SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा. १० प्रा. प्रा. २२ सू. ४ पौर्णमास्यऽमावास्यानिरूपणम् ४३३ तृतीय पौर्णमासी चन्द्रः कस्मिन् देशे युनक्ति ? तावत् यस्मिन् देशे चन्द्रः द्वितीयां पौर्णमासीं युनत्ति तस्मात् खलु पौर्णमासी स्थानात् मण्डलं चतुर्विंशेन शतेन छित्त्वा द्वात्रिंशतं भागान् उपादाय, अत्र खलु तृतीयां पौर्णमासीं चन्द्रः युनक्ति । तावत् एतेषां खलु पञ्चानां संवत्सराणां द्वादशां पौर्णमासी चन्द्रः कस्मिन् देशे युनक्ति ? तावत् यस्मिन् खलु देशे चन्द्रः तृतीयां पौर्णमासी युनक्ति तस्मात् पौर्णमासी स्थानात् मण्डलं चतुर्विशेन शतेन छित्त्वा द्वे अष्टाशीते भागशते उपादाय, अत्र खलु स चन्द्रः द्वादशां पौर्णमासीं युनक्ति । एवं खलु एतेन उपायेन तस्मात् तस्मात् पौर्णमासी स्थानात् मण्डलं चतुविंशेन शतेन छित्त्वा द्वात्रिंशत २ भागान् उपादाय तस्मिन् तस्मिन् देशे तां तां पौर्णमासीं चन्द्रः युनक्ति । तावत् एतेषां खलु पञ्चानां संवत्सराणां चरमां द्वाषष्टि पौर्णमासी चन्द्रः कस्मिन् देशे युनक्ति ? तावत् जम्बूद्वीपस्य खलु छोपस्य प्राची प्रतीच्यायतया उदोची- दक्षिणायतया जीवया मण्डलं चतुर्विशेन शतेन छित्त्वा दाक्षिणात्ये चतुर्भागमण्डले सप्तविशतिचतुर्भागान् उपादाय अष्टाविंशतिभागं विंशतिघा छित्त्वा अष्टादश भागान् उपादाय त्रिभि भांग द्वभ्यिां च कलाभ्यां पाश्चात्यं चतुर्भागमण्डलम् असम्प्राप्तः, अत्र खलु चन्द्रः चरमां द्वाषष्टि पौर्णमासीं युनक्ति ॥ सूत्र ॥४॥ व्याख्या - भगवानाह - ' तत्थ खलु' तत्र युगे खलु 'इमाओ' इमाः वक्ष्यमाणस्वरूपाः 'वा' द्वाषष्टि 'पुण्णमासिणीओ' पौर्णमास्यः तथा 'बावट्ठि' द्वाषष्टिरेव 'अमावासाओ' अमावास्याः 'पण्णनाओ' प्रज्ञप्ताः । भगवता एवं प्रोक्ते गौतमः प्रश्नयति 'ता एएसि णं पंच' इत्यादि, 'ता' तावत् 'एएसि णं' एतेषां चन्द्रादीनां खलु 'पंच'हं संवच्छरणं' पञ्चानां संवत्सराणां मध्ये 'पढमं' प्रथमां 'पुण्णमासिणि' पौर्णमासों 'चंदे' चन्द्र: 'कंसि देसंसि' कस्मिन् देशे 'जोए ' युनक्ति परिसमापयतीति प्रश्नः । उत्तरमाह 'ता' तावत् 'जंसि णं देसंसि' यस्मिन् खलु देशे 'चंदे ' चन्द्रः चरिमं चरमामन्तिमां पाश्चात्ययुगपर्यन्तवर्तिनी 'बासट्ठि' द्वाषष्टिं द्वाषष्टितमां 'पुण्णमा - सिणों पौर्णमासीं 'जोएइ' युनक्ति परिसमापयति 'ताओ णं' तस्मात् खलु 'पुण्णमा सिणिट्ठाणाओ, पौर्णमासी स्थानात् चरम द्वाषष्टितमपौर्णमासीं परिसमाप्तिस्थानात् परतः 'मंडल' 'चउब्बीसेणं सरणं' चतुर्विशेन शतेन चतुर्विंशत्यधिकेन शतेन (१२४) 'छित्ता' छित्वा विभज्य 'बत्तीसं भागे' द्वात्रिंशतं भागान् द्वात्रिंशत्संख्यकान् भागान् 'उवाइणावित्ता' उपादाय गृहीत्वा द्वात्रिंशद्वागग्रहणानन्तरं 'एत्थ णं' अत्र खलु द्वात्रिंशद्भागरूपे देशे ' से चंदे' स चन्द्रः 'पढमं पुण्णमा सिणिं' प्रथमां पौर्णमासीं 'जोएड' युनक्ति तां पौर्णमासीं परिसमापयतीति । पुनः प्रश्नयति - 'ना' तावत् 'एएसि णं' एतेषां खल पूर्वोक्तानां 'पंचण्हं संवच्छरणं' पञ्चानां संवत्सराणंमध्ये 'दोच्चं 'पुण्णमासिणि' द्वितीयां पौर्णमासीं 'चंदे' चन्द्र: 'कंसि देसंसि ' कस्मिन् देशे 'जोएइ' युनक्ति परिसमापयति ? उत्तरमाह-- जैसि णं देसंसि यस्मिन् खलु देशे 'चंदे' चन्द्रः 'पढमं पुण्णामसिणिं' प्रथमां पौर्णमासीं 'जोएइ' युनक्ति परिसमापयति 'ताओ णं' तस्मात् खलु पुण्णमा सिणिट्ठाणाओ' पौर्णमासीस्थानात् प्रथम पौर्णमासीपरिसमाप्तिस्थानात् परतः 'मंडल' ५०.
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy