________________
चन्द्रातिप्रकाशिका टीका प्रा. १० प्रा. प्रा. २२ सू. ४. पौर्णमास्यऽमावास्यानिरूपणम् ४३५
पयति । सचैवं परिसमापयन् तावद् वेदितव्यः यावद् भूयोऽपि चरमां द्वाषष्टिं पौर्णमाखीं यस्मिन् देशे पाश्चात्ये युगे चरमां द्वाषष्टिं पौर्णमासीं परिसमापितवान् तस्मिन् देशे परिसमापयति कथ मेतदिति चेदत्र गणितक्रमं प्रदर्शयति- पाश्चात्ययुग चरमद्वाषष्टितमपौर्णमासी परिसमाप्तिस्था. नात् परतो मण्डलस्य चतुर्विंशत्यधित शतविभक्तस्य सम्बन्धिनां द्वात्रिंशतो भागाना मतिक्रमे तस्यास्तस्याः पौर्णमास्याः परिसमाप्तिर्भवति । युगे सर्वसंख्यया पौर्णमास्यो द्वाषष्टिर्भवन्ति, ततो द्वात्रिंशद्भागाद्वापष्ट्या गुण्यन्ते जातानि चतुरशीत्यधिकानि एकोनविंशतिशतानि (१९८४) । एषां चतुर्विंशत्यधिकेन शतेन ( १२४ ) भागो हियते, लब्धाः षोडश सकलमण्डलपरावर्त्ताः (१६) समस्तस्यापिच राशेर्निर्लेपी भवनादागताया यस्मिन् देशे पाश्चात्ययुगसम्बन्धि चरमद्वाषष्टितम पौर्णमासी परिसमाप्तिर्भवति सा । अथ चरमद्वाषष्टितम परिसमाप्तिदेशविषयकं सूत्रमाह-‘ता एएसिणं' इत्यादि । 'ता' तावत् युगे 'एएसि णं' एतेषां खलु 'पंचहं संवच्छरणं पञ्चानां संवत्सराणां मध्ये 'चरमं ' चरमां युगपर्यन्तवर्त्तिनीं ' बावहिं पुण्णमासिणि' द्वाषष्टि पौर्णमासीं 'चंदे' चन्द्रः 'कंसि देसंसि ' कस्मिन् देशे 'जोएइ' युनक्ति-परिसमापयति ? इति गौतमेन पृष्टे भगवानाह - 'ता जंबुद्दीवस्स णं' इत्यादि, 'ता' तावत् 'जंबुद्दीवस्स णं दीवस्स' जम्बूद्वीपस्य खलु द्वीपस्योपरि 'पाईणपडीणाययाए' प्राचीप्रतीच्यायतया, अत्र प्राची ग्रहणेन उत्तरपूर्वा गृह्यते प्रतीची ग्रहणेन दक्षिणापरा गृह्यते तेनायमर्थः - पूर्वोत्तरदक्षिणापरायतया, इति एवम 'उदीणदाहिणाययाए' उदीची दक्षिणायतया, उदीची शब्देनापरोत्तरायतया, दक्षिण शब्देन पूर्व दक्षिणयतया च अयं भावः - एका जीवा उत्तरतो निस्सृत्य पूर्वायां प्रविष्टा १, द्वितीया दक्षिणतो निस्सृत्य प्रतीच्यां प्रविष्टा २, तृतीया प्रतीचीतो निस्सृत्योत्तरस्यां प्रविष्टा ३, चतुर्थी पूर्वातो निस्सृत्य दक्षिणस्यां प्रविष्टा ४ इत्येवंरूपया जीवाए' जीवया प्रत्यञ्चा सदृशत्वात्प्रत्यञ्चया दवरिकयेत्यर्थः 'मंडल' मण्डलं' 'चउव्वीसेणं सरणं चतुर्वित्यधिकेन शतेन 'छित्ता' छित्वा विभज्य भूयश्चतुर्भिर्विभज्यते, ततः ' दाहिणिल्लंस' दक्षिणात्ये 'चउब्भागमंडलंसि' चतुर्भागमण्डले एकत्रिंशद्भागप्रमाणे 'सत्तावीसं चउन्भागे' सप्तविंशतिं चतुर्भागान् ' उवाइणा वित्ता' उपादाय 'अट्ठावीस भागं' अष्टाविंशतितमं भागं 'वीसहा छेत्ता' विंशतिधा छित्त्वा तग्दतान् 'अहारसभागे' अष्टादशभागान् 'उवाइणा वित्ता' उपादाय शेषैः ‘तिहिं भागेहिं त्रिभिर्भागैः, चतुर्थस्य भागस्य च दोहियकलाहिं' द्वाभ्यां च कलाभ्यां 'पच्चत्थिमिल्लं' पाश्चात्यं 'चउब्भागमंडल' चतुर्भागमण्डलम् 'असंपत्ते' असम्प्राप्तः, 'एत्थ णं' अत्र खलु अस्मिन प्रदेशे ‘चंदे' चन्द्र: 'चरिमं' चरमां सर्वान्तिमां 'बावडिं' द्वाषष्टिं द्वाषष्टितम 'पुण्णमा सिणि' पौर्णमासीं 'जोएइ युनक्ति - परिसमापयतीति ॥ सूत्र ॥४॥
पूर्वं चन्द्रस्य पौर्णमासी परिसमाप्तिदेशः प्रोक्तः, साम्प्रतं सूर्यस्य पौर्णमासी परिसमाप्तिदेशं प्रतिपादयन् तद्विषयकं सूत्रमाह-- ' ता एएसिणं' इत्यादि ।