SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ चन्द्रशप्तिप्रकाशिकाटीकाप्रा.१०प्रा.प्रा.२२ सू.८ च सू. वा केन न. पौर्णमासी समापयति ४५१ मुहूर्तानाम्, एकख्य च मुहर्तस्याष्टाविंशति पिष्टिभागाः, एकस्य च द्वाषष्टिभागस्य षट्त्रिंशत् सप्तष्टिभागाः (११२-२००३६)एतस्मादाशेः पञ्चदश मुहर्ता अश्लेषायाः त्रिंशन्मुहूर्ता मधायाः, त्रिंशन्मुहूर्ताश्च पूर्वाफाल्गुन्यः शोध्याः, इति सर्वे पञ्चसप्ततिर्मुहूर्ताः शोध्यन्ते ततः स्थिताः पश्चात् सप्तत्रिंशन्मुहूर्ताः, शेषा भागास्त एव, यथा (३७-२८३६) तत उत्तर फल्गुनी नक्षत्रस्य पञ्चचत्वारिंशन्मुहूर्तात्मकत्वात् उत्तरफल्गुनीनक्षत्रं सूर्येण युक्तं सत् स्वस्य सप्तसु मुहर्तेषु, एकस्य च मुहूर्तस्य त्रयस्त्रिंशाते द्वाषष्टगागेषु, एकस्य च द्वाषष्टिभागस्य एकत्रिंशति सप्तषष्टिभागेषु (७-२२)शेषेषु द्वितीयां पौर्णमासी परिसमापयतीति ।२। अथ-तृतीयपौर्णमासी विषयं चन्द्रनक्षत्रयोगसूत्रमाह-'ता एएसि णं' इत्यादि। गौतमः पृच्छति-'ता' तावत् ‘एएसि गं' एतेषां खलु ‘पंचण्हं संवच्छराणं' पञ्चानां संवत्सराणां मध्ये 'तच्च पुण्णमासिणिं' तृतीयां पौर्णमासी 'चंदे' चन्द्रः 'केणं णक्खत्तेणं' केन नक्षत्रेण 'जोएई' युनक्ति ? भगवानाह- 'ता अस्सिणीहि' इत्यादि 'ता' तावत् । 'अस्मिणिहिं' अश्विनीभिः अश्विनीनक्षत्रस्य त्रितारकत्वाद्वहुवचनम्, तृतीयपौर्णमासीपरिसमाप्तिसमये 'अस्सिनीणं' अश्विनीना मिति अश्विनीनक्षत्रस्य 'एकवीसं मुहत्ता' एकविंशतिर्मुहूर्ताः, 'नवय बावद्विभागा मुहत्तस्म नव च द्वाषष्टिभागा मुहूर्तस्य, 'बावट्ठिभागं च सत्तट्टिहा छित्ता' द्वाषष्टिभाग च सप्तषष्टिधा छित्वा विभज्य तत्सम्बन्धिनः 'तेवढीचुणिया भागा त्रिषष्टि श्चूर्णिकाः भागाः ( २१-९६२) यदा 'सेसा' शेषा अवशिष्टास्तिष्ठेयुस्तदा चन्द्रः तृतीयां पौर्णमासी परिसमापय (२१-६२६७ तीति भावः । तथाहि-अत्रापि स एव (६६।५।१।) ध्रुवराशिः अत्र तृतीय पौर्णमासी प्रष्ठुरिष्टेति ध्रुवराशिस्त्रिभिर्गुण्यते, जातमष्टानवत्यधिकमेकं शतं मुहूर्तानाम्, एकस्य च मुहूर्तस्य पञ्चदशा द्वाषष्टिभागाः एकस्य च द्वाषष्टिभागस्य त्रयः सप्तषष्टिभागाः (१९८-५२) ततः 'उगणार ६२६७ पोद्वया' इति करणगाथा वचनात् पूर्वोक्तराशेः एकोनषष्टयधिक रातमुहूर्ताः, एकस्य च मुहूर्तस्य चतुर्विशतिश्च द्वाषष्टिभागाः, एकस्य च द्वावष्टिभागस्य षट्षष्टिः सप्तषष्टि भागा ( १५९-२४/६५) अभिजित आरभ्योत्तरभाद्रपदा पर्यन्तानां षण्णां नक्षत्राणां शोध्याः शोधिते च ६२/६७ पश्चादवतिष्ठन्ते-अष्टत्रिंशन्मुहूर्ताः, एकस्य च मुहूर्तस्य द्विपञ्चाशद् द्वाषष्टिभागाः, एकस्य च
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy