________________
४३४
चन्द्रप्रज्ञप्तिसूत्रे मण्डलं 'चउव्वीसेणं सएणं' चतुर्विशेन शतेन चतुर्विंशत्यधिकेन शतेन 'छित्ता' छित्त्वा तद्गतान् 'दुत्तीसं भागे' द्वात्रिंशतं भागान् द्वत्रिंशत्संख्यकान् भागान् ‘उवाइणावित्ता' उपादाय 'एत्थ' अत्र द्वात्रिंशद्भागरूपे देशे ‘से चंदे' स चन्द्रः 'दोच्चं पुण्णमासिणि' द्वितीयां पुणमासी 'जोएइ' युनक्ति परिसमापयति ! पुनः पृच्छति-'ता' तावत् 'एएसिं णं' एतेषां खलु पूर्वोदितानां 'पंचण्ह संवच्छराणं' पश्चनां संवत्सराणां तच्च पुण्णामासिणि' तृतीयां पौर्णमासी 'चंदे' चन्द्रः 'कंसि देसंसि' कस्मिन् देशे 'जोएइ' युनक्ति परिसमापयति ? । उत्तरयति-ता तावत् 'जंसिणं देसंमि' यस्मिन् खलु देशे 'चंदे' चन्द्रः 'दोच्चं पुण्णमासिणिं' द्वितीयां पौर्णमासी 'जोएइ' युनक्ति परिसमापयति 'ताओ णं' तस्मात् खलु 'पुण्णमासिणिट्ठाणाओ' पौर्णमासीस्थानात् 'मंडलं' मण्डलं 'चउव्वीसेणं सएणं' चतुर्विशेन शतेन 'छित्ता' छित्त्वा 'बत्तीसं भागे' द्वात्रिंशतं भागान द्वात्रिंशसंख्यकान् भागान् 'उवाइणावित्ता' उपादय, 'एत्थ णं' अत्र द्वात्रिंशद्भागरूपे देशे 'तच्चं पुण्णमासिणि' तृतीयां पौर्णमासीं 'जोएइ' युनक्ति परिसमापयति । एवमेव चतुर्थी पौर्णमासीन आरभ्य एकादशतम पौर्णमासीपर्यन्तं सूत्राणि स्वयमूहनीयानि । अथ तृतीयामेव पौर्णमासी लक्षी कृत्य द्वादशी पौर्णमासीविषयं सूत्रमाह-'ता एएसिणं' इत्यादि । 'ता' तावत् 'एएणं' एतेन प्रकारेण खलु 'पंचण्हं संवच्छराणं' पञ्चानां संवत्सराणां मध्ये 'दुवालसमं पुण्णमासिणि' द्वादशी पौर्णमासी 'चंदे' चन्द्रः 'कंसि देसंसि' कस्मिन् देशे 'जोएइ' युनक्ति ? । उत्तरमाह- त' तावत् 'जंसि गं देसंसि' यस्मिन् खलु देशे 'चंदे' चन्द्रः 'तच्चं पुण्णमासिणिं' तृतीयां गौणमासी 'जोएइ' युनक्ति 'ताओ णं' तस्मात् खलु 'पुण्णमासिणिट्ठाणाओ' पौर्णमासीस्थानात तृतीय पौर्णमासी परिसमाप्तिस्थानात् 'मंडलं' मण्डलं 'चउव्वीसेणं सएण' चतुर्विशत्यधिकेन शतेन 'छित्ता' छित्त्वा विभज्य 'दोणि अट्ठासीए भागसम्' द्वे अष्टाशीते भागशते अष्टाशील्यधिके द्वे भागशते (२८८), अत्र तृतीयस्याः परतः किल द्वादशी पौर्णमासी नवमी भवति, ततो द्वात्रिंशतो भागानां नवभिर्गुणने अष्टाशीत्याधिके द्वे शते भगानां (२८८) भवत इत्यैतावत्प्रमाणान् भागान् 'उवाइणावित्ता' उपादाय-गृहीत्वा 'एत्थ णं' अत्र खलु अष्टाशीत्यधिकशतद्वयभागररूपे देशे 'से चंदे' स चन्द्रः 'दुवालसमं पुण्णमासिणि' द्वदशी पौर्णमासी 'जोएइ' युनक्ति परिसमापयति । अथा ग्रेऽतिदेशेनाह-'एवं खलु' इत्यादि ‘एवं' एवम्-अनेन प्रकारेण खलु-निश्चितम् 'एएणं' एतेन पूर्वप्रदर्शितेन 'उवाएणं' उपायेन विधिना 'ताओ ताओ' यां यां पोर्णमासी यत्र यत्र देशे परिसमापयति तस्यास्तस्याः पौर्णमास्यास्ततोऽनन्तरां पौर्णमासी तस्मात्तस्मात् 'पुण्णमासिणिट्ठाणाओ' पौर्णमासीस्थानात् पाश्चात्य पौर्णमासी परिसर्माप्तिस्थानात् 'मंडलं' मण्डलं 'चउव्वीसेणं सएणं' चतुर्विशेन चतुर्विशत्यधिकेन शतेन 'छित्ता' छित्त्वा परतस्तद्गतान् 'दुत्तीसं २ भागे' द्वात्रिंशतं भागान् ‘उवाइणावित्ता' उपादाय 'तंसि तंसि देसंसि' तस्मिन् तस्मित् देशे 'तं तं पुण्णमासिणिं' तां तां पौर्णमासी 'चंदे' चन्द्रः 'जोएइ' युनक्ति-परिसमा