SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रशतिचे ५ भागस्य सप्तषष्टिभागान् विधाय तेभ्यः 'दुत्तीसं चुण्णियाभागा द्वात्रिंशत् चूर्णिकाभागः २८- ३८ ३२ 'सेसा' शेषास्तिष्ठन्ति तदा सूर्यः प्रथमां पौर्णमासीं समापयतीतिभावः । ६२ ६७ तदेव दर्शयति--अत्रापि स एव पूर्वोक्तो ध्रुवराशि:- षट्षष्टिमुहूर्त्ताः, एकस्य च मुहूर्तस्य पञ्च द्वाषष्टिभागाः, एकस्य सप्तषष्टिभागस्य एकः सप्तषष्टि भाग : ( ६६ - इत्येवं रूपो धिते धृत्वा चास्याः पौर्णमास्याः प्रथमत्वादद् एकेन गुण्यते, जातं तदेव (६६–५–१) ततस्तस्मात् पुष्यशोधनकम् एकोनविंशतिमुहूर्त्ताः, एकस्य च मुहूर्त्तस्य त्रिचत्वारिंशद् द्वाषष्टिभागाः, एकस्व च द्वाषष्टिभागस्य त्रयस्त्रिंशत् सप्तषष्टिभागाः, (१९– ४३ ३३) इत्येवं प्रमाणं शोध्यते अथास्य पुष्य ६२ ६७ ६२ ६७ ६३ ६७ ४४८ शोधनकस्य कथमुत्पत्तिः ? अत्रोच्यते अत्र पूर्वं युगपरिमाप्तिसमये पुष्पस्य त्रयोविंशतिः सप्तषष्टिभागाः (२३) परिपूर्णाः परिसमाप्तिं गताः शेषाश्चतुश्चत्वारिंशद्भागाः (४४) अवतिष्ठन्ति, ततः शेषीभूताश्चतुश्चत्वारिंशत् सप्तषष्ठिभागाः (४४) मुहूर्त्तानयनार्थं त्रिंशता गुण्यते, जातानि विंशत्यधिकानि त्रयोदशशतानि (१३२०) अस्य राशेसप्तषष्ट्या भागो हियते, लब्धा एकोनविंशति मुहूर्त्ताः (१९), तिष्ठन्ति शेषाः सप्तचत्वारिंशत् (४७) एते च द्वाषष्टिभागानयनार्थं द्वाषष्ट्या गुण्यन्ते, जातानि चतुर्दशाधिकानि एकोनत्रिंशच्छतानि (२९१४) । एषां सप्तषष्टचा भागो ह्रियते लब्धास्त्रिचत्वारिंशद् द्वाषष्टिभागाः (२), स्थिताः शेषास्त्रयस्त्रिंशत् (३३), ते च सप्तषष्टिभागाः, तदेवमागतं पुष्प ६२ शोधनकम्–एकोनविंशतिर्मुहूर्त्ताः एकस्य च मुहूर्त्तस्य त्रिचत्वारिंशद् द्वाषष्टिभागाः एकस्य च द्वाषष्टिभागस्य त्रयस्त्रिंशत् सप्तषष्टिभागाः (१९-(१९३६३ (३३) इति एष राशिर्ध्रुवराशेः (६६।५।१ शोध्यते । तत्र षट्षष्टे मुहूर्तेभ्य एकोनविंशतिर्मुहूर्त्ताः शुद्धाः स्थिताः पश्चात्सप्तचत्वारिंशत् (४७) एभ्य एको मुहूर्ती गृह्यते तदा स्थिताः पश्चात् षट्चत्वारिंशत (४६) गृहीतस्यैकस्य मुहूर्त्तस्य द्वाषष्टि भागाः कर्त्तव्याः, ते च पञ्चकरूपे द्वाषष्टिभागराशौ प्रक्षिप्यन्ते जाताः सप्तषष्टिद्वषष्टिभागाः, तेभ्यस्त्रिचत्वारिंशत् शोध्यन्ते स्थिताः पश्चाच्चतुर्विंशतिः (२४), एभ्य एक रूपमुपादीयते जाता त्रयोविंशतिः, गृहीतस्य एकस्य सप्तषष्टिभागाः क्रियन्ते, ते च एककरूपे सप्तषष्टिभागे प्रक्षिप्यन्ते, जाता अष्टषष्टिः सप्तषष्टिभागाः (६) एभ्यस्त्रयस्त्रिंशत् शुद्धाः, स्थिताः पञ्च
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy