रेण सह युक्तः सन् चरमद्वाषष्टितमा पौणमासों परिसमापयति ? भगवानाह- 'ता पुस्सेणं' इत्यादि, 'ता' तावत् 'पुस्सेणं' पुष्येण पुष्यनक्षत्रेण सह योगं युजन् सूर्यश्चरमां द्वाषष्टितमां पौर्णमासी परिसमाषयती ति भावः । तदेव स्पष्टयति-'पुस्सस्स' पुष्यस्य पुष्यनक्षत्रस्य ‘एगूणवीसं मुहुत्ता' एकोन विंशतिर्मुहूर्ताः, 'तेतालीसं च बावट्ठिभागा मुहुत्तस्स' त्रिचत्वारिंशच्च द्वाषष्टिभागा मुहूर्त्तस्य, 'बावद्विभागं च' द्वाषष्टिभागं च 'सत्तट्टिहा छित्ता' सप्तषष्टिधा छित्त्वा विभज्य ' तेत्तीसचुणिया भागा' त्रयस्त्रिंशच्चूर्णिका भागाः (१९-४ । ३३) । ‘सेसा' शेषा अवशिष्टास्तिष्ठे युस्तदा सूर्यश्चरमां द्वाषष्टितमां पौर्णमासी परिसमापयतीति भावः । कथमेतदवसीयते ? इत्यत्राहस एव ध्रुवराशिः ६६ । ५। १ । द्वाषष्टि पौर्णमासी चिन्तायां द्वाषष्टया गुण्यते जातानि द्विनवत्यधिकानि चत्वारिंशच्छतानि मुहूर्तानाम्, एकस्य च मुहूर्तस्य दशोत्तराणि त्रीणि शतानि द्वषष्टि भागाः, एकस्य च द्वापष्टिभागस्य द्वाषष्टिः सप्तषष्टिभागाः (४०९२-२१ । ६२)। अत्र पुष्यस्य ६२ ६७ त्रिंशन्मुहूर्तात्मकत्वा दशसु मुहूर्तेषु, एकस्य च मुहूर्तस्याष्टादशसु द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य चतुस्त्रिंशति सप्तषष्टिभागेषु १० । १८ । ३४ । अतिक्रान्तेषु पाश्चात्ययुगं परिसमाप्तिमेति, तदनन्तरमन्यद् युगं प्रवर्तते । पुष्यस्यापि च तावन्मात्रादतिक्रान्तात् परतो यावद् भूयोऽपि तावन्मात्रस्य पुष्यस्यातिक्रमो भवेत्तावप्रमाण एकः परिपूर्णो नक्षत्रपर्यायो जायते, तस्य च प्रमाणम्-एकोनविंशत्यधिकानि अष्टौ शतानि मुहूर्तानाम्, एकस्य च मुहूर्तस्य चतुर्विंशति षिष्टिभागाः, एकस्य च द्वाषष्टिभागस्य पट्षष्टिः सप्तपष्टिभागाः (८१९ २४ । ६६) । एतच्च पञ्चभिर्गुणयित्वा प्रागुक्तात् ध्रुवराशेः (६६ । ५ । १ । ) द्वाषष्टिगुणितात् (४०९२ । ३१० । ६२) शोध्यते, तच्च परिपूर्ण शुद्धयति, पश्चाच्च शशि निर्लेपो जायते, ततः पुष्यस्य त्रिंशन्मुहूर्तात्मकत्वात्तस्य सूर्येण युक्तस्य दशसु मुहूर्तेषु, एकस्य च मुहूर्त्तस्याष्टादशसु द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य चतुस्त्रिंशति सप्तपष्टिभागेषु अतिक्रान्तेषु (१०-८ । २४), तथा एकोनविंशतौ च मुहूर्तेषु ६२ ६७ एकस्य च मुहूर्तस्य त्रिचत्वारिंशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य त्रयस्त्रिंशति सप्तषष्टि ६२ ६७ ८30 भागेषु ( १९४३ . ३३ ) शेषेषु चरमां द्वाषष्टितमां पौर्णमासी परिसमातिं प्राप्तवानिति । सूत्र ॥८॥ ६२ ६७
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy