SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ ६२६७ " चन्द्राप्तिप्रकाशिकाटीकाप्रा.१०प्रा०प्रा.२२सू.८ च.सू. वा केन न. पौर्णमासी समापयति ४४९ त्रिंशत् सप्तषष्टिभागाः, (४६.२३/३५) तत एभ्यः षट्चत्वारिंशन्मुहूर्तेभ्यः (४६) पञ्चदशमुहूर्ता अश्लेषायाः, त्रिंशन्महूर्ताश्च मघाया इति मिलित्वा पञ्चचत्वारिंशन्मुहूर्ताः (४५) शोध्यन्ते, स्थितः पश्चादेको मुहूर्तः (१) शेषा अङ्कास्त एव, तथाहि-एको मुहूर्तः परिपूर्णः एकस्य मुहूर्तस्य च त्रयोविंशतिषिष्टिभागाः, एकस्य च द्वाषष्टिभागस्य पञ्चत्रिंशत् सप्तषष्टि भागाः (१२), इति पूर्वफाल्गुनी नक्षत्रस्य त्रिंशन्मुहूर्तात्मकत्वात् एष पूर्वोक्तो राशिस्त्रिंशन्मुहूर्तभ्यः शोध्यते । तत आगतम् पूर्वाफाल्गुनोनक्षत्रस्याष्टाविंशतौ मुहूर्तेषु, एकस्य च मुहूर्तस्याष्टात्रिंशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य द्वात्रिंशति सप्तषष्टिभागेषु (२८-३८-३२) शेषेषु सूर्यः प्रथमां पौर्णमासी परिसमापयति । एते च सूर्यमुहूर्ताःसन्ति, एवम्भूतैश्च सूर्यमुहूर्तस्त्रिंशत्संख्यकैः संमिलितैस्त्रयोदशरात्रिन्दिवानि, तदुपरि एकस्य च रात्रिन्दिवस्य द्वादश व्यावहारिका मुहूर्ता भवन्ति, तत एतदनुसारेण गतैकदिवसभागगणना भवति, शेषस्थितदिवसगणना च पूर्वाफाल्गुनीनक्षत्रस्य स्वयं कर्तव्या एवमग्रे उत्तरसूत्रेष्वपि सूर्यनक्षत्रयोगे भावना कर्त्तव्येति । द्वितीयायाः पौर्णमास्याश्चन्द्रयोगं पृच्छति-'ता एएसिणं' इत्यादि, 'ता तावत् 'एएसिणं एतेषां पूर्वोक्तानां 'पंचण्हं संवच्छराणं' पञ्चानां संवत्सराणां मध्ये 'दोच्चं पुण्णमासिणिं' द्वितीयां पौर्णमासी 'चंदे' चन्द्रः 'केणं णक्खत्तेण' केन नक्षत्रेण सह युक्तः सन् 'जोएइ' युनक्ति ? । एवं गौतमेन पृष्टे भगवानाह-'ता' तावत् 'उत्तरापोद्ववयाहिं' उत्तराप्रोष्ठपदाभ्याम् , अत्रापि उत्तराप्रोष्ठपदानक्षत्रस्य द्वितारकत्वाद् द्विवचनम् , तयोश्च 'उत्तरापोढवयाणं' उत्तराप्रोष्ठपदयोः उत्तराभाद्रपदा नक्षत्रस्य ‘सत्तावीसं मुहुत्ता' सप्तविंशतिर्मुहूर्ताः 'चोइस य बावद्विभागा मुहुत्तस्स' चतुर्दशच द्वाषष्टिभागा एकस्य मुहूर्तस्य, तथा 'बावद्विभागं च सत्तढिहा छित्ता' द्वाषष्टितमं भागं च सप्तषष्टिधा छित्त्वा एकस्य द्वाषष्टिभागस्य च सप्तषष्टिभागान् कृत्वा तत्सम्बन्धिनः 'चउसट्टी चुण्णियाभागा' चतुष्पष्ठिश्चूर्णिका भागाः शेषास्तिष्ठन्ति तदा द्वितीयां पौर्णमासी चन्द्रः परिसमापयति । कथमित्यत्राह-स एब ध्रुवराशिः-६६।५।१। द्वितीय पौर्णमासीपृच्छायां द्वाभ्यां गुण्यते, जातं द्वात्रिंशदुत्तरं शतं (१३२) मुहूर्तानाम् , एकस्य च मुहूर्तस्य दश द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य द्वौ सप्तषष्टिभागौ (१३२१०। २ ) । ततः पूर्वक्रमेणाभिजिन्नक्षत्रस्य नवमुहूर्ताः एकस्य च मुहूर्त्तस्य चतुर्विशतिषिष्टिभागाः एकस्य च द्वाषष्टिभागस्य सम्बन्धिनः षट्षष्टिः सप्तपष्टिभागाः (९-२४.६६) शोध्यन्ते, स्थिता शेषा द्वाविंशत्यधिकशतसंख्यकाः (१२२) मुहूर्ताः, ५७ ६।६७ ६२०६७
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy