________________
४३८
चन्द्रप्रज्ञप्तिसूत्रे खलु देशे स्थितः सन् 'सूरिए सूर्यः ‘पढम' प्रथमां युगादौ प्रथमप्राप्तां 'पुण्णमासिणिं' पौर्णमासी 'जोएइ' युनक्ति 'ताओ' तस्मात् 'पुण्णमासिणिट्ठाणाओ' पौर्णमासी स्थानात् युगादिप्रथम पौर्णमासी परिसमप्तिनिबन्धस्थानात् परतःमण्डलं 'चउन्नीसेणंसएणं' चतुर्विशत्यधिकेन शतेन 'छित्ता' छित्त्वा विभज्य तग्दतान् 'चउणवइभागे' चतुर्नवति भागान् ‘उवाइणावित्ता' उपादाय, 'एत्थ णं' अत्र खलु अस्मिन् देशे स्थितः सन् ‘से मूरिए' न सूर्यः 'दोच्च पुण्णमासिणि द्वितीयां पौर्णमासी 'जोएइ' युनक्ति परिसमापयति । अथ तृतीयपौर्णमासीविषये पृच्छति—'ता' तावत् 'एएसिणं पंचण्हं संबच्छराणं' एतेषां खलु पञ्चानां संवत्सराणां मध्ये ‘तच्चं पुण्णमासिणि' तृतीयां पौर्णमासीं 'सूरिए' सूर्यः 'कंसि देसंसि जोएड' कस्मिन् देशे स्थितः सन् युक्ति तृतीयपोणेमासी समापयति ? । भगवानाह–'ता' तावत् 'जसि णं देससी' यस्मिन् खलु देशे स्थितः सन् 'सूरिए' सूर्यः 'दोच्चं पुण्णमासिणि' द्वितीयां पौर्णमासी 'जोएइ' युनक्ति 'ताओ पुण्णमासिणिट्ठाणाओ' तस्मात् पौर्णमासी स्थानात् परतःमण्डलं 'चउव्वीसेणं सएणं' चतुर्विशत्यधिकेन शतेन 'छित्ता' छित्त्वा विभज्य तग्दतान् ‘चउणवइभागे' चतुर्नवति भागान् ‘उवाइणावित्ता' उपादाय, 'एत्थ णं, अत्र खलु देशे ‘से सूरिए' स सूर्यः 'तच्च पुण्णमा सिणी' तृतीयां पौर्णमासीं 'जोएइ' युनक्ति । एवमेव चतुर्थी पौर्णमासीत आरभ्य एकादशी पौणमासी पर्यन्तं स्वयमूहनीयम् । अथ तृतीयामधीकृत्य द्वादशी पौर्णमासी पृच्छति--ता एएसिणं' इत्यादि, 'ता' तावत् 'एएसिणं' एतेषां खलु ‘पंचण्हं संवच्छराणं' पञ्चानां संवत्सराणां मध्ये 'दुवालसं पुण्णमासिणि' द्वादशी पौर्णमासीं 'सूरिए' सूर्यः ‘कसि देसंसि' कस्मिन् देशे स्थितः सन् 'जोएइ' युनक्ति परिसमापयति ?। भगवानाह-'ता' तावत् 'जंसि णं देसंसि' यस्मिन् खलु देशे स्थितः सन 'मूरिए' सूर्यः ‘तच्चं पुण्णमासिणि' तृतीयां पौर्णमासीं 'जोएइ' युनक्ति परिसमापयति 'ताओ पुण्णमासिणिट्ठाणाओ' तस्मात् पौर्णमासीस्थानात् परतः ‘मंडलं' मण्डलं 'चउवव्वीसेणंसएणं' चतु विशत्यधिकेन शतेन 'छित्ता' छिन्वा विभज्य 'अट्ठछत्ताले भागसए' अष्ट षट्चत्वारिंशानि भागशतानि षट्चत्वारिंशदधिकानि अष्टशतानि भागानां, तृतीयस्याः पौर्णमास्याः परतो द्वादशी पौर्णमासीनवमी भवति, ततश्चतुर्नवतिर्नवभिर्गुण्यते, जायन्ते अष्टौ शतानि षट्चत्वारिंशदधिकानि (८.४६) एतावतो भागान् ‘उवाइणावित्ता' उपादाय, 'एत्थ णं' अत्रास्मिन् खलु देशे ‘से सूरिए' स सूर्यः 'दुवालसमं' पुण्णमासिर्षि' द्वादशी पौणमासी 'जोएइ' युनक्ति अथाऽतिदेशमाह-'एवं खलु' इत्यादि । ‘एवं' एवम् अनेनैव प्रकारेण खलु ‘एसणं' एतेन पूर्वोक्तेन 'उवाएणं' उपायेन विधिना 'ताओ ताओ' तस्मात् तस्मात् विवक्षितात् 'पुण्णमासिणिहाणाओ' पौर्णमासी स्थानात् पाश्चात्यपाश्चात्यपौर्णमासीपरिसमाप्तिस्थानात् 'मंडलं' मण्डलं 'चउव्वीसेणं' सएणं चतुर्विशत्यधिकेन शतेन 'छित्ता' छित्त्वा परतस्तद्गतान् 'चउणवइं चउणवइं भागे' चतुर्नवतिं चतुर्नवति भागान् ‘उवाइणावित्ता' उपादाय 'तंसि तंसि णं देसंसि' तस्मिन तस्मिन्