SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिक टीका प्रा० १० प्रा. प्रा. २२ सू०३ नक्षत्राणां चन्द्रेण सह योगकरणम् ४३१ ततश्चतुश्चत्वारिंशत्तमामावास्यायाश्चिन्तायां त्रिचत्वारिंशत् (४३) चन्द्रमासाः, एकं च चन्द्रमासस्य पर्वलभ्यते, ततस्त्रिचत्वारिंशत् त्रिंशता गुण्यन्ते, जातानि नवत्यधिकानि द्वादशशतानि (१२९०), तत उपरितनमेकं पर्व, चन्द्रमासस्य पर्वद्वयं भवतीत्यैकपर्वगताः पञ्चदश प्रक्षिप्यन्ते, जातानि पञ्चाधिकानि त्रयोदशशतानि (१३०५), एषां द्वाषष्टया भागे हृते लब्धा एकविंशतिः (२१), सा त्यज्यते, शेषास्तिष्ठन्ति त्रयः ते एकषष्टया गुण्यन्ते जातं त्र्यशीत्यधिकमेकं शतम् (१८३), तस्य द्वाषष्टया भागो हियते लब्धौ द्वौ, तौ त्यक्तौ, शेषास्तिष्ठत्येकोनषष्टिः (५९), तदेव मागता-एकोनषष्टिा षष्टिभाग प्रमिता तस्मिन् दिनेऽमावास्येति । अमावास्यासु पौर्णमासीषु च नक्षत्रानयनाथे प्रागुक्तमेव करणं गृह्यते । तत्र ध्रुवराशि:-षट्षष्टिर्मुहूर्ताः, एकस्य च मुहूर्तस्य पञ्च द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य एकः सप्तषष्टिभागः (६६ तत्र चतुश्चत्वारिंशता गुण्यते, जातानि चतुरुत्तराणि एकोनत्रिंशच्छतानि (२९०४) मुहूर्ता २२० नाम् , एकस्य च मुहूर्त्तस्य द्वापष्टि भागानां विंशत्यधिके द्वे शते (२२.०) एकस्य च द्वाषष्टि भागस्य चतुश्चत्वारिंशत् सप्तष्टिभागाः (9) तदेवं सर्वाङ्कितः - मु... - २२०१४ ) तत्र पुनर्वसु प्रभृतिकमुत्तराषाढापर्यन्तं मुहूर्तानां द्विचत्वारिंशदधिकानि चत्वारिशतानि, एकस्य च मुहूर्त्तस्य षट्चत्वारिंशद्वाषष्टिभागाः (४४२-४६) इत्येवं प्रमाणं शोध्यते, जातानि मुहूर्तानां द्वाषष्टयाधिकानि चतुर्विशतिशतानि (२४६२), एकस्य च मुहूर्तस्य चतुः सप्तत्यधिकमेकं शतं द्वाष्टिभागानाम् (७१)। ततोऽभिजिदादि सकलनक्षत्रमण्डलशोधनकम् एकोनविंशत्यधिकानि अष्टौ शतानि, एकस्य च मुहूर्तस्य चतुर्विंशतिषिष्टिभागाः, एकस्य च द्वाषष्टिभागस्य षट्षष्टिः सप्तषष्टिः भागाः (८१९-२४६६) इस्येवं प्रमाणं यावत्संभवं शोधनीयम् । तत्र त्रि २९०४६ रा६७ ६२ गुणमपि शुद्धिमासादयतीति त्रिगुणं कृत्वा शोध्यते, स्थिता पश्चात् षड्मुहूर्ताः, एकस्य च मुहूतस्य सप्तत्रिंशद् द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य सप्तचत्वारिंशत् सप्तषष्टिभागा:(६-२०१७)। तत आगतं यत् चतुश्चत्वारिंशत्तमाममावास्यामभिजिन्नक्षत्रं षट्सु मुहूर्तेषु, सप्तमस्य च मुहूर्नस्य सप्तत्रिंशति द्वापष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य सप्त चत्वारिंशति सप्ता षष्टि भागेषु गतेषु सत्सु परिसमापयतीति ॥ सूत्र ३॥ ६२।६७
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy