________________
४५२
चन्द्रप्रज्ञप्तिसूत्रे
५२४ द्वाषष्टिभागस्य चत्वारः सप्तषष्टि भागाः (३८---) । अस्माद्राशेस्त्रिंशन्मुहूर्त्ता रेवतीनक्षत्रस्य
६२६७
शोध्यन्ते, स्थिताः पश्चात् अष्टौ मुहूर्ताः, शेषं तदेव, तथा चाङ्कतः-(८१२१-७तत आगतमू
अश्विनीनक्षत्रस्य त्रिंशन्मुहूर्तात्मकत्वात्तस्य-एकविंशतौ मुहूर्तेषु, एकस्य च मुहूर्तस्य नवसु द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य त्रिषष्टौ सप्तषष्टिभागेषु (२१+९+६३) शेषेषु चन्द्रस्तृतीयां पौर्णमासी समापयतीति ।
साम्प्रतमस्यामेव तृतीयस्यां पौर्णमास्यां सूर्य नक्षत्रयोगमाह-'तं समयं च णं' इत्यादि गौतमः पृच्छति-'तं समयं च णं' तस्मिन् समये च खलु यस्मिन् समये चन्द्रस्तृतीयां पौर्णमासीमश्विनीनक्षत्रस्य कतिपयभागशेषे समापयति तस्मिन् समये इत्यर्थः 'सूरिए' सूर्यः 'केणंणक्खत्तेणं' केन नक्षत्रेण सह युक्तः सन् तृतीयां पौर्णमासीं 'जोएइ' युनक्ति समापयति ? । गौतमेन एवं पृष्टे भगवानाह-'ता चित्ताए' इत्यादि, 'ता' तावत् 'चित्ताए' चित्रया, चित्रानक्षत्रस्य एकतारकत्वादेकवचनम् चित्रानक्षत्रेण युक्तः सन् सूर्यस्तृतीयां पौर्णमासी समापयतीति भावः । तदेव स्पष्टयति-'चित्ताए इत्यादि, 'चित्ताए' चित्रायाः चित्रानक्षत्रस्य 'एक्को मुहुत्तो' एको मुहूर्तः 'अट्ठावीसं च बावट्ठिभागा मुहुत्तस्स' अष्टाविंशतिश्च द्वाषष्टिभागा मुहूर्तस्य, तथा 'बाबट्ठिभागंच' द्वाषष्टिभागं च 'सत्तट्टिहा छित्ता' सप्तषष्टिधा छित्त्वा विभज्य तत्सत्काः 'तीसंचुणिया भागा' त्रिंशच्चूर्णिका भागाः (१२०३०) 'सेसा' शेषा अवशिष्टा यदा भवेयुस्तदा
६२०६७ सूर्यस्तृतोयां पौर्णमासी परिसमापयतीति । कथमित्याह-स एव ध्रुवराशिः ६६।५।११. अत्र तृतीय पौर्णमासी चिन्त्यतेऽत एष ध्रुराशिस्त्रिभिर्गुण्यते, जाता अष्टनवत्यधिकशतमुहूर्ताः, एकस्य च
मुहूर्तस्य पञ्चदश द्वाषष्टिभागाः, एकस्य द्वाषष्टिभागस्य त्रयः सप्तषष्टिभागाः (१९८---)।
S
:
२
तत एतस्माद्राशेः पुष्यशोधनकम्-एकोनविंशतिर्मुहूर्ताः, एकस्य मुहूर्तस्य च त्रिचत्वारिंशद् द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य त्रयस्त्रिंशत् सप्तषष्टिभागाः (१९-४३०३३), एतत्परिमितं पूर्वप्रकारेण शोध्यते स्थितं पश्चान्मुहूर्तानामष्टसप्तत्यधिकं शतम् , एकस्य च मुहूर्तस्य त्रयस्त्रिंशद् द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य सप्तत्रिंशत् सप्तषष्टिभागाः (१७८-३३३७) । तत
६२१६७