________________
चन्द्रप्रज्ञप्तिसूत्रे च 'पविसिय २' प्रविश्य २ चन्द्रमण्डले समाविश्य २ 'चंदेण सद्धि जोयं जोएइ' चन्द्रेण सार्द्ध योगं युनक्ति ? । एवं गौतमेन प्रश्ने कृते भगवानाह-'ता एएसिणं' इत्यादि, 'ता' तावत् श्रूयताम्-'एएसिणं छप्पण्णाए णक्खत्ताणं' एतेषां खलु षट् पञ्चाशतो नक्षत्राणां मध्ये 'न किंपि तं' न किमपि तन्नक्षत्रं 'ज' यत् नक्षत्रं 'सया' सदा निरन्तरं प्रतिदिनमित्यर्थः ‘पाओ' प्रातः प्रभातसमये सूर्योदयवेलायां 'चंदेण सद्धिं जोयं जोएइ' चन्द्रेण साधू योगं युनक्ति, तथा 'नो' न किमपि तन्नक्षत्र यत् 'सया' सदा 'सायं' सायं सन्ध्याकाले सूर्यास्तसमये 'चंटेण सद्धिं जोयं जोएइ' चन्द्रेण सार्ध योगं युनक्ति । तथा 'नो न किमपि तन्नक्षत्रं यत् 'सया' सदा 'दुहओ' द्विघातः प्रातः सायं वा 'पविसिय २' प्रविश्य २ चन्द्रमण्डले समाविश्य २ 'चंदेण सद्धि जोयं जोएइ' चन्द्रेण साधं योगं युनक्ति । किं सर्वथा न किमपि नक्षत्र सदा प्रातरादिसमये चन्द्रेण सह योगं युनक्ति ? नैवम्, तत आह-'नन्नत्थ' नान्यत्र 'दोहिं अभिई हिं' द्वाभ्यामभिजिद्भयाम् , द्वौ अभिजितौ मुक्त्वाऽन्यत् किमपि नक्षत्र सदा प्रातरादि समये चन्द्रेण सह योगं न युनक्तीति भावः । तत्रापि 'ता' तावत् 'एतेणं' एते खलु 'दो अभिई' द्वौ अभिजितौ अपि युगेयुगे 'पायचिय २' प्रातरेव प्रातरेव चोत्तालीसं २' चतुश्चत्वारिंशां २ चतुश्चत्वारिंशतमां चतुश्चत्वारिंशत्तमा 'अमावासं' अमावास्यामेव चन्द्रेण सह योगं 'जोएंति' युक्तं: कुरुतः, चतुश्चत्वारिंशत्तमाममावास्यामेव परिसमापयत इति भावः, किन्तु 'नो चेव णं' नैव खलु 'पुण्णमासिणिं' पौर्णमासीम्, परिसमापयत इति । ___अथ कथमेतद् ज्ञायते यत् प्रति युगमभिजिन्नक्षत्र सदैव प्रातः काले चतुश्चत्वारिंशत्तमांचतुश्चत्वारिंशत्तमाममावास्यां चन्द्रेण सह योगं युङ्क्त्वा परिसमापयतीति ? तत्राह-पूर्वाचार्योपदर्शितकरणवशात् ज्ञायते, तदेवाह-प्रथमं तिथ्यानयनार्थ करणगाथेयम् -
"तिहिरासिमेव बवद्विभाइया सेसमेगसद्विगुणणं च ।
बावट्ठीए विभत्तं, सेसा अंसा तिहि समत्ती ॥१॥ छाया-तिथि राशिरेव द्वाषष्टिभाजितः शेषमेकषष्टि गुणनं च ।
___द्वाषष्टया विभक्तं, शेषा अंशा तिथि समाप्तिः ॥१॥ इति
अस्याः संक्षेपार्थः – 'तिहिरासिमेव' तिथिराशि रेवेति युगमध्ये ये चन्द्रमासा अतिक्रान्तास्ते तिथिराश्यानयनाथै त्रिंशता गुण्यन्ते, गुणिते यस्तिथिराशिर्जातः स एवेत्यर्थः 'बावद्विभाइया' द्वाषष्टिभाजितः, तस्य तिथि राशेषिष्टया भागो हियते, हृते च भागे 'सेस' यदवशिष्टं तस्य 'एगसट्ठिगुणणं' एकषष्टिगुणनम् एकषष्टया गुणकारः क्रियते गुणकारं कृत्वा 'बावटीएविभत्तं' द्वाषष्टया विभक्तं द्वाषष्ट्या भागो हरणीयः, हृते च भागे ये 'सेसा अंसा' शेषा अंशाः, ये अंशा उद्धरन्ति तत्परिमिता सा विवक्षिते दिने 'तिहिसमत्ती' तिथिसमाप्तिः विवक्षिततिथिसमाप्तिरवसेयेति करणगाथार्थः ॥१॥