SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा. १० प्रा. प्रा. २२ सू. ५. सूर्यस्य पौर्णमासीपरिसमप्तिदेशः ४३७ तृतीयां पौर्णमासी सूर्यः युनक्ति तस्मात् पौर्णमासीत्थानात् मण्डलं चतुर्विशेन शतेन छित्त्वा अष्ट षट्चत्वारिंशानि भागशतानि उपादाय, अत्र खलु स सूर्यः द्वादशी पौर्णमासी युनक्ति । एवं खलु एतेन उपायेन तस्मात् तस्मात् पौर्णमासोस्थानात् मण्डल चतुर्विशेन शतेन छित्त्वा चतुर्नवति चतुर्नवति भागान् उपादाय तस्मिन् तस्मिन् खलु देशे तो तां पौर्णमासी सूर्यः युनक्ति । तावत् एतेषां खलु पञ्चानां संवत्सराणां चरमां द्वाषष्टिं पौर्णमासी सूर्यः कस्मिन् देशे युनक्ति ? तावत् जम्बूद्वीपस्य खलु द्वीपस्य प्राची प्रतीच्यायतया, उदीची दक्षिणायतया जीवया मण्डलं चतुर्विशेन शतेन छित्त्वा पौरस्त्ये वतुर्भागमण्डले सप्तविंशति भागान् उपादाय अष्टाविंशतिं भाग विशतिधा छित्त्वा अष्टादशं भागं उपादाय त्रिभिर्भागैः द्वाभ्यां च कलाभ्यां दाक्षिणात्यं चतुर्भागमण्डलम् असम्प्राप्तः, अत्र खलु सूर्यः चरमां द्वाषष्टिं पौर्णमासी युनक्ति । सूत्र ॥५॥ व्याख्या—'ता एएसिण' इति तत्र युगे 'एएसि णं' एतेषां पूर्वोक्तानां 'पंचण्हं संवच्छराणं' पञ्चानां चन्द्रादिसंवत्सराणां मध्ये 'पढमं पुण्णमासिणि' प्रथमां पौर्णमासीं 'सरिए' सूर्यः ‘कसि देससि' कस्मिन् देशे स्थितः सन् 'जोएई' युनक्ति परिसमापयति ! एवं गौतमेन पृष्टे भगवानाह'ता जंसि णं' इत्यादि । 'ता' तावत् 'जंसि णं देसंसि' यस्मिन् खलु देशे स्थितः सन् 'मूरिए' सूर्यः 'चरिमं' चरमां पाश्चात्ययुगपर्यन्तवर्तिनीं 'बावडिं' द्वाषष्टिं द्वाषष्टितमा 'पुण्णमासिणि' पौर्णमासीं 'जोएइ' युनक्ति परिसमापयति 'ताओ' तस्मात् 'पुण्णमासिटाणाओ' पौर्णमासीस्थानात् चरमद्वाषष्टितम पौर्णमासीपरिसमाप्तिकारणभूतात् स्थानात् परतः ‘मंडलं'मण्डलं 'चउव्वीसेणं सएणं' चतुर्विशेन शतेन चतुर्वि शत्यधिकेन शतेन (१२४) 'छित्ता' छित्त्वा विभज्य तग्दतान् 'चउनवई भागे चतुर्नवति भागान् ‘उवाइणावित्ता' उपादाय 'एत्थ ण' अत्र खलु ‘से सूरिए' स सूर्यः 'पढम' प्रथमां 'पुण्णमासिणि' पौर्णमासीं 'जोएइ' युनक्ति परिसमापयति । किमत्र कारणमितिचेदाह-इह परिपूर्णेषु त्रिंशदहोरात्रेषु परिसमाप्तेषु सत्सु स एव सूर्यस्तस्मिन्नेव देशे वर्तमानः प्राप्यते, नतु कतिपयभागन्यनेषु । पौर्णमासी च चन्द्रमासपर्यन्त पारसमाप्तिमुपयति, चन्द्रमासस्य च परिमाण मेकोनत्रिंशदहोरात्राः, एकस्य चाहोरात्रस्य द्वात्रिंशद् द्वाषष्टिभागाः(२९-२२ ततस्त्रिंशत्तमेऽहोरात्रे द्वात्रिंशति द्वाषष्टिभागेषु गतेषु सत्सु सूर्यश्चरमद्वाषष्टितमात् पौर्णमासी परिसमाप्तिकरणभूतात् स्थानात् चतुर्नवतौ चतुर्विशत्यधिकशतभागेषु समतिक्रान्तेषु सत्सु प्रथमां पौर्णमासी परिसमापयन् प्राप्यते । यतोहि त्रिंशता भागैस्तमेव देशमसंप्राप्तः सन्नवाप्यते इति, त्रिंशतो द्वाषष्टि भागानामहोरात्र सम्बनिनामद्यापि स्थितत्वादिति । पुनगौ तमो द्वितीयपौर्णमासीविषये पृच्छति-'ता एएसिणं' इत्यादि, 'ता' तावत् 'एएसिग' एतेषां खलु 'पंचण्डं संवच्छराणं' पञ्चानां संवत्सराणां मध्ये 'दोच्च' द्वितीयां 'पुण्णमासिणि' पौर्णमासी 'मूरिए' सूर्यः 'कंसि देसि' कस्मिन् देशे स्थितः सन् 'जोएई' युनक्ति परिसमापयति ? भगवानाह--'ता' तावत् जिसि ण देसंसि' यस्मिन् ६६
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy